भारतकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

यद्बालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ॥ ९ ॥ यत्सत्यमधुना संदर्शनं नेति स्वल्पोऽपि विशेषः । मम हि संप्रति सातिशयप्राक्तनोपलम्भसंभावितात्मनः संस्कारस्यानवरतप्रबोधात्प्रता- यमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययो- क्वशादिदं तावदस्तु तावतापि चरितार्थ एवाहमित्याशयः । अतिशयोक्त्युत्प्रेक्षा- रूपकानि वाच्यालंकाराः । प्रसिद्धसुखसाधनाभावेऽपि कारणान्तरादेव तत्स- मस्तसुखोत्पत्तेर्विभावना संभूयेवेत्यत्र व्यज्यते । नेदं मुखमितरशरीरवद्भौतिको- पादानकं किं त्वन्यदेव लोकोत्तरमस्योपादानमित्यपह्नवः । कलङ्कशून्यसारांशवि- र्मितत्वादस्य चन्द्रमण्डलाधिक्यप्रतीतेर्व्यतिरेकः । चन्द्रादेरप्युपमानलायोग्यला- दन्यस्य चाभावात्स्येदमेवोपमानमित्यनन्वयश्च यद्बालेन्दुकलेत्यत्र व्यज्यत इत्यादि निरूपणीयं सहृदयैः । रसध्वनिस्तूक्त एवेत्यलं प्रपञ्चेन ॥ ९ ॥ ननु भाव- नावशादनवरतमध्यक्षमीक्षमाणायां प्रियतमायां किमिति पुनः संदर्शनं त्वया प्रार्थ्यत इत्याशङ्क्य भावनाप्रसूतात्संदर्शनात्प्रार्थनीयसंदर्शनस्य विशेषमाह—य- दिति । यद्यपि यादृशी प्रेयसी पूर्वमनुभूता तादृश्येवान्यूनातिरेकेणेदानीमपि दृश्यते । तत्र कश्चिद्विशेषस्तथाप्यधुना संदर्शनमिदानींतनं भावनाप्रसूतं दर्शनं सत्यं पारमार्थिकं न भवति । प्रार्थनीयं तु सत्यमित्येतावान्स्वल्पोऽपि विशेषः प्रार्थनीयसंदर्शनस्येदानींतन संदर्शनाद्भेदोऽस्तीति यतः । तस्मात्तत्प्रार्थ्यत इत्यर्थः । ननु कथमेतावानेव विशेषो दर्शनस्यैवेदानीमभावादिति शङ्कां स्वसंवेदनसिद्धतन्म- यीभावोपन्यासेन शमयति—मम हि संप्रतीति । सातिशयो दृढतरसंस्काराधा- नसामर्थ्यलक्षणातिशयसहितो यः प्राक्तन उपलम्भः पूर्वानुभवः । आपातदर्शनं हि कदाचिन्न संस्कारमादध्यात् । आहितो वा संस्कारो दार्थाभावान्न स्मृतिं जनयेत् । बुभुत्सापूर्वकं तु संपादितः साधीयाननुभवः संस्कारोत्पादनाव्यभिचारी तदुत्पा- दितश्च संस्कारो दृढत्वादवश्यं स्मृतिं जनयतीति सातिशयेत्युक्तम् । तेन संभा- वितः संजनित आत्मा स्वरूपं यस्य तादृशस्य संस्कारस्य भावनाख्यस्यानवरत- प्रबोधादुद्बोधहेतोश्चिन्ताया निरन्तरानुवृत्तिनिमित्तो योऽनवरतप्रबोध उद्बोधः स्वकार्यजननौन्मुख्यं तस्मात्प्रतायमानो धारावाहिकरीत्या विस्तारमधिरोहन् । अत्र तादृश एव संस्कारः पूर्वानुभवेन सातिशयोत्पादितः । यो नैकां स्मृतिं जनयित्वा स्वयं नश्यति किं तु घण्टायनुरणनशब्दनिमित्तवत्प्रवाहरूपेण कार्य- मुत्पादयति । यथा लीलावतीकारपक्षे सातिशयः प्राथमिककर्मजन्यः प्राथमिक एव शरादिगतो वेगः समनन्तरभाविनीमापतनात्कर्मसंततिं जनयति तद्वदिति वा । संस्कारस्येति जात्यभिप्रायमेकवचनम् । तेन धारावाहिकस्मृतिजननसमर्थः कर्मभावी संस्कारराशिरुत्पन्नः क्रमिककार्यदर्शनादेव क्रमेणैवोद्बोधोऽदृष्टवशा- त्परिकल्पनीय इति व्याख्येयम् । पुनः किंभूतः । तद्विसदृशैर्मालतीस्मृतिविजाती-

त्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यतश्चैतन्यम् । तथा हि । लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । यैर्विषयान्तरावगाहिभिः प्रत्ययान्तरैरन्यैर्ज्ञानैः । विभिन्नविषयावगाहित्वमेव ज्ञाना- नामन्योन्यं वैसादृश्यम् । अतिरस्कृतोऽनन्तरितः प्रवाहो यस्य । विजातीयप्रत्यया- संवलित इत्यर्थः । प्रियतमाविषयाः स्मृतय एव प्रत्ययास्तेषामुत्पत्तिसंतानैः संत- न्यमानत्वेनोत्पद्यमानाः स्मृतिप्रत्यया इति यावत् । मम चैतन्यं चिद्रूपमात्मानं तन्मयं मालतीमयमिव तत्तादात्म्यापन्नमिव करोति । कुतः । वृत्तिसारूप्यतः । वृत्तेर्मालतीगोचरायाः स्मृतिरूपाया अन्तःकरणवृत्तेः सारूप्यं मालत्याकारका- रितत्वं तस्मादयमर्थः । वे

११८ मालतीमाधवे सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि- श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ १० ॥ (नेपथ्ये कलकलः ।) माधवः—(आकर्ण्य ।) अहो, संप्रतीतस्ततः प्रवर्तमानकौणपनि- करस्य महती श्मशानवाटस्य रौद्रता । अत्र हि, पर्यन्तप्रतिरोधिमेददुरघनस्त्यानं चिताज्योतिषा- मौज्ज्वल्यं परमागतः प्रकटयत्याभोगभीमं तमः । ननु तर्हि चित्रस्य रेखोपरेखासंस्थानविशेषात्मकत्वेन तद्रूपत्वाभावान्मालतीचित्र- मेव लग्नं न तु मालती स्यादत आह—उत्कीर्णरूपेवेति । यथा शिलायामेव शिलापु- त्रिका शिल्पिन्रा टङ्केनोत्कीर्यते, एवं मम चित्ते मदनशिल्पिना शरैरेव टङ्कैरूत्कीर्ण- रूपमच्चित्तमेव प्रियाकारेणोत्कीर्णमित्यर्थः । नन्वणीयो मनसो निरवयवत्वात्कथं

