भारतकोश
संग्रह पर लौटें

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

Appendix.

अप्रमाणितजितकाशित्वाभिमानस्य निजभुजोर्जितसमुपार्जितानेकभद्र- गजेन्द्रस्य म्लेच्छमहीपालव्यालचक्रवालविदलनविहंगमैन्द्रस्य प्रचंडदो- र्दंडखंडिताभिनिवेशनानादेशनरेशभालमालालालितपादारविंदस्य अस्ख- लितललितलक्ष्मीविलासगोविंदस्य कुनयगहनदहनदवानलायमानप्रता- पव्यापलायमानसकलवलूलप्रतिकूलक्ष्मापश्वापदवृंदस्य प्रवलपराक्रमा- क्रांतढिल्लीमंडल गूर्जरत्रासुरत्राणदत्तातपत्रप्रथितहिंदुसुरत्राणबिरुदस्य सुवर्णसत्रागारस्य षड्दर्शनधर्माधारस्य चतुरंगवाहिनीवाहिनीपारावार- स्य कीर्त्तिधर्मप्रजापालन सत्त्वादिगुणक्रियमाण श्रीराम युधिष्ठिरादिनरे- श्वरानुकारस राणाश्रीकुंभकर्णसर्वोर्वीपतिसार्वभौमस्य ४१ विजय- मानराज्ये तस्य प्रसादपात्रेण विनयविवेकधैर्यादार्य्यशुभकर्मनिर्मलशी- लाद्यद्भुतगुणमणिमयाभरणाभासुरगात्रेण श्रीमदहम्मदसुरत्राणदत्तफुर- माणसाधुश्रीगुणराजसंघपतिसाहचर्य्यकृताश्चर्य्यकारिदेवालयाडंबरपुरः- सरश्रीशत्रुंजयादितीर्थयात्रेण अजाहरिपिंडरवाटकसालेरादिवहुस्थानन- वीनजैनविहारजीर्णोद्धारपदस्थापनाविषमसमयसत्रागारनानाप्रकारपरो- पकारश्रीसंघसत्काराद्यगण्यपुण्यमहर्घक्रयाणकपूर्य्यमाणभवार्णवतारण- क्षममनुष्यजन्मयानपात्रेण प्राग्वाटवंशावतंससं० सांगरसुत सं०कुरपाल भा० कामलदेपुत्रपरमार्हत सं० धरणाकेन ज्येष्ठभ्रातृ सं० रत्न भा० र- त्नादेपुत्रसं० लाषाराजासोनासालिगस्वभा० सं० धारलदेपुत्रजाञ्जाजाव- डादिप्रवर्द्धमानसंतानयुतेन राणपुरनगरे राणाश्रीकुंभकर्णनरेंद्रेण स्व- नाम्ना निवेशिततदीयसुप्रसादादेशतस्त्रैलोक्यदीपकाभिधानः श्रीचतुर्मु- खयुगादीश्वरविहारः कारितः प्रतिष्ठितः श्री वृहत्तपागच्छे श्रीजगचंद्र- सूरिश्रीदेवेंद्रसूरिसंताने श्रीमत्श्रीदेवसुन्दरसूरिपट्टप्रभाकरपरमगुरु- सुविहितपुरंदरगच्छाधिराजश्रीसोमसुंदरसूरिभिः ॥ कृतमिदं च सूत्र- धारदेपाकस्य अयं च श्रीचतुर्मुखविहार आचंद्रार्कं नंदतात् ॥ शुभं भवतु ॥

207

Maharana Kumbha. IV The date of composition )of Sangītarāja as given at the end of a manuscript copy of it in the Bikaner State Library is Wednesday the 13th day of the dark half of Kartika, Sambat 1509, Shaka year 1374 (11th October, 1456 A.D.) श्रीमद्विक्रमकालतः परिगते नंदाभ्रभूतक्षितौ वर्षेञ्चाग्नलेन्दुशाकसमये संवत्सरे च ध्रुवे । ऊर्जे मासि तिथौ हरे र(क)विदिनेहस्तर्क्षयोगे तथा योगे चाभिजिति स्फुटोयमभवत्संगीतराजाभिधः ॥ V The Kumbhalgarh Inscription, dated Magsar Bad 5, V.S. 1517(A.D. 1460) engraved on stone tablets originally fixed in the Mamadeva (Kumbhaswāmi) Temple, and now kept in the Museum at Udaipur. ( Third slab. ) ॥ अथ राजवर्णनं ॥ अतः श्रीराजवंशोत्र प्रव्यक्तः [ प्रोच्यते ] धुना । चिरंतनप्रशस्तीनामनेकानामतः क्षणात् ॥ १३८ ॥ ( Fourth slab. ) माद्यन्माद्यन्महेभप्रखरकरहतिक्षिप्तराजन्ययूथो यं-खानः पत्तनेशो दफर इति समासाद्य कुण्ठीवभूव । सोयं मल्ल्रो रणादिः शककुलवनितादत्तवैधव्यदीक्षः कारागारे यदीये नृपतिशतयुते संस्तरं नापि लेभे ॥ १६६ ॥ यात्रोतुङ्गतुरंगचंचलखुराघातोच्छितै रेणुभिः सेहे यस्य न लुप्तरश्मिपटलव्याजत्प्रतापं रविः । 208

Appendix. .. तच्चित्रं किमु सादलादिकनृपा यत्प्राकृतास्तत्रसु- स्त्यक्त्वास्वानि पुराणि कस्तुवलिनां सूक्ष्मो गुरुर्वा पुरः ॥ १६६॥ शस्त्राशस्त्रिहताखिलंपटभटव्रातोच्छलच्छोणित- च्छन्नप्रोगतपांशुपुंजविसरत्प्रादुर्भवत्कर्द्दमम् । त्रस्तः सामिहतो रणे शकपतिर्यस्मात्तथामालव- क्ष्मापोऽद्यापि यथा भयेन चकितः स्वप्नेऽपि तं पश्यति ॥ २०० ॥ अमीसाहिरग्राहि येनाहिनेव स्फुरद्ग्रेक एकांगवीरव्रतेन । जगतत्राणरुद्धस्यपाणौ कृपाणः प्रसिद्धोऽभवद्भूपतिः खेतराणः ॥ २०२ ॥ कीनाशपाशान् सकलानपास्यत् यस्त्रिस्थलीमोचनतः शकेभ्यः । तुलादिदानातिभरो व्यतारील्लक्ष्याख्यभूपो निहतप्रतीपः ॥ २०७॥ मेदानाराङ्गलसादुल्लसत्तद्धेरीधीरध्वानविध्वस्तधैर्यान् । कारं कारं यो ग्रहीदुग्रतेजा दग्धारातिर्वर्द्धनाख्यं गिरीन्द्रम् ॥२१२॥ ............................... अथ महाराजाधिराजरायरायराणेराय- महाराणाश्रीकुम्भकर्णवर्णनम् ॥ २३२ ॥ माभूत्क्षुभ्यदनुच्छदुग्धजलधिस्वच्छोच्छलद्वीचिरु- क्तसत्कृतपूर्वपूरुषयशस्तत्संकुचद्वृत्तिमत् । इत्थं चारु विचार्यकुम्भनृपतिस्तानेकलिङ्गे व्यधात् रम्यान् मण्डपहेमदण्डकलशांस्त्रैलोक्यशोभातिगान् ॥ २४१ ॥ या नारदीयनगरावनिनायकस्य नार्या निरंतरमचीकरदत्रदास्यम् । तां कुम्भकर्णनृपतेरिहकः सहेत वाणावलीमसमसंगरसंचरिष्णोः ॥ २४६ ॥ योगिनीपुरमजेयमप्यसौ योगिनीचरणकिंकरो नृपः । 209

