महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 272, कुल 296 में से
संदर्भ में पढ़ेंAppendix. कैलाशस्य प्रतिनिधिरिदं शंकरस्याट्टहास ज्योत्स्नाराशिः किमु हिमवतः कर्णिका भूधरस्य । इत्थं नानाविषयविषयं चित्रकूटस्य शृंगे रम्यं हर्म्यं व्यरचयदिलाधीशवरश्चक्रपाणेः ॥ २६ ॥ तदांतिके देवगृहान्महोच्चानलंकृतान् हेमघटावतंसैः । अकारयच्चादिवराहगेहमनेकधाश्रीमरणस्य मूर्तिः ॥ ३१ ॥ रामकुण्डममराधिपचापप्राज्यदीधितिमनोहरगेहं । दीर्घिकाश्च जलयंत्रदर्शनव्यग्रनागरिकदत्तकौतुकाः ॥ ३२ ॥ कीर्तिस्तंभमकारयत्सरणधीरभ्रंलिहाग्रं समा- धीशा सर्वसुपर्वराजहरिति क्रीडानिवासं श्रियः । यत्रागत्यसुरांगनाः सकलभूसाम्राज्यलीलानिधे- रस्येंद्रस्य नितंबिनीजनकतान् पश्यंति लीलारसान् ॥ ३३ ॥ भानुः स्वं रथमेकचक्रमकरोन्मेरोस्तटे पर्यटन् नवासौ रथचक्रयुग्मसरणिं कर्तुं समर्थोभवत् । उच्चैर्मेरुगिरेर्नवोदिनकरः श्रीचित्रकूटाचले भव्यां सद्रथपद्धतिं जनसुखायाचूलमूलं व्यधात् ॥ ३४ ॥ रामः सरामो विरथो महोच्चै पद्भ्यामगच्छत्किल चित्रकूटे । इतीव कुंभेन महीधरेण किमत्र रामाः सरथानियुक्ताः ॥ ३५ ॥ शाखामृगार्थं किल सेतु ....................... रघुनन्दनोपि । इतीव दुर्गे खलु रामरथ्यां स सेतुबंधामकरोन्महीन्द्रः ॥ ३६ ॥ दृष्ट्वैकं किल चित्रकूटमचलं सन्मेदिनीलोचनं धात्रा निर्मितमत्रविस्मृतिमपि ज्ञात्वा विधातुर्नृपः । मन्येत्रापि कनीनिकामिवसरी नेत्रोदरव्यापिनीं निर्मायापरगाधिनन्दन इव स्रष्टा नवीनोभवत् ॥ ३७ ॥ किमेतत्कैलाशः सिततरशिलाशेखरशिरा हिमाद्रेर्वा शृंगं नृपहितभवानीप्रणिहितं । यदालोक्याल्हादं भजति नितरां कौतुकिजनो हनूमान्नामांकं व्यरचयदसौ गोपुरमिह ॥ ३८ ॥ 215