पञ्चमोऽङ्कः । ११५ संसक्ताकुलकेलयः किलकिलाकोलाहलैः संमदा- दुत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते ॥ ११ ॥ तदुच्चैराघोषयामि । भो भोः श्मशाननिकेतनाः कटपूतनाः, अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् । विक्रीयते महामांसं गृह्यतां गृह्यतामिति ॥ १२ ॥ (नेपथ्ये पुनः कलकलः ।) माधवः—कथमाघोषणानन्तरमेव सर्वतः समुच्छलदुत्तालतुमुल- व्यक्तकलकलाकुलः प्रचलित इवाविर्भवद्भूतसंकटः श्मशानवाटः । आश्चर्यम् । कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभि- र्दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते । गतो वर्णोत्कर्षोऽत्र कट्यति । तमोरूपसंनिधौ हि तेजोरूपमुज्ज्वलं प्रकाशते । कीदृशं तमः । पर्यन्ते ज्योतिषां प्रान्तप्रदेशे प्रतिरोद्धुं शीलमस्य तत्तथा । ज्योतिःसमीपप- र्यन्तमावृत्य वर्तमानमित्यर्थः । तथा मेदुरं मांसलं घनं निबिडं स्त्यानं पिण्डीभूतम् । सूचीभेद्यमित्यर्थः। तथा भोगेन विस्तारेण बहुदेशव्यापित्वेन भीमं भीषणम् । किं चैते संसक्ताविच्छिन्नाकुला केलिर्येषां ते । उत्ताला उद्भटाः । कटपूतना नाम पिशा- चविशेषस्तत्प्रभृतयः पिशाचाः संमदात्किलकिलारूपैः कोलाहलैः सांराविणं सर्व- तोऽपि विस्तृतरमाक्रोशं कुर्वते । संपूर्वात् 'रु शब्दे' इत्यस्माद्धातोः 'अभिविधौ भाव इनुण्' इतीनुण्प्रत्ययः । 'तदन्तादण्' इति तद्धितोऽण्प्रत्ययः स्वार्थिकः ॥ ११ ॥ आघोषयामि । उच्चैर्विक्रयार्थं विक्रेयवस्तु निवेदयामीत्यर्थः । भो भोः संभ्रमादामन्त्र- णे । अशस्त्रेति । शस्त्रेणास्पृष्टम् । अशस्त्रक्षतमित्यर्थः । शस्त्रस्पृष्टं हि पवित्रत्वात्पि- शाचैः स्प्रष्टुमशक्यमिति तदभावस्तेषां तस्य सुग्रहत्वप्रतिपादनायोक्तः । अव्या- जमकपटं वस्तुतो विक्रयार्थमेवानीतं न तु मांसविक्रयव्याजेन विश्वासमुत्पाद्य प्रहर्तुमानीतमित्यर्थः । यद्वा व्याजः कृत्रिमो गण्डादिर्मांसदूषको रोगविशेषस्त- द्रहितं यत्पुरुषस्याङ्गं तेनोपकल्पितम् । गण्डादिकृत्रिमदोषदूषितं हि मांसं रसही- नत्वादनास्वाद्यं स्यात् । स्त्रीमांसापेक्षया पुरुषमांसस्य प्रशस्तत्वद्योतनाय पुरुष- ग्रहणम् । उक्तं हि कापालिकागमे—'अशस्त्रसंछिन्नमयोषिदीयं नृमांसमार्द्रं गल- दस्रबिन्दु यत्' । अन्ये तु—'आत्मसिद्धिं पणीकृत्य साहसाद्यदुपार्जितम् । अ- शस्त्रपूतमव्याजं नृमांसं परिकीर्तितम् ॥' इत्याहुः । एतदेव महामांसशब्देनोच्यते । गृह्यतां गृह्यतामिति वीप्सा दुर्लभत्वादेतादृशस्य प्रथममागतस्यैवास्ति न पश्चादाग- तस्येत्यादरातिशयसूचनार्था ॥ १२ ॥ सर्वतः समुच्छलन्नुत्तालो भीषणस्तुमुलः सं- कीर्णो व्यक्तः स्फुटं विभाव्यमानश्च यः कलकलस्तेनाकुल आविर्भवद्भिस्तदैव प्रकटीभवद्भिर्भूतैः संकटः संकीर्णः श्मशानप्रदेशः प्रचलित इव । पिशाचगतसंचर- णक्रियायास्तद्गततया प्रतीतेः कम्पमान इव वर्तत इत्यर्थः । कर्णाभ्यर्णेति । लक्ष्यं

१२० मालतीमाधवे विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामुखानां मुखैः ॥ १३ ॥ अपि च । एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृका- नुत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः । खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥ १४ ॥ (समन्तादवलोक्य विहस्य च ।) अहो प्रकारः पिशाचानाम् । ततः । पृथुचलरसनोग्रमास्यगर्तं दधति विदार्य विशीर्णशुष्कदेहाः ।


मुखगतोल्कादीप्तिवशादीषल्लक्ष्यमन्धकारवशात्स्फुटमलक्ष्यं च विशेषतः शुष्कं कृशं दीर्घमत्युन्नतं च वपुर्येषामुल्कामुखानानामन्वर्थानां पिशाचविशेषाणां मुखैर्नभ आकी- र्यत आकीर्णं भवतीति । कीदृशैः । कर्णयोरभ्यर्णमन्तिकं यावद्विदीर्णे विपाटिते ये सृक्वणी ओष्ठप्रान्तौ ताभ्यां विकटं यद्यादानं वदनकुहरविवरणं तेन दीप्तः प्रका- शमानोऽग्निर्यैषु तैः । दंष्ट्राणां कोटिभिरग्रैर्विशङ्कटैराकुलैः । इतश्चेतश्च धावद्भिः । प्रदीप्तोल्कासंबन्धेन मुखमात्रदर्शनात्तेषामपसरणमुक्तम् । तडित्समूहसंनिभकेशा- दिमिराननैः ॥ १३ ॥ एतदिति । एतत्पूतनानां पिशाचविशेषाणां चक्रमालो- क्यते दृश्यते । कीदृशम् । परितः सर्वत आदर्दरमीषद्वर्बरं यथा तथा । 'आघ- र्घरम्' इति क्वचित्पाठः । क्रन्दत आक्रन्दनं कुर्वाणान्वृकान्मांसाहारान्मृगविशेषा- नक्रमेणातिवृष्णया यौगपद्येनैकीकृत्य गृहीतो यो ग्रासः कवलपिण्डस्तस्यार्धमु- क्तैराधिक्याद्वदनविवरेऽद्यमानाद्भूमौ पतितैर्नृमांसस्य विघसैर्भुक्तशेषैः । उच्छिष्टै- रिति यावत् । उत्पुष्णत्पोषणं कुर्वाणम् । खर्जूरद्रुमदघ्ना तत्प्रमाणा जङ्घा यस्य तत्तथा । असितया त्वचा नद्धाः परीताः विष्वक्सर्वतस्तता व्याप्ताः स्नायुग्रन्थयः सिराप्र- न्थयस्ताभिर्घनं निबिडमस्थिपञ्जरं रक्तमांसमज्जादिभिर्विहीनतया केवलं पञ्जरीभू- तान्यस्थीनि यस्य तादृक्च जरतोऽतिचिरकालजीवनाज्जराजीर्णाः कङ्कालाः शरीरा- स्थीनि यस्य तादृक्चेति विशेषणसमासः । 'कङ्कालः पुंसि कायास्थि' इति विश्वः ॥ १४॥ समन्तादवलोक्य विहस्य च । आहेति शेषः । विहसनेन च तादृ- शभयंकरदर्शनेऽपि वीतशङ्कतासूचनान्नायकस्यातिमनस्विता कथिता । पृथुच- लेति । विशीर्णा विशेषेण शीर्णा व्रणकिणगण्डादिबहूपद्रववशाद्विशकलिताः शुष्का मांसरुधिरादिशून्यतया नीरसा देहा येषां ते पिशाचाः पृथु विशालं चल्या कम्प- मानया रसनयोप्रम् 'पृथुतररसनोग्रम्' इति पाठेऽतिस्थूलतया रसनयोप्रमास्यगर्तं गर्तमिवास्यम् । उपमितसमासः । अत एव समाससामर्थ्यात्तद्वाचिलोपे लुप्तोपमा ।

