भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 120, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 120

११४ मालतीमाधवे यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ ७ ॥ अपि च । पैति क्षालितोऽपि सन् । स एव कविभिः सर्वैर्माञ्जिष्ठो राग उच्यते ॥' अयमेव च श्रेष्ठो रागः । यथाह - 'श्रेष्ठो माञ्जिष्ठरागः स्यान्नीलीरागस्तु मध्यमः । कुसु- म्भरागः कविभिरधमः परिकीर्तितः ॥' इति । स्थिरोऽप्यशोभनो नीलीरागः । आपातरमणीयः कुसुम्भरागः क्षणिकः । निसर्गमधुराः स्वभावरमणीया मुग्धदृ- शस्तस्यास्तास्तास्तथानुभूताः केवलमनुभवैकसारश्रेष्ठाः कटाक्षविक्षेपभ्रूकर्मगा- त्रवलनप्रभृतयः शृङ्गारानुगुणा गात्रारम्भाः यथा - 'लीला विलासो विच्छित्तिर्वि- भ्रमः किलिकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोकललिते तथा ॥

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 120, कुल 377 में से · BharatKosha