Maharana Kumbha. कुन्तलाकालतवैरिसुन्दरीविभ्रमे रमितविक्रमोऽगृहीत् ॥ २४७ ॥ अरिन्दमः स्वांघ्रिसरोजलग्नं विशोध्य शोध्याधिपतिप्रतीपम् । अरंतुदं कण्टकमिद्धतेजा भंक्त्वा क्षिपद्भूमितलेऽसिसूच्या ॥२४८॥ येन वैरिकुलं हत्वा मंडोवरपुरग्रहे । अनायि शांतिं रोषाग्निर्नागरीनयनांबुभिः ॥ २४९ ॥ विगृह्य हम्मीरपुरं शरोत्करैर्निगृह्य तस्मिन् रणवीरविक्रमम् । पर्यग्रहीदंबुजमंजुलोचना महीमहेन्द्रो नरपालकन्यकाः ॥ २५० ॥ नानादिग्भ्यो राजकन्याः समेत्य क्षोणीपालं कुम्भकर्णं श्रयंते । सत्यं रत्नं जायते सागरादौ युक्तं विष्णोर्वक्ष एवास्य धाम ॥ २५१ ॥ स धन्यो धान्यनगरमामूलादुदमूलयत् । पुरारिविक्रमो यागपुरं पुरमिवाजयत् ॥ २५३ ॥ ज्वालावलीवलयितां हृतनोद्यवालीं मन्नीवरवीरमुदवीवहदेष नीरं । यो वर्द्धमानगिरिमाशु विजित्य तस्मिन् मेवानमंदमदवद्धविधीनघाक्षीत् ॥ २५४ ॥ जनकाचलमुच्चशेखरं बलवन्मालवनाथमस्तके । प्रवरं गिरिदुर्गमुद्धतश्चरणं वाममिव व्यधादयम् ॥ २५६ ॥ महोच्चजनकाचले निखिलमालवक्ष्मापते- र्गलेपदमिवन्यधादमितविक्रमो भूपतिः । सरांसि जयवर्द्धने कृतपुरेपि यो वर्द्धने महामहिमशेखरे विपुलवप्रमुग्रद्युतिः ॥ २५७ ॥ जनकाचलमग्रहीदलं महतीं चंपवतीमतीतपत् गिरिसुन्दरखोलखंडनावनिवज्रायुध एष भूपतिः ॥ २५८ ॥ प्रत्यर्थिपार्थिवपराजयजन्महेतुर्वृंदावतीपुरमदीदहदेष वीरः । तद्गर्गराटगिरिदुर्गमपि क्षणेन संक्षोभमापयदपारपराक्रमेण ॥२५९॥ मल्लारण्यपुरं वरेण्यमनलज्वालावलीढं व्यधा- द्घोरः सिंहपुरीमवीभरदसिप्रध्वस्तवैरिव्रजैः । 210

Appendix. यत्नं रत्नपुरप्रभंजनविधावाधायधीमानतो नायं नायमनेकराजनिकरान् कारागृहेवीवसत् ॥ २६० ॥ पंढातीनां पादलक्षं सपादलक्षमावृतम् । कृत्वा मल्लारणवीरो रणस्तंभं तथाजयत् ॥ २६१ ॥ श्राम्रदाद्रिदलनेन दारुणः कोटडाकलहकेलिकेसरी । कुम्भकर्णनृपतिर्ववावदो धूलनोद्धतभुजो विराजते ॥ २६२ ॥ नम्रानेकनृपालमौलिनिकरप्रत्युप्तहीरांकुर- श्रेणीरश्मिमिलन्नखद्युतिभरः शत्रून् रणाप्रांगणे । दीर्घांदोलितबाहुदंडविलसत्कोदंडदंडोल्लस- द्बाणास्तान्विचरय्य मण्डलकरं दुर्गे क्षणेनाजयत् ॥ २६३ ॥ जित्वा देशमनेकदुर्गविषमं हाडावटीं हेलया तन्नाथान् करदान्विधाय च जयस्तंभानुदस्तंभयत् । दुर्गं गोपुरमत्रषटपुरमपि प्रौढां च वृंदावर्ती श्रीमन्मंडलदुर्गमुच्चविलसच्छालां विशालां पुरीम् ॥ २६४ ॥ उत्खातमूलं सलिलैः प्रभंजन इव द्रुमं । विशालनगरं राजा समूलमुदमूलयत् ॥ २६५ ॥ तन्नागरीनयननीरतरंगिणीना- मंगीकृतं किमु समुत्तरणं तुरंगैः । श्रीकुम्भकर्णनृपतिः प्रवितीर्णझंपै- रालोडयद्गिरिपुरं यदमीभिरुग्रः ॥ २६६ ॥ यदीयगज्जद्गजतूर्यघोषसिंहस्वनाकर्णननष्टशौर्यः । विहाय दुर्गं सहसा पलायां चकार गोपालशृगालवालः ॥ २६७ ॥ त्यक्त्वा दीनादीनदीनाधिनाथा दीना बद्धा येन सारंगपुर्याम् । योषाः प्रौढाः पारसीकाधिपानां ताः संख्यातुं नैव शक्नोति कोपि।२६८। गर्ज्जन् म्लेच्छतिमिंगिलाकुलतरं रंगत्तरंगोर्मिमन् मातंगोद्धतनक्रचक्रममितं प्राकारवेलाचलं । 211