पञ्चमोङ्कः । १२१ चलदजगरघोरकोटराणां द्युतिमिह दग्धपुराणरोहिणानाम् ॥ १५ ॥ (परिक्रम्यावलोक्य च ।) हन्त, अतिबीभत्समग्रतो वर्तते । उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपीठाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वाद्धनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ १६ ॥ अपि च । निष्ठापस्विद्यदस्थिः कथनपरिगलन्मेदसः प्रेतकाया- न्दृष्ट्वा संसक्तधूमानपि कुणपभुजो भूयसीभ्यश्चिताभ्यः ।


तद्दिदार्य विपाच्य स्थिताः सन्तः । चलद्भिश्चलैः 'गलत्' इति पाठे कोटरा- निर्गच्छद्भिरजगरैर्महासर्पैर्घोराणि भीषणानि कोटरा

१२२ मालतीमाधवे उत्पक्वशंसि मांसं प्रचलदुभयतः संधिनिर्मुक्तमारा- देते निष्कृष्य जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति ॥१७॥ (विहस्य ।) अहो, प्रादोषिकः प्रमोदः पिशाचानाम् । आन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब- न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १८ ॥ तो गलत्संसमानं मेदो येषां तानेवंविधान्संसक्तधुमांश्चितासु दह्यमानान्प्रेतका- यान्भूयसीभ्यश्चिताभ्यो मृतशरीरदहनेन्धनराशिभ्यः कृष्ट्वाकृष्य । उत्पक्वमुक्त- र्वेण पक्वमत एव संसि विगलन्मांसं यस्य तत् । प्रचलत्कायात्पृथक्त्वेन खतश्च- कियम् । उभयतो मूलाग्रभागयोर्यौ संधी ताभ्यां तयोर्वा निर्मुक्तं जङ्घानलकं जङ्घाकाण्डमारात्समीपे निष्कृष्य शरीरात्पृथकृत्य । 'निक्षूष्य' इति पाठे प्रथमं द्रवीभूतगलन्मांसत्वान्मेदादिवच्चूषणं कृत्वा पश्चात्तत उदयिनीर्निर्प्रतिबन्धं निः- सरन्तीर्मज्जधारा अस्थिसुषिरपूरकधातुविशेषधाराः पिबन्ति । निःशब्दपानासे- चनमित्यत्रासेचनमीषत्सेचनं तद्व्यतिरिक्तेनासेचनेनेषत्त्वविधानान्निष्ठायन इति पलम् । 'निष्ठप्तं रक्षः' इत्यादौ निःशेषतापस्यैव विवक्षितत्वात् । पूर्वश्लोके मांसभक्षणस्योक्तत्वादत्र पानक्रियावर्णनेनः बीभत्सरसपरिपोषः ॥ १७ ॥ प्रादो- षिक इति । रजनीमुखसमुद्भूतः प्रमोदः प्रकृष्टो हर्षः । तेषां रात्रिचरत्वात्प्र- दोषसमये प्राप्ते युक्तः प्रमोद इति भावः । आन्त्रैरिति । पूर्वं पिशाचवृत्तान्त इदानीं समृद्धवधूकानां तेषां विजृम्भणमुच्यते । आन्त्रैः कल्पिता मङ्गलार्थं प्रतिसरा रक्तसूत्रादिनिर्मितवलया यासां ताः । स्त्रीणां मृतानां हस्ता एव रक्तो- त्पलानि तान्येव व्यक्तान्युत्तंसानिबिभ्रतीति तथोक्ताः । शोणितपङ्क एव रुधिर- कर्दम एव कुङ्कुमं तज्जुषन्ति सेवन्त इति तथाभूताः पिशाचाङ्गनाः सहसा हृद्भिरेव पुण्डरीकैः कृतस्रजः । 'पिनह्य शिरसा' इति पाठे स्वकीलेन शिरसा धृत्वा । एवमलंकृताः कान्तैः समं कपालैः शवशिरःकरोटिभिरेव चषकैः पान- पात्रैरस्थिस्नेहमज्जन्येव सुरां प्रीताः सत्यः पिबन्तीत्येकदेशवर्तिसावयवं रूपकम- लंकारः । पिशाचानां संभोगनायकत्वस्य तदङ्गनानां तन्नायिकात्वस्य च श्रुत्या- रोपणाभावादार्थप्रतीतेः । यदाह- 'तद्रूपकममेदो य उपमानोपमेययोः' इति । 'श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत्' इति च 'आन्त्रैः कल्पितमङ्गलप्रतिसरः' इत्यत्र तु परिणामः । आन्त्रप्रतिसरत्वस्य प्रकृतोपयोगित्वेनारोपणात् । यथाह- 'आरोप्यमाणस्य प्रकृतस्योपयोगित्वे परिणामः' इति । 'आरोप्यमाणमारोपविषयात्म- तया स्थितम् । प्रकृतस्योपयोगित्वात्परिणाम उदाहृतः ॥' इति । प्रकृतोपयोगित्वा- दित्यनेन रूपकाद्भेद उक्तः । तत्र प्रकृतेनोपरञ्जकमारोप्यमाणस्य । अत्र तु तदुप- योगित्वमात्रमिति । अत्र प्रियतमैः सह मधुपानप्रवृत्तस्रक्वन्दनाद्यलंकृतना-

