मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 121, कुल 377 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ११५ अतिमुक्तकग्रथितकेसरावली- सतताधिवाससुभगार्पितस्तनम् । अपि कण्ठजाहविनिवेशिताननः प्रियया तदङ्गपरिवृत्तिमाप्नुयाम् ॥ ८ ॥ अथवा दूरे तावदेतत् । इदमेव तावत्प्रार्थये । संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः । इति । ‘उपायापायचिन्ताभ्यां प्राप्त्याशा प्राप्तिसंभवा । नायकस्य कथामध्ये तत्समानस्य वा कथा । अफलोदयसंबन्धा सा पताकेति कीर्तिता’ इति संक्षेपः । इदानीं सर्वास्वपि चेष्टासु श्रेष्ठामाश्लेषरूपामेव चेष्टां प्रार्थयते—अतिमुक्तकेति । अतिमुक्तकैर्वासन्तिकाकुसुमैः । ‘अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता’ इत्यमरः । अन्तरान्तरा निवेशितैर्ग्रथिता या केसरावली बकुलकुसुमप्रचुरा माला तस्याः सतताधिवासेन सुभगार्पितौ स्तनौ मदीयोरसि निवेशितौ स्तनौ यस्मि- न्कर्मणि तदिति क्रियाविशेषणम् । प्रियया कण्ठजाहे मदीयग्रीवामूले । ‘तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ’ इति कर्णादित्वात्कण्ठशब्दान्मूले जाहच्प्रत्ययः । तत्र विनिवेशितं स्वकीयमाननं यस्य सोऽहम् । आलिङ्गनसमये स्त्रीणां मुग्धानां स्वभावोऽयं यत्प्रियकण्ठमूले स्वशिरो भुग्नं निदधत इति तदङ्गेन मदङ्गस्य परिवृत्तिं विनिमयं प्राप्नुयाम् । आलिङ्गनवशात्तदङ्गं मदधीनं मदङ्गं च तदधीनं भवेदित्यर्थः । परिवृत्तिरेवालंकारः । केचित् । ‘अविमुक्तक-’ इति प- ठित्वा ‘अविमुक्तका अनुज्झिता कदाचिदपि मया ग्रथितत्वेनादराद् या केसरावली’ति व्याचक्षते ॥ ८ ॥ अथवेति । ‘मनोरथानामगतिर्न विद्यते’ इति नीत्या केवलं प्रार्थ्यते । अतिदुर्लभत्वान्न संभाव्यते । इदं तु संभाव्यत इति प्रथमं तदेव प्रार्थये । किं तदित्यत आह—संभूयेति । यत्र प्रियतामुख आलोकपथावतारिणि दृष्टिमार्गे निपतिते सति सुखानि लोके यावन्ति सुखसाधनानि सन्ति तत्सर्वानुभवजन्मा- नन्दविशेषाः संभूयेव राशीभूयेव चेतसि परं निरतिशयं भूमानमन्योन्यमेलनज- नितमतिबहुलमातन्वते विस्तारयन्ति । नेत्रयोर्दृष्टेश्चक्षुषोरुत्सवो हर्षहेतुर्यादृगक्ष्णो व्यापारः । ‘उत्सूते हर्षमित्येष उत्सवः परिकीर्तितः’ इत्युक्तत्वात् । रतिमिच्छा- विशेषात्मिकां शृङ्गारस्थायिनीं चित्तवृत्तिं प्रस्तौत्युत्पादयति । ‘रतिरिच्छा भवेद्यू- नोर्भयप्रार्थनात्मिका’ इत्युक्तत्वात् । दर्शनमात्रेणैव निरतिशयानन्दो रतिश्च ना- यिकाभिलाषरूपा भवतीत्यर्थः । किंच यन्मुखं बालेन्दोः कलङ्कराहित्यसौकुमार्य- मनोहरस्य कलाः प्रतिमासमेकैकक्रमेणोपचीयमानास्तासामुच्चयो राशिश्चेत्तस्मादुप- चितैः संगृहीतैः सारैः श्रेष्ठांशैरुपपादितमिवेत्युत्प्रेक्षा । निरतिशयाह्लादहेतुत्वेन नै- र्मल्यप्रासादादिगुणयोगात्तदनङ्गस्य मङ्गलगृहं तदधिष्ठानेनानङ्गस्य त्रिभुवनविजयल- क्षणमङ्गलप्राप्तेः । तदेतत्तस्याः प्रियाया मुखं भूयोऽपि पश्येयम् । पुण्यपरिपा-