Maharana Kumbha. एतद्दग्धपुराग्लिवाड़वमसौ यन्मालवांभोनिधिं क्षोणीशः पिवति स्म खड्गचुलकैस्तस्मादगस्त्यः स्फुटं ॥ २७० ॥ VI The Chitor Kirtisthambha (Tower of Victory) Inscription, dated Magsar Bad 5, V.S. 1517 (A.D. 1460). ( Part I. ) येनानर्गलमल्लदीर्णहृदया श्रीचित्रकूटांतिके तत्तत्सैनिकघोरवीरनिनदप्रध्वस्तधैर्योदया । मन्ये यावनवाहिनी निजपरित्राणस्य हेतोरलं भूमिःक्षेपमिषेण भीपरवशा पातालमूलं ययौ ॥ २२ ॥ संग्रामाजिरसीमिशौर्यविलसद्दोर्दण्डहेलोल्लस- च्चाप प्रोद्गतबाणवृष्टिशमितारातिप्रतापानलः । वीरश्रीरणमल्लमूर्जितशकक्ष्मापालगर्वांतकं स्फूर्जद्गूर्जरमंडलेश्वरमसौ कारागृहे वीवसत् ॥ २३ ॥ अमोचयद्यवनकराद्गयामयं तुलाव्यधादमितपराक्रमोमिताः । अपूजयत्कनकभरैर्महीसुरानकारयत्सुरनिलयान्महोन्नतान् ॥ ३१ ॥ मेदानाङ्गलसादुल्लसत्तद्भेरीधीरध्वानविध्वस्त धैर्यान् । कारं कारं योग्रहीदुग्रतेजा दग्धारातिर्वर्द्धनाख्यं गिरीन्द्रं ॥ ३६ ॥ ( Part II. ) प्रतीपभूपालशिरत्सुवामं पदं निधाय क्षितिवल्लभेन । आनीयमांडव्यपुराद्धनूमान् संस्थापितः कुम्भलमेरुदुर्गे ॥ ३ ॥ सुग्रीवनीलांगदभूषितोसौ श्रीकुम्भकर्णश्चरितेन रामः । इतीव मांडव्यपुरात्समेत्य हनूमता…………… ॥ ४ ॥ सपादलक्षं करदं विधाय शाकंभरीं चारुरमां गृहीत्वा । अपाठयत्संततमत्र वेदपारायणं वेदपरायणोऽसौ ॥ ५ ॥ 212

Appendix. कुम्भकर्णनृपतिः करप्रदं डिंडुआणलवणाकरं व्यधात् । यन्नराणनगरीरणांगणे सस्पृहं विवृणुते जयश्रियः ॥ ६ ॥ विजित्य सकलं राज्यमादाय सकलां श्रियं । मुदाफरमदच्छेदमकार्षीत्कुम्भभूपतिः ॥ ७ ॥ महामुनिश्रेष्ठवशिष्ठयोगपवित्रचित्रानलकुण्डशोधि । असौ महौजाः प्रवरं वसंतपुरं व्यधत्ताभिनवो वसंतः ॥ ८ ॥ सप्तसागरविजित्वरानसौ सप्तपल्वलरानकारयत् । श्रीवसंतपुरनाम्नि चक्रिणः प्रीतये वसुमतीपुरंदरः ॥ ६ ॥ अमराधिपप्रतिमवैभवो नृपो गिरिदुर्गराजमधिकुम्भमण्डपं । स्फुरदेकलिङ्गनिलयाच्चपूर्वतो निरमापयत्सकलभूतलाद्भुतं ॥ १० ॥ प्रोद्भाविधाटीपट्टभिस्तरंगैर्विगाह्य गोकर्णगिरिं नरेन्द्रः । समग्रहीद्दुर्गशैलराजं व्याधूययुद्धोद्धरधीरधुर्यान् ॥ ११ ॥ नीलाभ्रंलिहमर्बुदाचलमसौ प्रौढप्रतापांशुमा- नारोह्याखिलसैनिकानसिवले नाजावजेयोजयत् । निर्मायाचलदुर्गमस्य शिखरे तत्राकरोदालयं कुम्भस्वामिन उच्चशेखरशिखं प्रीत्य रमाचक्रिणोः ॥ १२ ॥ अर्बुदाचलशिरोवतंसिकां सर्वपार्थिवशिरोमणिर्महान् । निर्जितारिकरतुष्टबंधनात्तीर्थसंहतिमसावमोचयत् ॥ १४ ॥ चतुरश्चतुरो जलाशयान् चतुरो वारिनिधीनिवापरान् । स किलार्बुदशेखरे नृपः कमलाकामुककेलये व्यधात् ॥ १५ ॥ स्फूर्जद्गुर्जरदेशदाहनविधावुद्दामधूमावलीं यामुद्वेलवतीं व्यचीकरदिलां वेलावधिं सर्वतः । यस्तस्यामुदजम्भतः प्रियतमाधम्मिल्लमंजुद्युति- र्जानीमो गगनस्थलं मलिनिमा सोयं समालिंगति ॥ १६ ॥ श्रीकुम्भो मालवांभोधिनाथमंथलुमहीधरः । अखर्वमकरद्गर्व महंमदमहीपतेः ॥ १७ ॥ शेषांगद्युतिगर्व रुन्नरपतेर्यस्यैदुधामोज्ज्वला कीर्तिः शेषसरस्वतीविजयिनी यस्यामला भारती । 213

Maharana Kumbha. शेषस्यातिधरः क्षमाभरभृतो यस्योरुशौर्योभुजः शेषं नागपुरं निपात्य च कथाशेषं व्यधाद्भूपतिः ॥ १८ ॥ शकाधिपानां व्रजतामधस्ताद्दर्शयन्नागपुरस्य मार्गं । प्रज्वाल्य फेरोजमशीतिमुचां निपात्य तन्नागपुरं प्रवीरः ॥ १६ ॥ निपात्य दुर्गं परिखां प्रपूर्य गजान् गृहीत्वा यवनीश्च बध्वा । अदंडयद्यो यवनानतान् विडंवयन् गुर्जरभूमिभर्तुः ॥ २० ॥ लक्षाणि च द्वादश गोमवल्लीरमोचयद्दुर्यवनानलेभ्यः । तं गोचरं नागपुरं विधाय चिराय यो ब्राह्मणसादकार्षीत् ॥ २१ ॥ मूलं नागपुरं महच्छुकतरोरुन्मूल्य नूनं मही- नाथोयं पुनरच्छिदत्समदहत्पश्चान्मशीत्यासह । तस्मात्म्लानिंमवाप्य दूरमपतत् शाखाश्चपत्राण्यहो सत्यं याति न को विनाशमधिकं मूलस्य नाशे सति ॥ २२ ॥ अग्रहीदमितरत्नसंचयं कोशलः समसखानभूपतेः । जांगलस्थलमगाहाताहवे कुम्भकर्णधरणीपुरंदरः ॥ २३ ॥ ······समुद्भासितवान् कासिलीं सहसाजयत् । यस्य दुन्दुभिनिध्वानो धुंखराद्रि जयोद्भवः ॥ २४ ॥ आकर्णाकृष्टदलितचापविनिर्गतोरु- बाणावलीविदलितारिबलो नृपालः । खंडेळखंडनविधिं व्यतनोदुतुच्छ- सैन्योच्छलद्वहलरेणुविलुप्तभानुः ॥ २५ ॥ असौ शिरोमंडनचंद्रतारं विचित्रकूटं किल चित्रकूटं । स्वरा·········मकरोन्महींद्रो महामहाभानुरिवोदयाद्रिं ॥ २६ ॥ सरांसि यत्रातितरान्महंति वहंति नीलारुणसारसाली । विभांति तीरागतमानिनीनां मुखारविन्दप्रतिमाभिवात्र ॥ २७ ॥ कलाशाचलसुंदरं हिमगिरिप्रख्यं च सर्वंकषं नानाहेमघटावतंसकिरणैमेर्रोर्हसंतं श्रियं । सर्वोर्वीतिलकोपमं मुकुटवच्छ्रीचित्रकूटाचले कुंभस्वामिन आलयं व्यरचयच्छ्रीकुंभकर्णो नृपः ॥ २८ ॥ 214