पञ्चमोऽङ्कः । १२३ (परिक्रम्य । पुनः 'अशस्त्रपूतम्-'इत्यादि पठित्वा ।) कथं नामातिभीषण- विभीषिकाविकारैर्झटित्यपक्रान्तं पिशाचैः अहो निःसत्त्वाः सर्वे । (सनिर्वेदम् ।) विचितश्च सर्वः श्मशानवाटः । तथा खल्वियं पुरत एव, गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवेष्टित- क्रन्दत्फेरवरुचण्डधात्कृतिभृतप्राग्भारभीमैस्तटैः । षिकाप्रतीतेः संभोगशृङ्गाररसः प्रतीयमानः प्रधानस्य वार्यभूतस्य बीभत्सरसस्या- ङ्गमिति रसवदलंकारश्च । अङ्गाङ्गिभावापत्तेश्च शृङ्गारबीभत्सयोर्विरोधपरिहारः । 'अयं स रशनोत्कर्षा' इत्येवमादौ करुणाङ्गत्वात्करुणशृङ्गारयोरिव । यदाह ध्वनि- कृत—'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । बाध्यानामङ्गभावं वा प्राप्ताना- मुक्तिरच्छला ॥' इति । अत्र 'प्रेमार्द्राः' इत्यारभ्य'लीनेव' इत्यन्तं परिपोषितस्य शृ- ङ्गारस्य'आन्त्रैः' इत्यनेन बीभत्सेन सह विरोध इति नाशङ्कनीयम् । मध्ये 'इतस्ततः परिवर्तमान-'इत्यादिनाश्चर्यस्य, 'कर्णाभ्यर्ण—' इत्यादिना चाद्भुतरसस्य नैरन्तर्यकृत- विरोधपरिहारायैव निवेशनात् । 'रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥' इति एकवाक्यस्थयोरपि रसान्तरव्यवधाने विरोधो निवर्तते किल । किमुत भिन्नवाक्यस्थयोरित्यपिशब्दार्थः । न चात्रैकाश्र- यलकृतो विरोधः शङ्कनीयः । शृङ्गारिणो माधवस्य बीभत्सरसालम्बनत्वानुपपत्तेर्न विरोधशङ्कापीति प्रागेव निरूपितम् । न च यावत्प्रधानरसपरिपोषः कृतस्तावत्तत्र परिपोषस्तेनापि विरोधाभावः । यदाह—'अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥' इति । परिपोषाभावे कथं रसत्वमिति वाच्यम् । यतो यावानङ्गिनो रसस्य परिपोषः कृतस्तावत्तत्र न कर्तव्य इत्यस्या ध्वनिकारिकायास्तात्पर्यमित्यलं प्रपञ्चेन ॥ १८ ॥ 'पुनरशस्त्र-' इत्यादिपाठः पश्चादागतानामपि प्रज्ञापनार्थम् । अतिभीषणा विभीषिकाः परस्य भयमुत्पादयितुं ये विकारा विकृतवेषभाषादयो येषां तैः पिशाचैर्झटित्यपक्रान्तं सत्वरं पलायितम् । निःसत्त्वा निर्वीर्याः । सनिर्वेदमिति । पिशाचैः सर्वैरपि भीतभीतै- रपसृतं न तु धाष्टर्यमबलम्ब्य मदन्तिकमागत्य मांसं विक्रीतम्, अक्रीते चास्मिन्न मे कार्यसिद्धिरिति निर्वेदहेतुः । सर्वोऽपि श्मशानवाटः श्मशानप्रदेशो विचितो- ऽन्विष्टः । नेतः परं पितृवनभागभूमिरस्ति यत्र क्रेतारो लभ्यन्ते । तदनुचितेऽपि साहसे प्रवृत्तस्य मे न कार्यसिद्धिरित्यहो दैवस्य मयि प्रातिकूल्यमिति भावः । ततः परं श्मशानप्रदेशस्याभावमेवाह—इह खलु पुरत एव पारेश्मशानं सरिद्वर्तत इत्य- नेनान्वयः । गुञ्जदिति । पारेश्मशानं श्मशानस्य पारे पर्यन्ते । 'पारे मध्ये षष्ठ्या वा' इत्यव्ययीभावः । सीमभूता सरित्पर्यन्त एव वर्तते । अतो नेतः परं श्मशानभूमिरस्तीति भावः । कीदृशी सरित् । गुञ्जतां कूजतां कुञ्जकुटीरेषु लता- दिपिहितोदरप्रदेशेषु स्थितानां कौशिकानामुलूकानां या घटास्तासां घूत्कारैः संवे- ष्टितः संवर्धितो यः क्रन्दतां फेरवाणां जम्बुकानां चण्डो भीषणो धात्कृतिरनुक- मा० १२

१२४ मालतीमाधवे अन्तःकीर्णकरङ्ककर्परतरत्संरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ १९ ॥ (नेपथ्ये ।) हां ताद णिकरुण, एसो दाणिं दे णरेन्दचित्ताराहणोवअरणं जणो विपज्जइ । माधवः—(साकूतमाकर्ण्य ।) नादस्तावद्विकलकुररीकूजितस्निग्धतार- श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति । अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं गात्रस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत् ॥२०॥ १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । रणशब्दस्तेन भृतो भरणशीलः प्राग्भारस्तेन भौमैर्भीषणैस्तटैरुपलक्षितः । तथा- न्तःकीर्णानां करङ्काणां निर्मांसास्थिपञ्जरशवशरीराणां यानि कर्पराणि कपालानि तेषु तरदत एव संरोधोऽस्त्यास्तीति संरोधि तत् एवैकदेशे सङ्घीभूय वेगातिशयेन प्रवहणात्कूलंकषं तटभेदकम् । 'सर्वकूलाभ्रकरीषेषु कषः' इति खच्मुमागमश्च । तादृशं यत्स्रोतस्तस्य निर्गमस्तेन घोरो भीषणस्तथाविधो घर्घरः श्रवणकटू रवो यस्याः सा तादृशीति । अत्रोल्कादिभी रसाभावेऽपि वाच्यायाः सरितो भीषण- त्वातदनुगुणा परुषवृत्तिरिति द्रष्टव्यम् ॥ १९ ॥ नेपथ्ये इति । इत्थं वाणी समुत्थितेति शेषः । हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । तात, जनक एवासि केवलम्, न तु जनकानुरूपव्यापारोऽसीति भावः । अतो निष्करुणो मयि कृपारहितो माधवाय मामदत्त्वा नन्दनाय प्रयच्छता त्वयैवाहं निष्करुणेन मारिता । भ्रमस्तु मरणस्य केवलं व्यपदेशभाक् । अन्यथा मरणस्य निश्चितत्वादिति भावः । एष इत्यात्मनिर्देशः । जनो यः कश्चिज्जन्तुरित्येव मयि बुद्धिः न त्वपत्यमिति स्नेहलेशोऽपीति भावः । नरेन्द्रस्य चित्तानुरञ्जनोपकरण- द्रव्यतयैवाहं त्वोपयुक्ता मणिसुवर्णादिवत् । न तु पुनरात्मजेत्याद्यत्र द्रष्टव्यम् ॥ माधवः । साकूतं साभिप्रायम् । नाद इति । विकला भयोद्विग्ना या कुररी क्रौञ्चवधूस्तस्याः कूजितवत्स्निग्धो मसृणस्तारश्च मालतीध्वनिरिव चित्ताकर्षी मनो- हार्ययं नादस्तावत्प्रथमं परिचित इव पूर्वमनुभूत इव श्रोत्रसंवादं पूर्वं व्याघ्राव- स्कन्दनसमये मकरन्दविपत्तिविह्वलाया मालत्या यो ध्वनिर्मयानुभूतः स एवाय- मिति प्रत्यभिज्ञागोचरत्वमेति गच्छति किंच नादश्रवणानन्तरं मदीयं हृदयमन्त- र्मध्ये भिन्नं विदीर्णं सद्भ्रमत्यनवस्थितं वर्तते । तथाङ्गमङ्गं सर्वमप्यवयवजातं पाणि- पादादिकं विह्वलति विषण्णं भवति । तथा गात्रस्य महावयविनः शरीरस्य स्तम्भो

