मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 114, कुल 377 में से
संदर्भ में पढ़ें१०८ · मालतीमाधवे रुचिरकनककुम्भश्रीमदाभोगतुङ्ग स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥ १० ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे चतुर्थोऽङ्कः । तमत्यन्तसंश्लिष्टं यद्वस्त्रं तेन व्यक्ताः सम्यग्विभाव्यमाना निम्नोन्नतप्रदेशा नाभि- मध्यकुचमण्डलनितम्बजघनाद्यवयवसंनिवेशा यासां ताः तथा रमणीयकाञ्चन- कलशकान्तिमन्त आभोगेन परिपूर्णतया तुङ्गाश्च ये स्तनास्तत्र विनिहितानि न्यस्तानि हस्तस्वस्तिकानि व्यस्तसंकुचितस्वस्तिकाकारहस्तयुगलानि यासां ताभिरिति तत्क्षणस्नातोत्थितवधूस्वभावोक्तिः । अथ च ज्ञानार्थमागताभिर्वधूभि- रित्यनेन नानाजातिनगराङ्गनाप्रतीतेर्वर्णसंहारो नाम प्रतिमुखसंधेरङ्गमिति द्रष्ट- व्यम् । यथा 'वर्णसंहार इत्युक्तो नानाजातिसमागमः' इति ॥ १० ॥ विचित्रव्यञ्जनाप्राणा श्लाघ्यशब्दार्थबन्धुराः । जयन्त्यभिनवोल्लासा भवभूतिकवेर्गिरः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां चतुर्थाङ्कविवरणम् ॥