Appendix. कैलाशस्य प्रतिनिधिरिदं शंकरस्याट्टहास ज्योत्स्नाराशिः किमु हिमवतः कर्णिका भूधरस्य । इत्थं नानाविषयविषयं चित्रकूटस्य शृंगे रम्यं हर्म्यं व्यरचयदिलाधीशवरश्चक्रपाणेः ॥ २६ ॥ तदांतिके देवगृहान्महोच्चानलंकृतान् हेमघटावतंसैः । अकारयच्चादिवराहगेहमनेकधाश्रीमरणस्य मूर्तिः ॥ ३१ ॥ रामकुण्डममराधिपचापप्राज्यदीधितिमनोहरगेहं । दीर्घिकाश्च जलयंत्रदर्शनव्यग्रनागरिकदत्तकौतुकाः ॥ ३२ ॥ कीर्तिस्तंभमकारयत्सरणधीरभ्रंलिहाग्रं समा- धीशा सर्वसुपर्वराजहरिति क्रीडानिवासं श्रियः । यत्रागत्यसुरांगनाः सकलभूसाम्राज्यलीलानिधे- रस्येंद्रस्य नितंबिनीजनकतान् पश्यंति लीलारसान् ॥ ३३ ॥ भानुः स्वं रथमेकचक्रमकरोन्मेरोस्तटे पर्यटन् नवासौ रथचक्रयुग्मसरणिं कर्तुं समर्थोभवत् । उच्चैर्मेरुगिरेर्नवोदिनकरः श्रीचित्रकूटाचले भव्यां सद्रथपद्धतिं जनसुखायाचूलमूलं व्यधात् ॥ ३४ ॥ रामः सरामो विरथो महोच्चै पद्भ्यामगच्छत्किल चित्रकूटे । इतीव कुंभेन महीधरेण किमत्र रामाः सरथानियुक्ताः ॥ ३५ ॥ शाखामृगार्थं किल सेतु ....................... रघुनन्दनोपि । इतीव दुर्गे खलु रामरथ्यां स सेतुबंधामकरोन्महीन्द्रः ॥ ३६ ॥ दृष्ट्वैकं किल चित्रकूटमचलं सन्मेदिनीलोचनं धात्रा निर्मितमत्रविस्मृतिमपि ज्ञात्वा विधातुर्नृपः । मन्येत्रापि कनीनिकामिवसरी नेत्रोदरव्यापिनीं निर्मायापरगाधिनन्दन इव स्रष्टा नवीनोभवत् ॥ ३७ ॥ किमेतत्कैलाशः सिततरशिलाशेखरशिरा हिमाद्रेर्वा शृंगं नृपहितभवानीप्रणिहितं । यदालोक्याल्हादं भजति नितरां कौतुकिजनो हनूमान्नामांकं व्यरचयदसौ गोपुरमिह ॥ ३८ ॥ 215

Maharana Kumbha. भैरवांकविशिखामनोरमा भाति भूपमुकुटेन कारिता । पार्वणेंदुविमलोपल[भि]र्त्तिया सुरेन्द्रपुरगोपुरोपमा ॥ ३६ ॥ नृपाः संसेवध्वं चरणकमलं कुम्भनृपते- र्मया सम्बन्धं चेदनुभवितुमिच्छास्ति भवतां । इति प्रायः शिक्षानिपुरकमलाधिष्ठिततनु- र्महालक्ष्मीरथ्या नृपपरिवृढेनात्र रचिता ॥ ४० ॥ चामुण्डायाः कापितस्याः प्रतोली भव्या भाति क्ष्माभुजा निर्मितोच्चा । .................................... श्रेणोरश्मिस्थापिताशामुखश्रीः ॥ ४१ ॥ श्रीमत्कुम्भक्ष्माभुजाकारितोर्वी- ............रम्यलीलागवाक्षा । तारारथ्या शोभते यत्र तारा- श्रेणी······संमिलत्तोरणश्रीः ॥ ४२ ॥ राजप्रतोली मणिरश्मिरक्ता सदिंद्रनीलद्युतिनीलकांतिः । सस्फटिका शारदवारिदश्रीर्विभाति सेन्द्रायुधमंडनेव ॥१२५॥ उर्वीमंडनमुच्चगोपुरम सौ माणिक्यसत्तोरणं जीमूतं सपुरंदरीय······मिलन्मीनध्वजाडंबरं । उद्यत्सौधसुधावदातकिरण श्रेणीशशांकोज्ज्वलं दुर्गे कुम्भलमेरुमूर्द्धशिखरे विन्ध्याचलस्यासृजत् ॥ १२६ ॥ प्राकारमत्यद्भुतश्रीरकारयत् सत्कपिशीर्षकाढ्यं । अभ्रंलिहाग्राणि गृहाणि[देवा]लयाननंतानमिताः प्रपाश्च ॥१२७॥ भूपालसौधावलिशीतरश्मिरश्मिप्रतानैरिव संपतद्भिः । यो भाति सन्नीरकरैः समंताद्गंगाप्रवाहैरिव हैमनोद्भिः ॥ १२८ ॥ सरस्फुरत्तामरसांतरालविशत्सदिंदीवरशोभि यत्र । मरालवाचालविशालवीचिच्छटोच्छलच्चंचल चक्रवाकं ॥ १२६ ॥ तत्र तोरणलसन्मणिकुम्भस्वामिमंदिरमकारयन्महत् । भूपतिः सकलभूतलाद्भुतं चक्रपाणिचरणार्च्चनापरः ॥ १३० ॥ 216