Here is the line-by-line transcription of the Sanskrit text from the image:

पंचमोऽङ्कः । १२५ करालायतनाच्चायमुच्चरन्करुणध्वनिः । विभाव्यते ननु स्थानमनिष्ठानां तदीदृशम् ॥ २१ ॥ भवतु । पश्यामि । (इति परिकामति ।) (ततः प्रविशतो देवतार्चनाव्यग्रौ कपालकुण्डलाघोरघण्टौ कृतवध्यचिह्ना मालती च ।) मालती-हा ताद णिकरुण, एसो दाणिं दे णरेन्द्रचित्तारा- हणोबअरणं जणो विपज्जइ । हा अम्ब, हिअए हदासि दुवारदेव- दुव्विलसिदेण । हा मालदीमअजीविद्दे, मह कल्लाणसाहणेकसुहसअ- १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । हा मालतीमय- जीविते, मम कल्याणसाधनैकसुखसकलव्यापारे भगवति कामन्दकि, चिरस्य निश्चेष्टत्वं गतिं गमनं स्खलयति । ततश्चायमत्रार्तनादसमुद्भवप्रकारः को वा भवेत् । किमेतत् । किं मालत्येव केनचिद्दुर्लभसिद्धिसाधकेन मायाविना विविध- जीवोपहारप्रियलप्रसिद्धायाः सकलसाधकाभिमतसिद्धिप्रदानदक्षायाः संनिहिताय- तनवर्तिन्याः करालाख्याया महाकाल्या उपहारीकर्तुं मायाबलादानीता संनिहित- मथा करुणं क्रन्दति, उत तन्नादसद्दशो वान्यदीयोध्वनिरिति प्रकारे वितर्कः। यद्यन्यदीयोऽयं ध्वनिस्तर्हि ममोत्पन्नं मनोविदलनाश्रमणपाण्ड्याद्यवयवविषादगात्र- स्तम्भादिकं किंनिमित्तकं स्यात् । न ह्यन्यदीयव्यसनानममैषा दुःसहवेदना भवि- तुमर्हति । तेन 'प्रमाणमन्तःकरणप्रवृत्तयः' इति न्यायेन प्रियायां एवैष आर्तध्व- निरिति मन्ये । सा हि मम बहिश्चराः प्राणा इति तद्विपत्तिसंभावनयैव ममैषा दशेति निश्चयगर्भो माधवस्य वितर्को युज्यत एवैषः ॥ २० ॥ प्रियाया एव केन- चित्काल्या उपहारीकृताया एष ध्वनिरिति कुत इत्यत आह-करालेति । करालाख्यायाः काल्याः स्थानादुच्चरन्नुद्गच्छन्करुणध्वनिरिव विभाव्यते । तत्खल्वी- दृशानां जीवोपहारादीनामनिष्ठानां स्थानम् । तस्मात्संभावितमेवैतदित्यर्थः ॥२१॥ एवं विमृश्य कर्तव्यं निश्चिनोति-भवतु मया यथाभ्यूहितं तथैव भवतु । तथापि पश्यामि कालीस्थानं करुणध्वनिमूलं च प्रत्यक्षीकरोमि । यदि वस्तुतः प्रियेव त- न्मूलम्, तदा मत्प्राणव्ययेनापि यदि सा विपदो निस्तारयितुं शक्यते, तर्हि त- त्राणत्राणेन संपूर्णसंप्राप्तजीवितफलो भवेयम् । यदि न शक्यते, तदापि तत्रैव विसृज्य प्राणान्प्रियतमां लोकान्तरे वा समासादयेयमित्यभिप्रायः । मालती । हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । 'मत्स्नेहमये' इति हृदयविशेषणं क्वचित्पठ्यते । तत्र तात, त्वं निष्करुणः किंतु (अम्बा) मद्गतस्नेहेति मद्योग- शोकज्वलनान्न जीविष्यतीत्येतदेव मे दुःखनिमित्तम्, न तु मत्प्राणवियोगः ।

