महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 280, कुल 296 में से
संदर्भ में पढ़ेंAppendix. VII Ekling Mahātmya (of the time of Maharana Kumbha.) हेलोन्मूलितमल्लवंशककुदं चंदीकरन्नर्बुदं दुर्गाद्रावितदुष्टतापसृगकं भंक्त्वा पुरं वायसम् । तोडामण्डलमग्रहीच्च सहसा जित्वा शकं दुर्ज्जयं जीव्याद्वर्षशतं स भृत्यतुरगः श्रीकुंभकर्णो भुवि ॥ १५७ ॥ समकरोदचलेश्वरसन्निधावचलदुर्गमसौ जगतीपतिः । यवनवारवधादिव तोषितो मुकुटमर्बुदभूमिभृतो व्यधात् ॥१६४॥ वेदा यन्मौलिस्नं स्मृतिविहितमतं सर्वदा कण्ठभूषा मीमांसे कुण्डले द्वे हृदि भरतमुनिर्व्याहृतं हारवल्ली । सर्वाङ्गीणप्रकृष्टं कवचमपि परे राजनीतिप्रयोगाः सार्व्वज्ञं बिभ्रदुच्चैरगणितगुणभूर्भासते कुम्भभूपः ॥ १७२ ॥ अष्टव्याकरणी विकास्युपनिषत्सन्नाष्टदंष्ट्रोत्कटः षट्तर्कीविकटोक्तियुक्तिविसरत्प्रस्फारगुंजारवः । सिद्धातोद्धतकाननैकवसतिः साहित्यभूक्रोडनो गर्जद्वादिगणान्विदार्य······प्रज्ञास्फुत्केसरी ॥ १७३ ॥ येनाकारिमुरारिसङ्गितिरस प्रस्यन्दिनी नन्दिनी- वृत्तिर्व्याकृतिचातुरीभिरतुला श्री गीतगोविन्दके । श्रीकर्णाटकमेदपाटसुमहाराष्ट्रादिते योद्य- द्वाणी गुम्फमयं चतुष्टयमयं संन्नाटकानां व्यधात् ॥ १७४ ॥ यः श्रुत्वा भरतं चतुर्भिरखिलैर्भाष्यैश्च रत्नाकरं सोपायं बहुशो विलोक्य निखिलांन्नाद्यागमान् वीक्ष्य च । गौरीनन्दिमते मतंगशिवसंगीते स शार्दूलके दृष्ट्वा दंतिलदुर्गशक्तिभणतीस्तान्नाटदोकीरपि ॥ २०२ ॥ 223