Appendix. संनिधेस्य कुम्भनृपतिःसरोद्भुतं निरमापयत् शशिकलोज्जवलोदकं । नरकिंनरासुरसुरांगनाजनो जलकेलये श्रयति यत्समंततः ॥ १३१ ॥ कनकवरणः प्रौढो नीलोत्पलद्युतिरंजित- स्तरणिकिरणप्रौढतेजःप्रभारुणितांबरः । जलदपटलीदीर्घोत्तुंगांचितो यदधित्यका सुरपतिधनुर्लेखाल्डर्मीं विभर्त्ति समंततः ॥ १३२ ॥ आशापेट्तकृतोरुगोपुरमुखः सद्योगपट्टोपमः प्रोदंचद्धरणः कमंडलुगलद्गंगः सरोवारिभिः । रम्यस्फेटिकहर्म्यरश्मिपटलीकूर्चो विरंचिश्चिरं शंके दुर्ग(मिषा)दमुत्र सकलां स्वीयां कृतिं पश्यति ॥ १३३ ॥ मन्येस्फेटिकहर्म्यरश्मिपटलैर्दीर्घोरुकूर्चायितं वप्रेणापि सुमेरुसुंदररुचा यद्योगपट्टायितं । आशापेक्षकृतोच्चगोपुरवरैस्तस्योरुवक्त्रायितं दुर्गेणापि विलोकितुं वसुमतीं ब्रह्मायितं चारुणा ॥ १३४ ॥ भुजवलयचतुष्टयी······खचितमणिनिचयाचतुभुजस्य । चतस्रषु विशिखाचतुष्टयोयं स्फुरति(हरित्सु)च यत्र दुर्गवर्ये ॥१३५॥ चतुरर्णवमेखलैक दुर्गे चतुरंभोधिगतोरुरत्नराशिः । प्रतिदिग्महतीर्व्यधत्त रथ्याः नृपतिर्ग्राहयितुं निजप्रतापैः ॥ १३६ ॥ दृष्टुं नालं समंतात्सकलनिजकृतिं द्वीपपाथोधिचेला विच्छिन्नां भूतधात्रीं सुरंगृहभुजगागारलीलामितीव । कुंभक्षोणींद्ररूपावतरणमधुनाश्रित्यमन्ये विधाता सर्वामृद्धिदिदृक्षुः प्रमुदितहृदयः कुंभमेरुं व्यधत्त ॥ १३७ ॥ जंबूद्वीपालं कृतौ कुंभमेरौ मेरौ स्तिष्ठन्कर्णिकाकारचारौ । श्रीमत्कुंभक्ष्मापतिः पद्पनेत्रो मन्येधत्ते नव्यपद्मासनत्वं ॥ १३८ ॥ कर्णिकाकृतिधरस्यसुमेरो·········कुंभमाश्रितास्त्रयः । श्वेतनीलगिरिश्रृंगिपर्वता भांति सेवितुमुपागता नृपं ॥ १३६ ॥ विभ्राजी विपुलश्चात्र भ्राजते पश्चिमाथितः । अर्बुदाद्रिनिरीक्षार्थमागताविव बांधवौ ॥ १४० ॥ 217

Maharana Kumbha. हिमवान् हेमकूटश्च निषधोगंधमादनः । यस्य दक्षिणदिग्भागं श्रयतीव महानतः ॥ १४१ ॥ पूर्वतोवसति यस्य मंदरो मंदरा......सुन्दरः । इंदिराचरणपंकजामलन्यासपूतशिखरो महीधरः ॥ १४२ ॥ वृदावनं चैत्ररथं च नंदनं मनोज्ञभृगं ध्वनिंगंधमादनं । नृपाललीलाकृतवाटिकाभिपाङ्संत्यमून्यत्र समेत्य भूधरे ॥ १४३ ॥ अनल्पनेत्र......वैजयंतो महीमहेन्द्रः खलु कुंभकर्णः । समाश्रितः कुंभलमेरुदुर्गं सुराधिराजं हसतीव मन्ये ॥ १४४ ॥ अप्येकमीनध्वजमप्यनेकमीनध्वजं भाति नरेन्द्रदुर्गं । अनेकचंद्रोपमपि स्फुटैकचंद्रप्रभोद्भासितसौधभागं ॥ १४५ ॥ आनयद्द्विरदवक्रमादरादुद्धतप्रतिनृपालदुर्गतः । दुर्गवर्यशिखरे निजे तथा स्थापयत्कृतमहोत्सवो नृपः ॥ १४६ ॥ समकरोदचलेश्वरसन्निधावचलदुर्गमसौ जगतीपतिः । यवनवारवधादिव तोषितो मुकुटमर्बुदभूमिभृतो व्यधात् ॥ १४७ ॥ योयं राजगुरूश्चदानगुरुरि......प्रसिद्धश्च यो योऽसौ शैलगुरुर्गुरुश्चपरमः प्रोद्दामभूमीभुजां । यो......धिक वीरवंदितपदः प्राच्यप्रतीच्योत्तर- प्रोद्यद्दक्षिणभूपमंडनमणिः कुंभो..................॥ १४८ ॥ नरेश्वरो धृष्टमोतित्तमहीभृदुन्मूलनमूलहेतुः । विराजते दुर्बलभूमिपालसंस्थापनी......तया नरेन्द्रः ॥ १४६ ॥ असमसमरभूमीदारुणः कुंभकर्णः करकलितकृपाणैर्वैरिवृंदं निहत्य । चलितरुधिरपूरोत्तालकल्लोलिनोभिः शमयति पितृवैरोद्भूतरौषानलौघं ॥ १५० ॥ आजावाजौ निहतविमतानीकिनीशोणितौघे वारं वारं समरतरलां क्षालयित्वा कृपाणीं । दायं दायं विविधवसुधां वृत्तयेऽसौ द्विजेभ्यो मन्ये नव्यः प्रभवतितरां भार्गवः कुंभदंभात् ॥ १५१,॥ . . 218

Appendix. आकुंभकर्णभुजविक्रमभीमसेन- हिन्दूकराजगजनायक मुंच मुचं । इच्छुं रणेषु व्यलपन् परवीरधुर्या यस्योरुवाणनिकराहुति भीतिचित्ताः ॥ १५२ ॥ सिंहासनासनासितातपवारणोरु- माणिक्यमंडनचलच्चमराधिकोऽभूत् । आलोक्य मत्सरितमानसभूमिपाला- नुर्व्यामशिक्षयदयं विनयं नरेन्द्रः ॥ १५३ ॥ अमूमुचच्चतुर्वेदविचारचतुराननः । गयां यवनकरातो ......स्तापसीमिव ॥ १५५ ॥ पात्रसादकृतमादराद्विप्रसादकृतभूयसीभुवः । कृष्णसादकृतमानसं नृपः शास्त्रसादकृतदृष्टिगौरवं ॥ १५६ ॥ आलोड्याखिलभारतीविलसितं संगीतराजं व्यधात् औद्धत्यावधिरंजसा समतनोत्सूद्रप्रबन्धादिमुं । नानालंकृतिसंस्कृतां व्यरचयच्चंडीशतव्याकृतिं वागीशो जगतीतलं कलयति श्रीकुंभदंभात्किल ॥ १५७ ॥ येनाकारि मुरारि संगतिर सप्रस्यंदिनी नन्दिनी वृत्तिव्याकृति चातुरीभिरतुला श्रीगीतगोविंदके । श्रीकर्णाटकमेदपाटसुमहाराष्ट्रादिके योदय- द्वाणीगुंफमयं चतुष्टयमयं सन्नाटकानां व्यधात् ॥ १५८ ॥ श्रीकुंभकर्णरचितामवलोक्य वाचं माधुर्यधुर्यमपि गेयममुष्य मत्वा । ......न्महीपतिरनंतगुणोत्युदारां ............गिरमाद्रियते न कश्चित् ॥ १५६ ॥ सकलकविनृपाली मौलिमाणिक्यरोचि- र्मधुररणितवीणावाद्यवै शद्यचिह्नुः । मधुकरकुललीलाहारि......रसालो जयति जयति कुंभो भूरिशौर्यांशुमाली ॥ १६० ॥ 219

Maharana Kumbha.

