भारतकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 270, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 270

Appendix. कुम्भकर्णनृपतिः करप्रदं डिंडुआणलवणाकरं व्यधात् । यन्नराणनगरीरणांगणे सस्पृहं विवृणुते जयश्रियः ॥ ६ ॥ विजित्य सकलं राज्यमादाय सकलां श्रियं । मुदाफरमदच्छेदमकार्षीत्कुम्भभूपतिः ॥ ७ ॥ महामुनिश्रेष्ठवशिष्ठयोगपवित्रचित्रानलकुण्डशोधि । असौ महौजाः प्रवरं वसंतपुरं व्यधत्ताभिनवो वसंतः ॥ ८ ॥ सप्तसागरविजित्वरानसौ सप्तपल्वलरानकारयत् । श्रीवसंतपुरनाम्नि चक्रिणः प्रीतये वसुमतीपुरंदरः ॥ ६ ॥ अमराधिपप्रतिमवैभवो नृपो गिरिदुर्गराजमधिकुम्भमण्डपं । स्फुरदेकलिङ्गनिलयाच्चपूर्वतो निरमापयत्सकलभूतलाद्भुतं ॥ १० ॥ प्रोद्भाविधाटीपट्टभिस्तरंगैर्विगाह्य गोकर्णगिरिं नरेन्द्रः । समग्रहीद्दुर्गशैलराजं व्याधूययुद्धोद्धरधीरधुर्यान् ॥ ११ ॥ नीलाभ्रंलिहमर्बुदाचलमसौ प्रौढप्रतापांशुमा- नारोह्याखिलसैनिकानसिवले नाजावजेयोजयत् । निर्मायाचलदुर्गमस्य शिखरे तत्राकरोदालयं कुम्भस्वामिन उच्चशेखरशिखं प्रीत्य रमाचक्रिणोः ॥ १२ ॥ अर्बुदाचलशिरोवतंसिकां सर्वपार्थिवशिरोमणिर्महान् । निर्जितारिकरतुष्टबंधनात्तीर्थसंहतिमसावमोचयत् ॥ १४ ॥ चतुरश्चतुरो जलाशयान् चतुरो वारिनिधीनिवापरान् । स किलार्बुदशेखरे नृपः कमलाकामुककेलये व्यधात् ॥ १५ ॥ स्फूर्जद्गुर्जरदेशदाहनविधावुद्दामधूमावलीं यामुद्वेलवतीं व्यचीकरदिलां वेलावधिं सर्वतः । यस्तस्यामुदजम्भतः प्रियतमाधम्मिल्लमंजुद्युति- र्जानीमो गगनस्थलं मलिनिमा सोयं समालिंगति ॥ १६ ॥ श्रीकुम्भो मालवांभोधिनाथमंथलुमहीधरः । अखर्वमकरद्गर्व महंमदमहीपतेः ॥ १७ ॥ शेषांगद्युतिगर्व रुन्नरपतेर्यस्यैदुधामोज्ज्वला कीर्तिः शेषसरस्वतीविजयिनी यस्यामला भारती । 213