१२६ मालतीमाधवे ल्लावारे भअवदि कामन्दइ, चिरस्स जाणाविदासि दुक्खं सिणेहेण । हा पिअसहि लवङ्गिए, सिविणअवसरमेत्तदंसणा अहं दे संवुत्ता । माधवः—हन्त, संप्रति निरस्त एव मे संदेहः । तदपि नाम जीवन्तीमेनां संभावयेयमिति । (झटिति परिक्रामति ।) कापालिकौ—देवि चामुण्डे भगवति, नमस्ते । सावष्टम्भनिशुम्भसंभ्रमनमद्भूगोलनिष्पीडन- न्यञ्चत्कर्परकूर्मकम्पविगलद्ब्रह्माण्डखण्डस्थितिः । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्यक्तं तव क्रीडितम् ॥ २२ ॥ ज्ञापितासि दुःखं स्नेहेन । हा प्रियसखि लवङ्गिके, स्वप्नावसरमात्रदर्शनाहं ते संवृत्ता । तस्य माधवमल्लभमानाया मम संमतत्वादिति भावः । हा मालतीमयजीविते मम कल्याणसाधनैकसुखसकलव्यापारे । मत्परिणयनिष्पादनमेवैकं सुखं साध्यत्वेन फलं यस्य स तादृशः सकलो व्यापारो यस्या इति विग्रहः । भगवति कामन्दकि, चिरस्य ज्ञापितासि दुःखं स्नेहेन । मयि स्नेह एव तव दुःखहेतुर्जात इत्यर्थः । हा प्रियसखि लवङ्गिके, स्वप्नदर्शनमात्रांहं ते संवृत्ता । माधवः । हन्तेति खेदे । सत्यं प्रियतमैव बधार्थमानीता केनचिदिति मज्जीविततरोर्मूले कुठारोऽन- र्थाय व्यापारित इति भावः । 'हन्तेति हर्षे' इति व्याख्यानमसंगतम् । जीवित- सर्वस्वभूतायास्तस्या वध्यशूलारोपणसमये कोऽत्र हर्षस्यावकाशः । न च प्रिया मया मोचयिष्यत इति निश्चयस्तु तदानीमस्ति जीवनस्यैव संदिग्धत्वादत एवाह—अपि नाम जीवन्तीं संभावयेयमिति । सर्वथा तन्मरणेनापि ममापि प्राणत्यागो निश्चितः । तथापि जीवन्तीमेव तां संदर्शनसंभाषणरक्षणप्रयत्नव्या- पारैर्यदि संभावयामि तदा जीवितसाफल्यं स्यादित्याशंसा । अपि नामेति निपा- ताभ्यामपि संभावनातौत्सुक्यं द्योत्यते । यच्चात्र निपातसमुदायस्यावधारणपरत्व- मुक्त्वा जीवन्तीमेवैनां संभावयेयमिति जीवन्त्येव वर्तत इति व्याख्यानम्, तदपि प्रकृताननुगुणत्वा...हेयम् । नहीदानीमपि तस्या जीवनं निश्चितं तन्निश्चये वा संभावयेयमित्याशंसायां लिङ्शब्दः कथं घटत इत्यलम् ॥ कापालिकौ । कपालकुण्डलाघोरघण्टौ । 'पुमान्स्त्रिया' इत्येकशेषः । देवीत्यादि । रक्षोपहारं पुरतः संनिधाप्य स्तुतिनमस्कारपूर्वकं निवेदयेदिति देव्याः स्तुतिः क्रियते— सावष्टम्भेति । सावष्टम्भः सावलेपो यो निशुम्भः पादघातलक्षणपरिभवस्त- त्संभ्रमेण । 'निशुम्भनिर्भर—' इति पाठे निशुम्भेन निर्भरमतिमात्रं नमद्यद्भूगोलं भुवः संस्थानं तेन यन्निष्पीडनमत्तिभारत्वेन दुर्वहतया बहनशक्त्यवसादनं तेन न्यञ्च- न्नवनमन्कर्परः पृष्ठास्थिकटाहो यस्य तादृशस्य कूर्मस्य पृष्ठाद्विगलन्ती तत्कम्पेन स्रंसमाना ब्रह्माण्डखण्डस्य स्थितिर्यस्मिन्क्रीडिते तत्तथा । पातालस्य प्रतिमल्लयोः

अपि च । प्रचलितकरिकृत्तिपर्यन्तचञ्चन्नखाघातभिन्नेन्दुनिष्यन्दमानामृत- श्च्योतजीवत्कपालावलीमुक्तचण्डाट्टहासत्रसद्भूरिभूतप्रवृत्तस्तुति । श्वसदसितभुजङ्गभोगाङ्गदग्रन्थिनिष्पीडनोत्फुल्लफुल्लत्फणापीठनि- र्यद्विषज्योतिरुज्जृम्भणोड्डामरव्यस्तविस्तारिदोःखण्डपर्यासितक्ष्मा- धरम् ॥ ज्वलदनलपिशङ्गनेत्रच्छटाभारभीमोत्तमाङ्गाभ्रमिप्रस्तुतालातचक्र- क्रियास्यूतदिग्भागमुत्तुङ्गखद्वाङ्गशृङ्गध्वजोद्धूतिविक्षिप्ततारागणम् । प्रमुदितकटपूतनोत्तालवेतालतालस्फुटकर्णसंभ्रान्तगौरीघना- श्लेषहृष्यन्मनस्त्र्यम्बकानन्दि वस्ताण्डवं देवि भूयादरिष्ट्यै च हृष्ट्यै च नः ॥ २३ ॥ (इत्यभिनयतः ।) प्रतिभटयोः । अधोभुवनकुहरसदृशयोरित्य

: १३८ मालतीमाधवे माधवः — (विलोक्य ।) हा धिक् प्रमादम् । न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम् । सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः ॥ २४ ॥ कपालकुण्डला— तं भद्दे सर दयितोऽत्र यस्तवभू- दद्य त्वां त्वरयति दारुणः कृतान्तः । मालती— हा देव माहव, परलोअगदो वि तुब्भेहिं सुमरि- दव्वो अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि । १. हा देव माधव, परलोकगतोऽपि युष्माभिः स्मर्तव्योऽयं जनः । न खलु स उपरतो यस्य वल्लभः स्मरति । तथोत्तुङ्गस्य खट्वाङ्गस्य शिखरमेव ध्वजस्तस्योद्धूतिमिरुदूनेनैर्नििक्षिप्ता विशीर्णा- स्तारगणा यत्र तत् । तथा प्रमुदितानां कटपूतनानां पिशाचविशेषाणामुत्तालानां प्रचण्डानां वेतालानां मेतालानां च तालैः करतलद्वयास्फालनैः स्फुटत्कर्णा विदलच्छ्रवणकुहरा अत एव संभ्रान्ता या गौरी तस्या घनाश्लेषेण गाढालिङ्गनेन हृष्यन्मनसस्त्र्यम्बकस्यानन्दोऽत्रास्तीति तत्तादृशमिति दण्डकः । 'नौ रः' इति वचनात् ॥ २३ ॥ माधवः । मालतीमेव वधार्थमानीतां दृष्ट्वा हा धिगिति । प्रमादं पित्रोः कामन्दक्यादीनां चानवधानतां धिक् । यदियमनेन नृशंसेन कैरप्यनालक्षिता वधार्थमानीता वध्यवेषभूषिता चेति भावः । तदेवाह—न्य- स्तेति । न्यस्तमनुलिसमलक्तकं यस्याः सा चासौ रक्तमाल्यवसना च पापानां पापकारिणामारम्भो मारणं कर्मानयोरस्तीति तद्वतोः । पाषण्डौ बौद्धावेव चण्डालकर्मकारित्वात्तत्सहकारित्वाच्च । तयोः । 'पुमान्स्त्रिया' इत्येकशेषः । वृकयोर्व्याघ्रादिक्रूरसत्त्वयोर्मृगी हरिणीव गोचरं विषयं गता । भीरुः स्वभावेनैव । वसोर्दिवाष्टवसुष्वन्यतमसदृशस्य । यद्वा वसोमेरिव पराक्रमसंपन्नस्य देवतुल्य- स्यापि भूरिवसोरमात्यस्य सुता मृत्योर्मुखे वर्तते । हा खेदे । धिगिति । ममेतः परं जीविताशामिति शेषः । कष्टमिदमनिष्टमापतितम् । अस्तकरुणः कृपाहीनो विधेः प्रक्रम आरम्भः कोऽयम् । कथमत्यन्तानुचितमेवारब्धं दैवहतकेनेत्यर्थः । हा धिक्कष्टमनिष्टमिति पदानामतीवार्थभेदाभावेऽप्यनुकम्पातिशयद्योतनार्थत्वान्न पौनरुक्त्यशङ्केति ध्येयम् । यदाह—'अनुकम्पातिशये यदि कश्चिन्निबध्यते । न दोषः पुनरुक्त्यादौ प्रत्युतेयमलंक्रिया ॥' इति ॥ २४ ॥ कपालकुण्डला— तं भद्र इति । अत्र मरणसमये यस्तव दयितोऽभीष्टो देवोऽभूत्तं स्मर । मरणदशायामिष्टदेवतास्मरणममुत्राम्युदयायेत्यागमः । अद्येति । मृत्युः संनि- हित इत्यर्थः ॥ मालती । हा देव माधव, परलोकगतोऽपि स्मर्तव्योऽयं