तावत्कल्पतरुर्विभाति विपुलस्तावच्च चिंतामणि- स्तावत्कामगवी च दानजनिभूस्तावत्सुवर्णाचलः । तावत्कर्णमहीपतिश्च सुमतिस्तावद्बलिर्भूपति- र्नोयाव.........निमार्गणगणः श्रीकुंभकर्णो...ते ॥ १६१ ॥ चित्रं यत् कटकोत्थरेणुनिकरः......मुखान्यश्नुते मालिन्यं वरवैरिवीरवनितावक्त्रांबुजे जायते । खङ्गो यस्य मदांधसिंधुरशिरः सिंदूरमेवाच्छिन- त्सीमन्तादरियोषितामुद......न्तिसिंदूरपूरश्चयत् ॥ १६२ ॥ यस्यानर्गलदुर्गवर्गदलनव्यासक्तदोर्वल्लरी लीलोत्सारितवैरिवारणघटा घंटारवैश्चर्चिता । कीर्त्तिः संप्रति संप्रतीपतरुणी कर्णावतंसायते वैधव्येपि विडंबना हि विवशाः कां कां सहंते न ताः ॥ १६४ ॥ धीरोद्धतं समिति संसदि धीरशांतं मित्रेषु भूपतिषु भूपमुदारधीरं । कांतासु धीरललितं कलयंति संतो ये नायकावलिगुण[व्रज]जन्मभूमिं ॥ १६५ ॥ नायिकानिचयलोचनोल्लसद्भावसंकरविनोदमंदिरं । कुंभकर्णनृपतिर्महीतले मीनकेतनतुलामविंदत ॥ १६६ ॥ नाटकप्रकरणांकवाथिकानाटिकासमवकारभाणके । प्रोल्लसत्प्रहसनादिरूपके नव्य एषभरतो महीपतिः ॥ १६७ ॥ भारतीयरसभावदृष्टयः प्रेमचातकपयोदवृष्टयः । नंदिकेश्वरमतानुवर्त्तणाराधितत्रिनयनं श्रयंति यं ॥ १६८ ॥ विक्रमद्रुमकुरंगकेतनोप्येषयद्व्यजय......वृद्दन्नटः । ...... संतताधिगतधर्मशासने नावृकोदर इयं विचित्रता ॥ १७० ॥ श्रीभारतीरससमुद्भवकैरवोद्य- दुग्धान............कतमः समः स्यात् । श्रीकुंभकर्णजगतोपत्तिना नवीन-... निर्माणचारुमतिना विधिनेव साक्षात् ॥ १७१ ॥ 220

Appendix. स्फूर्ज्जद्गुर्जरमालवेश्वर सुरत्राणारुणसन्याणव- व्यस्तव्यस्तसमस्तवारणप्राग्भारकुंभोद्भवः । …………पार्थिवरणप्रारंभदीक्षागुरु- र्वर्य्यः कुंभमहीपतिर्वसुमतीविश्वेश्वरो राजते ॥ १७२ ॥ अमंदमदसंभ्रमभ्रमितभृंगमालामिल- त्कपोलतलवेल्लितः श्रवणतालवृंतानिलैः । रणापहृतकुंजरैरमितगूर्जराधीश्वरा- ……भुजश्रमः समिति कुंभभूमीभुजा ॥ १७३ ॥ मेदपाटाब्धिसंजातरीहिणीरमणो नृपः । कस्य नो नयनानंदं तनुतेऽवनिमंडले ॥ १७४ ॥ विमतभूधरकुंजरकेसरी यवनसैन्यतृणौघदवानलः । अकालयत्कलिकालकदर्थना परवशं…मनो न मनागपि ॥ १७५ ॥ प्रत्यर्थिपार्थिवतमोनिचयप्रचंड- चंडद्युतिर्जयति यस्य भुजप्रतापः । सामंतभूपतिनितंववतीविलास- प्रोल्लासिसारसतुषारकरः शरोपि ॥ १७६ ॥ समस्तजगतीतलप्रबलवैरिकंठाटवी- नवीनदहनोच्चयो धरणिमंडलाखंडलः । कुरंगनयनामनः कुमुदवृंदशीतद्युतिः प्रतापजितभानुमान् जयति कुंभकर्णोद्भुवं ॥ १७७ ॥ हयेशहस्तीशनरेशराजत्रयोल्लसत्तोडरमल्लमुख्यं । विजित्य तानाजिषु कुंभकर्णमहीमहेन्द्रो विरुदं विभर्त्ति ॥ १७८ ॥ तौरुष्कव्रजवाहिनीपरिलसत्पाथोधिवेलावलि- व्यालीनावसमुद्धरंतमवदन्नाद्यं वराहं बुधाः । यं शीतांशुकलावतंसकलितप्राज्यप्रसादप्रभं माद्यन्मालवमेदिनीश्वरमदच्छेदैकदीक्षागुरुं ॥ १७६ ॥ यः श्रीमोकलभूपतेः समुदितः सौभाग्यभूमावपि धं प्रासूतलसत्प्रतापतरणिं सौभाग्यदेवीसुतं । 221

