भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 121, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 121

पञ्चमोऽङ्कः । ११५ अतिमुक्तकग्रथितकेसरावली- सतताधिवाससुभगार्पितस्तनम् । अपि कण्ठजाहविनिवेशिताननः प्रियया तदङ्गपरिवृत्तिमाप्नुयाम् ॥ ८ ॥ अथवा दूरे तावदेतत् । इदमेव तावत्प्रार्थये । संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः । इति । ‘उपायापायचिन्ताभ्यां प्राप्त्याशा प्राप्तिसंभवा । नायकस्य कथामध्ये तत्समानस्य वा कथा । अफलोदयसंबन्धा सा पताकेति कीर्तिता’ इति संक्षेपः । इदानीं सर्वास्वपि चेष्टासु श्रेष्ठामाश्लेषरूपामेव चेष्टां प्रार्थयते—अतिमुक्तकेति । अतिमुक्तकैर्वासन्तिकाकुसुमैः । ‘अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता’ इत्यमरः । अन्तरान्तरा निवेशितैर्ग्रथिता या केसरावली बकुलकुसुमप्रचुरा माला तस्याः सतताधिवासेन सुभगार्पितौ स्तनौ मदीयोरसि निवेशितौ स्तनौ यस्मि- न्कर्मणि तदिति क्रियाविशेषणम् । प्रियया कण्ठजाहे मदीयग्रीवामूले । ‘तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ’ इति कर्णादित्वात्कण्ठशब्दान्मूले जाहच्प्रत्ययः । तत्र विनिवेशितं स्वकीयमाननं यस्य सोऽहम् । आलिङ्गनसमये स्त्रीणां मुग्धानां स्वभावोऽयं यत्प्रियकण्ठमूले स्वशिरो भुग्नं निदधत इति तदङ्गेन मदङ्गस्य परिवृत्तिं विनिमयं प्राप्नुयाम् । आलिङ्गनवशात्तदङ्गं मदधीनं मदङ्गं च तदधीनं भवेदित्यर्थः । परिवृत्तिरेवालंकारः । केचित् । ‘अविमुक्तक-’ इति प- ठित्वा ‘अविमुक्तका अनुज्झिता कदाचिदपि मया ग्रथितत्वेनादराद् या केसरावली’ति व्याचक्षते ॥ ८ ॥ अथवेति । ‘मनोरथानामगतिर्न विद्यते’ इति नीत्या केवलं प्रार्थ्यते । अतिदुर्लभत्वान्न संभाव्यते । इदं तु संभाव्यत इति प्रथमं तदेव प्रार्थये । किं तदित्यत आह—संभूयेति । यत्र प्रियतामुख आलोकपथावतारिणि दृष्टिमार्गे निपतिते सति सुखानि लोके यावन्ति सुखसाधनानि सन्ति तत्सर्वानुभवजन्मा- नन्दविशेषाः संभूयेव राशीभूयेव चेतसि परं निरतिशयं भूमानमन्योन्यमेलनज- नितमतिबहुलमातन्वते विस्तारयन्ति । नेत्रयोर्दृष्टेश्चक्षुषोरुत्सवो हर्षहेतुर्यादृगक्ष्णो व्यापारः । ‘उत्सूते हर्षमित्येष उत्सवः परिकीर्तितः’ इत्युक्तत्वात् । रतिमिच्छा- विशेषात्मिकां शृङ्गारस्थायिनीं चित्तवृत्तिं प्रस्तौत्युत्पादयति । ‘रतिरिच्छा भवेद्यू- नोर्भयप्रार्थनात्मिका’ इत्युक्तत्वात् । दर्शनमात्रेणैव निरतिशयानन्दो रतिश्च ना- यिकाभिलाषरूपा भवतीत्यर्थः । किंच यन्मुखं बालेन्दोः कलङ्कराहित्यसौकुमार्य- मनोहरस्य कलाः प्रतिमासमेकैकक्रमेणोपचीयमानास्तासामुच्चयो राशिश्चेत्तस्मादुप- चितैः संगृहीतैः सारैः श्रेष्ठांशैरुपपादितमिवेत्युत्प्रेक्षा । निरतिशयाह्लादहेतुत्वेन नै- र्मल्यप्रासादादिगुणयोगात्तदनङ्गस्य मङ्गलगृहं तदधिष्ठानेनानङ्गस्य त्रिभुवनविजयल- क्षणमङ्गलप्राप्तेः । तदेतत्तस्याः प्रियाया मुखं भूयोऽपि पश्येयम् । पुण्यपरिपा-