पञ्चमोऽङ्कः । १२९ कपालकुण्डला—हन्त, माधवानुरक्तेऽयं तपस्विनी । अघोरघण्टः—(शस्त्रमुद्यम्य ) चामुण्डे भगवति मन्त्रसाधनादा- वुद्दिष्टामुपनिहितां भजस्व पूजाम् ॥ २५ ॥ माधवः—(सहसोपसृत्य खङ्गं प्रकोष्ठेन निक्षिप्य ।) आः कापालि- कापसद दुरात्मन्, अपेहि । प्रतिहतोऽसि । मालती—(सहसावलोक्य ।) परित्ताअदु महाभाओ । (इति माधवमालिङ्गति ।) माधवः—महाभागे, न भेतव्यम् । मरणसमये त्यक्ताशङ्कं प्रलापनिर्गल- प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते । सुतनु विसृजोत्कम्पं संप्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः ॥ २६ ॥ १. परित्रायतां महाभागः । जनो युष्माभिः देवेत्यनेन त्वमेव ममेष्टदेवतारूपः । तन्मरणदशायामपि त्वा- मेव स्मरिष्यामि । जन्मान्तरे वा त्वत्समागमो मे भूयादिति भावः । न खलु स उप- रतो यस्य वल्लभो जनः स्मरति । यस्येतीयं कर्मणि षष्ठी । प्रियतमस्मृतिगोचरस्य जनस्य निरन्तरं तन्मनसि स्थित्या नोपरतिरित्यर्थः ॥ हन्तेति विषादे । तपस्विन्य- नुकम्पार्हा । इयं माधवेऽनुरक्ता सती । तदिदानीं सोऽत्रैव महामांसस्य विक्रयार्थं पर्यटति । दैवादागत्य मोचयेद्वा तदा कष्टं मन्त्रसाधनप्रत्यूहः संभावित इति वि- षादः ॥ 'तं भद्रे' इति श्लोकस्योत्तरार्धम्—चामुण्डे भगवतीति । मन्त्रसाधन- स्याद्यावुपक्रमसमय उद्दिष्टं संकल्पितामिदानीं तत्पर्यवसान उपनिहितां समर्पितां पूजां बलोपहारं भजस्वेति ॥ २५ ॥ माधवः । खड्गं कापालिकस्योद्यतं प्रको- ष्ठेन मणिबन्धेन विक्षिप्यापसार्य । अपेह्यपसर । प्रतिहतोऽसि वैपरीत्येन त्वमेव हतोसि । मालती । परित्रायतां महाभागः ॥ माधवः । मरणसमय इति । त्यक्ताऽऽशङ्का यस्मिन्कर्मणि तत्तथा प्रलापेऽनर्थकवचोजल्पने इदानीमेवैनं संहरिष्यामीत्येवंरूपे निर्गलो निष्प्रतिरोधः । महानुभावाः खलूपकारं कुर्वन्त्येव न तु वचनपूर्वकं कुर्वन्तीति वचनस्यानर्थक्यम् । यद्यप्येवं करिष्यामीति न वक्तव्यं केवलं कर्तव्यमेव, तथापीदृश्यां दुर्दशायां प्रियायाः प्राणत्राणेन मज्जन्मनोऽतीव साफल्यमासादितमिति हर्षभरवशेन मनस्यवधारितलाघवशङ्कामपि विसृज्यान- र्थकमेव किंचित्प्रलपितमिति भावः । तथा प्रकटितो निजः सहजः स्नेहो येन सोऽयं ते सखा पुरत एव वर्तते । अतः सुतनु उत्कम्पं भयनिमित्तं वेपथुं विसृज

येथे दिलेले पृष्ठ संस्कृत नाटक मालतीमाधव चे आहे. खालीलप्रमाणे त्याचे ओळ-दर-ओळ संपूर्ण लिप्यंतरण आहे:

१३० मालतीमाधवे अघोरघण्टः—आः, क एष पापोऽस्माकमन्तरायः संवृत्तः । कपालकुण्डला—भगवन्, स एवास्याः स्नेहभूमिः कामन्दकी- सुहृत्पुत्रो महामांसस्य पणयिता माधवः । माधवः—(सास्रम् ।) महाभागे किमेतत् । मालती—(चिरादाश्वस्य ।) महाभाज, अहं वि ण आणामि एत्तिअं जाणामि । उवरिअलिन्दं एव पसुत्ता इह पडिबुद्धास्मि । तुम्हे उण कहिं । माधवः—(सलज्जम् ।) त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः । भ्राम्यन्मांसपणनाय परेतभूमा- वाकर्ण्य भीरु रुदितानि तवागतोऽस्मि ॥ २७ ॥ १