Maharana Kumbha. येनासाद्यगुरोः कलाश्चसकला दत्ता द्विजेभ्यो भुवं भुंक्ते कुंभनरेश्वरः कुचभरा......मिव प्रेयसीं ॥ १८० ॥ वेणीव्याजवलद्भुजंगललनालावण्यलीलालया सौंदर्य्यामृतदीर्घिकापरिलसन्नालीकनेत्रद्वया । कुंभारंभकुचद्वयोपरिचलन्नामुक्तमुक्ता च या यस्यांनंगकुतूहलकपदवीकुंभल्लदेवीप्रिया ॥ १८१ ॥ सहस्त्रवदनो यदा वदति वीतवेद्यांतरः सहस्त्रकरपल्लवो लिखति वेदविश्रांतधीः । अथस्फुरति भारतीक्वचनदेशिकेसौ यदा गणंयगुणसंततिर्भवति कुंभकर्णस्तदा ॥ १८२ ॥ यावच्चंद्रदिवाकरौ हिमगिरिर्यावच्चहेमाचलो यावत्सागरभूषणा वसुमती यावच्च सेतुर्महान् । तावत्तिष्ठतु कुंभकर्णनृपतिः कीर्तिप्रशस्तिस्तथा नानाकारितकीर्तनानि सकला साम्राज्यलक्ष्मीर्पि ॥ १८३ ॥ वर्षे पंचदशे शते व्यपगते सप्ताधिकेकार्त्तिक स्याद्यानंगतिथौ नवीनविशिखां श्रीचित्रकूटे व्यधात् । उद्यत्तोरणचारुहीरनिकरस्फीतप्रभाभासुर- प्रोदं चेत्कपिशीर्षकांकितशिरो रम्यां महीवल्लभः ॥ १८४ ॥ श्रीविक्रमात् पंचदशाधिकेस्मिन् वर्षेशते पंचदशे व्यतीते । चंत्रासितेनंगतिथौ व्यधायि श्रीकुंभमेरुर्वसुधाधिपेन ॥ १८५ ॥ पुण्ये पंचदशे शते व्यपगते पंचाधिके वत्सरे माघे मासि वलक्षपक्षदशमी देवेज्यपुष्यागमे । कीर्त्तिस्तंभमकायन्नरपतिः श्रीचित्रकूटाचले नानानिर्मितनिर्जरावतरणमैरोर्हसंतं श्रियं ॥ १८६ ॥ सत्प्राकारप्रकारं प्रचुरसुरगृहाडंबरं मंजुगुंज- द्भृंगश्रेणीवरेण्ययौवनपरिसरं सर्वसंसारसारं । नंदव्योमेषु शीतद्युतिमिति रुचिरे वत्सरे माघमासे पूर्णार्यांपूर्णरूपं व्यरचयदचलं दुग्गमुर्वामहेन्द्रः ॥ १८७ ॥ 222

Appendix. VII Ekling Mahātmya (of the time of Maharana Kumbha.) हेलोन्मूलितमल्लवंशककुदं चंदीकरन्नर्बुदं दुर्गाद्रावितदुष्टतापसृगकं भंक्त्वा पुरं वायसम् । तोडामण्डलमग्रहीच्च सहसा जित्वा शकं दुर्ज्जयं जीव्याद्वर्षशतं स भृत्यतुरगः श्रीकुंभकर्णो भुवि ॥ १५७ ॥ समकरोदचलेश्वरसन्निधावचलदुर्गमसौ जगतीपतिः । यवनवारवधादिव तोषितो मुकुटमर्बुदभूमिभृतो व्यधात् ॥१६४॥ वेदा यन्मौलिस्नं स्मृतिविहितमतं सर्वदा कण्ठभूषा मीमांसे कुण्डले द्वे हृदि भरतमुनिर्व्याहृतं हारवल्ली । सर्वाङ्गीणप्रकृष्टं कवचमपि परे राजनीतिप्रयोगाः सार्व्वज्ञं बिभ्रदुच्चैरगणितगुणभूर्भासते कुम्भभूपः ॥ १७२ ॥ अष्टव्याकरणी विकास्युपनिषत्सन्नाष्टदंष्ट्रोत्कटः षट्तर्कीविकटोक्तियुक्तिविसरत्प्रस्फारगुंजारवः । सिद्धातोद्धतकाननैकवसतिः साहित्यभूक्रोडनो गर्जद्वादिगणान्विदार्य······प्रज्ञास्फुत्केसरी ॥ १७३ ॥ येनाकारिमुरारिसङ्गितिरस प्रस्यन्दिनी नन्दिनी- वृत्तिर्व्याकृतिचातुरीभिरतुला श्री गीतगोविन्दके । श्रीकर्णाटकमेदपाटसुमहाराष्ट्रादिते योद्य- द्वाणी गुम्फमयं चतुष्टयमयं संन्नाटकानां व्यधात् ॥ १७४ ॥ यः श्रुत्वा भरतं चतुर्भिरखिलैर्भाष्यैश्च रत्नाकरं सोपायं बहुशो विलोक्य निखिलांन्नाद्यागमान् वीक्ष्य च । गौरीनन्दिमते मतंगशिवसंगीते स शार्दूलके दृष्ट्वा दंतिलदुर्गशक्तिभणतीस्तान्नाटदोकीरपि ॥ २०२ ॥ 223

Maharana Kumbha. VIII The Eklingji Temple Inscription dated Chait Sud 10, V.S. 1545 (Thursday 12th March, A.D. 1489). संग्रामोद्धरविद्विषोद्दिष(द्धत)शिखाः शामित्रमंत्रोज्वलै- रभ्युद्य क्षणलक्षिताथर्चरितः प्रोढासिधाराजलैः । यौमीसाहिमहाहिगर्वगरलं मूलादवादीदहत् सक्षत्रक्षितिभृत् प्रभूतविभवः श्रीचित्रकूटेऽभवत् ॥ २६॥ प्राकारमैलमभिभूय विधूय वीरान्- आदाय कोशमखिलं खलु खेतसिंहः । कारांधकारमनयद्रणमल्ल भूप- मेतन्महीमकृततत्सुतसात्प्रसह्य ॥ ३० ॥ दंडाखंडितचंडमंडलकराचीनमाचूर्णयत् तन्मध्योद्यतधीरयोधनिधनं निम्माय निम्मायधीः । हाडामंडलमुंडखंडन धृतस्फूर्जत्कूबंधोद्धुरं कृत्वा संगरमात्मसाद्धसुमतीं श्रीखेतसिंहो व्यधात् ॥ ३१ ॥ जोगादुर्गाधि(पं यः)समरभुवि पराभूय लल्लः क्षितींद्रः कन्यारत्नान्यहार्षीत्सहगजतुरगैर्यौवराज्यं प्रपन्नः । प्रत्यूहव्यूहमोहं प्रणिधिभिखधूयाखिलं राजवृत्त निर्व्याजं जागरूको हरचरणरतः पैत्र्यराज्यं बुभोज ॥ ३५ ॥ सत्पक्षः प्रतिपक्षलक्षवलभिजिष्णुर्महासंगरे दूतानंतद्गुन्मिषन्मखरतिः श्रीमोकलो भूपतिः । आ्राजि जाजपुरे प्रभूतपुरुषैरालब्धदं मोलिभृन्न- व्यो नाथधराघरोद्धुरशिरः स्कंधानभांक्षीत्तक्षणात् ॥ ४३ ॥ कौ कुणितकर्णधारविभवः श्रीमोकलो भूधवः प्रौढिं नावमुयेयुषो जलचरः पीरोजपृथ्वीभुजः । स्कंधावारमपारवारणमजद्भाजिप्रजन्याकुलं व्यावलात्तरवारिवारिणी रणाकूपारगर्भोन्क्षिपत् ॥ ४४ ॥ 224

INDEX.

