मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 122, कुल 377 में से
संदर्भ में पढ़ेंयद्बालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ॥ ९ ॥ यत्सत्यमधुना संदर्शनं नेति स्वल्पोऽपि विशेषः । मम हि संप्रति सातिशयप्राक्तनोपलम्भसंभावितात्मनः संस्कारस्यानवरतप्रबोधात्प्रता- यमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययो- क्वशादिदं तावदस्तु तावतापि चरितार्थ एवाहमित्याशयः । अतिशयोक्त्युत्प्रेक्षा- रूपकानि वाच्यालंकाराः । प्रसिद्धसुखसाधनाभावेऽपि कारणान्तरादेव तत्स- मस्तसुखोत्पत्तेर्विभावना संभूयेवेत्यत्र व्यज्यते । नेदं मुखमितरशरीरवद्भौतिको- पादानकं किं त्वन्यदेव लोकोत्तरमस्योपादानमित्यपह्नवः । कलङ्कशून्यसारांशवि- र्मितत्वादस्य चन्द्रमण्डलाधिक्यप्रतीतेर्व्यतिरेकः । चन्द्रादेरप्युपमानलायोग्यला- दन्यस्य चाभावात्स्येदमेवोपमानमित्यनन्वयश्च यद्बालेन्दुकलेत्यत्र व्यज्यत इत्यादि निरूपणीयं सहृदयैः । रसध्वनिस्तूक्त एवेत्यलं प्रपञ्चेन ॥ ९ ॥ ननु भाव- नावशादनवरतमध्यक्षमीक्षमाणायां प्रियतमायां किमिति पुनः संदर्शनं त्वया प्रार्थ्यत इत्याशङ्क्य भावनाप्रसूतात्संदर्शनात्प्रार्थनीयसंदर्शनस्य विशेषमाह—य- दिति । यद्यपि यादृशी प्रेयसी पूर्वमनुभूता तादृश्येवान्यूनातिरेकेणेदानीमपि दृश्यते । तत्र कश्चिद्विशेषस्तथाप्यधुना संदर्शनमिदानींतनं भावनाप्रसूतं दर्शनं सत्यं पारमार्थिकं न भवति । प्रार्थनीयं तु सत्यमित्येतावान्स्वल्पोऽपि विशेषः प्रार्थनीयसंदर्शनस्येदानींतन संदर्शनाद्भेदोऽस्तीति यतः । तस्मात्तत्प्रार्थ्यत इत्यर्थः । ननु कथमेतावानेव विशेषो दर्शनस्यैवेदानीमभावादिति शङ्कां स्वसंवेदनसिद्धतन्म- यीभावोपन्यासेन शमयति—मम हि संप्रतीति । सातिशयो दृढतरसंस्काराधा- नसामर्थ्यलक्षणातिशयसहितो यः प्राक्तन उपलम्भः पूर्वानुभवः । आपातदर्शनं हि कदाचिन्न संस्कारमादध्यात् । आहितो वा संस्कारो दार्थाभावान्न स्मृतिं जनयेत् । बुभुत्सापूर्वकं तु संपादितः साधीयाननुभवः संस्कारोत्पादनाव्यभिचारी तदुत्पा- दितश्च संस्कारो दृढत्वादवश्यं स्मृतिं जनयतीति सातिशयेत्युक्तम् । तेन संभा- वितः संजनित आत्मा स्वरूपं यस्य तादृशस्य संस्कारस्य भावनाख्यस्यानवरत- प्रबोधादुद्बोधहेतोश्चिन्ताया निरन्तरानुवृत्तिनिमित्तो योऽनवरतप्रबोध उद्बोधः स्वकार्यजननौन्मुख्यं तस्मात्प्रतायमानो धारावाहिकरीत्या विस्तारमधिरोहन् । अत्र तादृश एव संस्कारः पूर्वानुभवेन सातिशयोत्पादितः । यो नैकां स्मृतिं जनयित्वा स्वयं नश्यति किं तु घण्टायनुरणनशब्दनिमित्तवत्प्रवाहरूपेण कार्य- मुत्पादयति । यथा लीलावतीकारपक्षे सातिशयः प्राथमिककर्मजन्यः प्राथमिक एव शरादिगतो वेगः समनन्तरभाविनीमापतनात्कर्मसंततिं जनयति तद्वदिति वा । संस्कारस्येति जात्यभिप्रायमेकवचनम् । तेन धारावाहिकस्मृतिजननसमर्थः कर्मभावी संस्कारराशिरुत्पन्नः क्रमिककार्यदर्शनादेव क्रमेणैवोद्बोधोऽदृष्टवशा- त्परिकल्पनीय इति व्याख्येयम् । पुनः किंभूतः । तद्विसदृशैर्मालतीस्मृतिविजाती-