भारतकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 271, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 271

Maharana Kumbha. शेषस्यातिधरः क्षमाभरभृतो यस्योरुशौर्योभुजः शेषं नागपुरं निपात्य च कथाशेषं व्यधाद्भूपतिः ॥ १८ ॥ शकाधिपानां व्रजतामधस्ताद्दर्शयन्नागपुरस्य मार्गं । प्रज्वाल्य फेरोजमशीतिमुचां निपात्य तन्नागपुरं प्रवीरः ॥ १६ ॥ निपात्य दुर्गं परिखां प्रपूर्य गजान् गृहीत्वा यवनीश्च बध्वा । अदंडयद्यो यवनानतान् विडंवयन् गुर्जरभूमिभर्तुः ॥ २० ॥ लक्षाणि च द्वादश गोमवल्लीरमोचयद्दुर्यवनानलेभ्यः । तं गोचरं नागपुरं विधाय चिराय यो ब्राह्मणसादकार्षीत् ॥ २१ ॥ मूलं नागपुरं महच्छुकतरोरुन्मूल्य नूनं मही- नाथोयं पुनरच्छिदत्समदहत्पश्चान्मशीत्यासह । तस्मात्म्लानिंमवाप्य दूरमपतत् शाखाश्चपत्राण्यहो सत्यं याति न को विनाशमधिकं मूलस्य नाशे सति ॥ २२ ॥ अग्रहीदमितरत्नसंचयं कोशलः समसखानभूपतेः । जांगलस्थलमगाहाताहवे कुम्भकर्णधरणीपुरंदरः ॥ २३ ॥ ······समुद्भासितवान् कासिलीं सहसाजयत् । यस्य दुन्दुभिनिध्वानो धुंखराद्रि जयोद्भवः ॥ २४ ॥ आकर्णाकृष्टदलितचापविनिर्गतोरु- बाणावलीविदलितारिबलो नृपालः । खंडेळखंडनविधिं व्यतनोदुतुच्छ- सैन्योच्छलद्वहलरेणुविलुप्तभानुः ॥ २५ ॥ असौ शिरोमंडनचंद्रतारं विचित्रकूटं किल चित्रकूटं । स्वरा·········मकरोन्महींद्रो महामहाभानुरिवोदयाद्रिं ॥ २६ ॥ सरांसि यत्रातितरान्महंति वहंति नीलारुणसारसाली । विभांति तीरागतमानिनीनां मुखारविन्दप्रतिमाभिवात्र ॥ २७ ॥ कलाशाचलसुंदरं हिमगिरिप्रख्यं च सर्वंकषं नानाहेमघटावतंसकिरणैमेर्रोर्हसंतं श्रियं । सर्वोर्वीतिलकोपमं मुकुटवच्छ्रीचित्रकूटाचले कुंभस्वामिन आलयं व्यरचयच्छ्रीकुंभकर्णो नृपः ॥ २८ ॥ 214