महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 276, कुल 296 में से
संदर्भ में पढ़ेंAppendix. आकुंभकर्णभुजविक्रमभीमसेन- हिन्दूकराजगजनायक मुंच मुचं । इच्छुं रणेषु व्यलपन् परवीरधुर्या यस्योरुवाणनिकराहुति भीतिचित्ताः ॥ १५२ ॥ सिंहासनासनासितातपवारणोरु- माणिक्यमंडनचलच्चमराधिकोऽभूत् । आलोक्य मत्सरितमानसभूमिपाला- नुर्व्यामशिक्षयदयं विनयं नरेन्द्रः ॥ १५३ ॥ अमूमुचच्चतुर्वेदविचारचतुराननः । गयां यवनकरातो ......स्तापसीमिव ॥ १५५ ॥ पात्रसादकृतमादराद्विप्रसादकृतभूयसीभुवः । कृष्णसादकृतमानसं नृपः शास्त्रसादकृतदृष्टिगौरवं ॥ १५६ ॥ आलोड्याखिलभारतीविलसितं संगीतराजं व्यधात् औद्धत्यावधिरंजसा समतनोत्सूद्रप्रबन्धादिमुं । नानालंकृतिसंस्कृतां व्यरचयच्चंडीशतव्याकृतिं वागीशो जगतीतलं कलयति श्रीकुंभदंभात्किल ॥ १५७ ॥ येनाकारि मुरारि संगतिर सप्रस्यंदिनी नन्दिनी वृत्तिव्याकृति चातुरीभिरतुला श्रीगीतगोविंदके । श्रीकर्णाटकमेदपाटसुमहाराष्ट्रादिके योदय- द्वाणीगुंफमयं चतुष्टयमयं सन्नाटकानां व्यधात् ॥ १५८ ॥ श्रीकुंभकर्णरचितामवलोक्य वाचं माधुर्यधुर्यमपि गेयममुष्य मत्वा । ......न्महीपतिरनंतगुणोत्युदारां ............गिरमाद्रियते न कश्चित् ॥ १५६ ॥ सकलकविनृपाली मौलिमाणिक्यरोचि- र्मधुररणितवीणावाद्यवै शद्यचिह्नुः । मधुकरकुललीलाहारि......रसालो जयति जयति कुंभो भूरिशौर्यांशुमाली ॥ १६० ॥ 219