Column 1

A. Abhai Singh, 110. Abhinava Bharatacharya, 119, 165. Abu, 10, 77, 78, 79, 80, 81, 98, 113, 116, 120, 121, 125, 144, 167, 175. Abul Fazal, 52, 53, 146. Achaldas, 111. Achalgarh, 81, 116, 121, 122, 123, 124, 183, 186, 187. Achal Singh, 29, 146. Adabala hills, 147. Adhbudhji, 170. Adinath, 147, 153, 187. Adivaraha, 184. Aerisal, 4. Agastyamuni, 117. Agra, 10. Ahado Hingolo, 68, 75. Ahirwara, 100. Ahmad Shah, 29, 30, 179. Ahmedabad, 44, 80, 93, 97, 98, 99, 102, 105. Ahore, 121. Aiknath, 34. Ajahari, 79. Ajari, 154, 160. Ajaya, 180. Ajit Singh, 110. Ajja, 22, 24. Ajmer, 4, 26, 27, 43, 49, 79, 82, 89, 90, 91, 100, 114, 117, 122, 126, 139, 170, 172, 189, 196. Akbar, 46, 48, 56, 126, 190, 191, 194. Akho Sisodia, 68. Alexander Rogers, 178. Alhan, 82. Ali Khan, 92. Allahabad, 11, 133. Allauddin Khilji, 5, 9, 43, 45, 82, 113, 172, 178. Alpkhan, 5, 46. Amargarh, 83. Amar Singh, 111. Amba Bhawani, 121. Amber, 116, 126, 180, 194. Amberi, 34. Amin Shah (or Ami Shah,) 5, 6, 178. Amir Timur, 46. Amra, 126. Amradadri, 115, 180.


Column 2

Amrdachal, 116. Anhalkund, 120. Anhilwara Patan, 43, 55. Annadeva, 43. Anup Chand Manek, 97. Aprajit, 168. Apurvadevi, 111. Aradakamal, 38, 65. Aravalli Hills, 77, 121, 127, 128, 132, 147, 157. Arbuda, 183. Ari Singh (or Ari Simha), 5, 178. Asalpur, 10, 22. Askarana, 111. Asoka, 128, 196. Asthan, 12. Atri, 142, 167. Aufrecht's Catalogus Catalogorum, 167. Aurangzeb, 56, 57, 126, 192, 194. Ayodhia, 198. Azam Humayun, 86. B. Babur, 189, 194, 195. Badnor, 8, 11, 116, 121, 136, 179, 182. Bagh Singh, 28. Bagor, 32. Bahadur Shah, 45, 46, 47, 54, 87, 138. Baizeed, 48. Bakrole, 5. Baladitya, 54. Balsamad Lake, 75. Bambaoda, 83, 114, 180. Banas, 87, 92. Banbir, 68, 161. Bandanwara, 27. Bankey Das Kaviraj, 3, 27, 29. Ban Mata, 86. Bappa Rawal, 156, 157, 160, 171, 177, 182. Barisal, 66. Barjang Bhimawat, 65. Basantgarh, 79. Bassi, 68. Bayley's Gujrat, 11, 94, 95, 97, 98, 100, 103. Baz Bahadur, 46, 48. Benares, 11. Beratgarh, 8. Bhadaka, 177.


225

Maharana Kumbha.

[Left Column] Bhadang, 72. Bhagvandas, 190. Bhairavadas Solanki, 138. Bhandari Velaka, 175. Bhandarkar Dr. D. R., 135, 147, 149, 171. Bhandarkar S. R., 137, 168. Bharmali, 61, 64. Bhāvanagar Inscriptions, 5, 8, 27, 33, 34, 50, 160, 171. Bhilwara, 104. Bhim, 52, 65, 66, Bhiman, 158. Bhimwal, 15. Bhogaditya, 160. Bhoj, 27, 112, 197. Bhojapala, 197. Bhopal, 197. Bhragu, 142, 186. Bhula, 79, 161. Bhuvana Simh, 171. Bijolli, 159. Bikampur, 67. Bikaner, 67, 126. Birpur, 43. Bombay Gazetteer, 97, 98, 99. Bundi, 81, 83, 84, 114, 115, 172, 180.

C. Caggar, 3, 19. Cambay, 149. Caucasus 3. Chacha, 30, 31, 32, 33, 35, 36, 37, 38, 39, 40, 59, 64, 71, 83. Champalal, 167, 168. Champavati, 116. Chandan Charan, 19, 38. Chandi Shataka, 166, 185, 192. Chandra Gupta, 77, 130. Chand Rao, 65. Chandravati 78. Changezkhan, 201. Chānpāner, 100. Chāp guru, 119. Charda, 16. Chatsoo, 114, 172. Chaumukha Temple, 147, 148, 171. Chavarli, 79. Chelvāta, 178.

[Right Column] Chhada, 12. Chhappan, 4. Chintamani V. Vaidya 14, 15. Chitor (or Chitorgarh) 2, 3, 6, 7, 8, 11, 17, 18, 19, 20, 23, 24, 25, 27, 28, 32, 33, 34, 35, 36, 40, 43, 44, 47, 50, 51, 52 54, 60, 61, 62. 63, 66, 67, 68, 76, 81, 85, 86, 87, 88, 89, 94, 96, 97, 98, 100, 103, 104, 105, 111, 113, 115, 116, 117, 118, 121, 125, 127, 128, 137, 138, 139, 140, 142, 143, 144, 145, 159, 161, 162, 164, 166, 175, 178, 179, 181, 182, 184, 190, 197, Chitori, 62, 65. Chokri (Chaukri) 68, 75. Chonda (Rao of Jodhpur) 13, 14, 16, 17, 24, 90. Chonda (Rawat) of Mewar:— Declines to accept the cocoanut sent by Rao of Jodhpur, 18; gives up his right to the throne of Chi- tor, 19; pays homage to his younger brother as sovereign, 20; to have first place in the Council in Mewar, 21; 22; wins the love of his people and leaves Mewar to satisfy the queen mother, 23; 24; 49; declines to lead the Mandu army against Mewar, 50; 60; returns to Chitor, 62; 63; attacks Jodha at Kapasan, 65; again at Someshwar Pass, 66; arrives at and take possession of Mandor, 67; leaves his three sons at Mandor, 68; 71; 75; refrains from invading Marwar, 76; his character 198; 199. Cooram Sagar, 144. Crikshetra, 167. Cunningham's Archæological Survey Report, Vol. XXIII 115, 117, 121, 128, 161, 182.

D. Dadupanthi, 115. Dafarkhan, 178. Damodar, 177. Dan guru, 118, 185. Dawud Shah, 45, 104. Dayal, 25.

226