भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 113, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 113

चतुर्थोऽङ्कः । १०४

त्रस्तैकहायनकुरङ्गविलोलोलदृष्टि- आश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ ८ ॥ माधवः—न दुर्लभा बुद्धरक्षितायाः प्रियसखी । अपि च । प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम् । तथा च व्यापारः कमलनयनाया नयनयो- स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत् ॥ ९ ॥ तदुत्तिष्ठ । वरदासिन्धुसंभेदमवगाह्य नगरीमेव प्रविशावः । (उत्थाय परिक्रामतः ।) मकरन्दः—अयमसौ महानद्योर्व्यतिकरः । य एषः जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिः स्नातमात्रोत्थिताभिः ।


लिकी तस्याः कान्तिरुक्ता । त्रस्तो य एकहायनकुरङ्गस्तस्येव विलोला दृष्टिर्यस्याः सा

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 113, कुल 377 में से · BharatKosha