पञ्चमोऽङ्कः। १३१ मालती—(अपवार्य १) कहं मम कारणादो एव्व एदं अप्पाणि- रपेक्खं परिक्कमन्दि। माधवः—अहो नु खलु भोः, तदेतत्काकतालीयं नाम। संप्रति हि राहेश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् । १. कथं मम कारणादेवैत आत्मनिरपेक्षं परिक्रामन्ति। मनुष्यजातिवाचित्वम् । संज्ञायामिति वा ङह्प्रत्ययः ॥ २७ ॥ मालती— अपवार्येति । 'अपवारितकं कार्यं त्रिपताकेन पाणिना' इत्युक्तव्रीडाहर्षातिशय- गोपनात्मकस्य व्यभिचारिणोऽनुभावोऽपवारणम् । कथं मम कारणादेवैत आत्मनि- रपेक्षं परिक्रामन्ति । मम स्त्रीमात्रस्यैव कृते महत्कार्यमुद्दिश्य कर्तुमात्मनिरपेक्ष- मेतत्कर्म कथमनेनारब्धम् । तदत्राहमेवापराधिनो या साहसेनापि नैनं समागते- त्यहो मे दारुणं चित्तमिति भावः । माधवः । अहो नु खलु भोः । एतद्व्याख्यातं प्राक् । तदेतदिति । तदेतत्प्रियाया दर्शनं काकतालीयं नाम । दैवात्काकागमन- समये तालफलपतनसदृशमित्यर्थः । स्वरूपसिद्धिस्तु 'इवे प्रतिकृतौ' इतीवार्थप्रकरणे 'कुशाग्राच्छः' इत्यतश्छ इत्यनुवर्तमाने 'समासाच्च तद्विषयात्' इति तच्छब्देने- वार्थः परामृश्यते । इवार्थविषयात्समासादिवाऽर्थे छो भवतीति सूत्रार्थः । ननु स- मासेनेव तद्विषयेणेवार्थोभिधानात्किं प्रत्ययेनेति चेन्मैवम् । समासविषयादिवाऽर्था- दन्यस्मिन्निवार्थे प्रत्ययोत्पत्तिः । तथा हि यादृच्छिकं काकागमनं तालपतनं च । तेन पतता तालेन काकवधः कृतः । माधवस्य यदृच्छया तत्रागमनम्, मालत्या अपि तत्र तथैवागमनं च काकागमनतालपतनमिवेति विगृह्यात्सादेव वचना ज्ज्ञापकात्समासः । वृत्तिविषये च काकतालशब्दावागमनपतनक्रियावाचिनौ भवतः । ततः काकतालशब्दात्पतता तालफलेन काकवधसदृशं यदृच्छागतेन माधवेन कापालिकं हत्वा प्रियारक्षणमस्मिन्निवार्थे च्छः । काकतालीयमिवातर्कि- तोपनतं चित्रकरणमिति शब्दार्थः । सुप्सुपेति समासः । अन्यस्य विशेषवि- धानस्य चाभावास्य चैवंविधा गतिरनेकविषयत्वादित्यलम् । संप्रतीत्युपस्कारः । राहोरिति । राहोरानने चरतीत्याननचरी । ताम् । तन्मुखागतामित्यर्थः । 'चरेष्टः' इत्यधिकरण उपपदे टप्रत्ययः । टित्त्वान्डीप् । तादृशीं चन्द्रकलामिव प्रेयसीम् । प्रियशब्दात् 'द्विवचनविभज्योपपदे तरबीयसुनौ' इतीयसुन् । तस्मि- न्परतः 'प्रियस्थिर-' इत्यादिना प्रियशब्दस्य प्रैत्यादेशः । 'उगितश्च' इति ङीप् । दैवाद्यदृच्छया समासाद्य प्राप्य दस्योरश्वोरख्यास्य कापालिकापसदस्य कृपाणपात- विषयात्तत्खङ्गपतनगोचरादाच्छिन्दतः प्रसद्यापहरतो मे मम चेत आह्लादकत्व- मियं राहोरिवातिक्रूरस्य दस्योः कृपाणपातविषयमिन्दुकलेव सौकुमार्यातिशय-

११२ मालतीमाधवे आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया- त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते ॥ २८ ॥ शालिनी प्रियतमा प्राप्ता । यदि मम क्षणमात्रमितः परं विलम्बोऽभविष्यत्, महfilter/अनर्थ आपत्स्यत इत्येवंरूपाद्भयानक रसस्थायीभावात् । 'भयं चित्तस्य वैक्लव्यं रौद्रसंज नितं विदुः' इत्युक्तलक्षणाद्भयाद्विकलमितिकर्तव्यतामूढम् । तथा करु- णया क्षणव्यवधानेऽपि परासुरेवेयं तन्मृतेव पुनरुत्पन्नेवेयं प्रियायास्तादृगवस्था- विभावनाजनितया करुणया शोकरसस्थायीभूतया द्रुतं विलीनम् । तथा विस्म- यादहो दैवविलसितस्याचिन्त्यमहिमत्वं यदद्यैव महामांसविक्रयार्थमागमनं तत्रैव काकतालीयन्यायेनेहागमनं प्रियासंप्राप्तिरिति महदिदं चित्रमित्येवंरूपादद्भुत- रसस्थायिनः 'विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः' इत्युक्तलक्षणाद्विक्षोभितं जनिताद्भुतरसम् । तथा क्रोधेन कथमयं पापकारी निरपराधिनीं त्रिभुवनरत्न- भूतामिमामपीदानीं हन्तुं समुद्यतः, तस्मादवश्यमेष हन्तव्य इत्येवंरूपाद्रौ- द्ररसस्थायिना 'प्रतिकूलेषु तैक्ष्ण्यस्य प्रकर्षः क्रोध इष्यते' इत्येवंलक्षणेन ज्वलितं रौद्ररसेनोद्दीपिनम् । तथा मुदा मत्प्राणेभ्योऽपि गरीयसीं प्रियां परिरक्ष्य कृतार्थो भवामीत्यादिबहुप्रकारया रत्या मनःप्रसादरूपया प्रधानशृङ्गाररसस्थायिन्या विकसितं रसास्वादेन विस्तारमुपगतम् । कथं केन प्रकारेण वर्तते । कथंचिद्दे- तादृशी दशास्येति निरूपयितुं न शक्यत इति भावः । अत्र च प्रबन्धप्रवृत्ता माधवस्य मालतीगोचरा रतिः प्रेयसीमिति निर्दिनेनालम्बनविभावेन विभाव्यमाना तदवलोकनादिभिरुद्दीपिता मनोविकासप्रियवचनतद्रक्षणव्यापारादिभिरनुभावैर्वा- ङ्मनःशरीरारम्भरूपैरनुभाव्यमाना तद्दर्शनजनितैर्मदश्र महर्षचिन्तास्मृत्यादिभिर्व्य- भिचारिभिरुपचिता रसतामापन्ना प्राधान्येन ध्वन्यते । तदङ्गतया तु राहोराननचरीं चन्द्रकलामिवेत्युपमासूचितभीषणाकारकापालिकालम्बनस्तत्स्वरूपविभावनोद्दीपित आतङ्कपदनिर्दिष्टभयस्थायी विकलपदसूचितमनोवैक्लव्यतदनुगुणशरीरवागारम्भा- नुभावस्तन्नियत कम्पशङ्कानिर्वे दग्लानिजाड्यदीनतावेगविषादोन्मादचिन्तामोहादि- भिर्व्यभिचारिभिः प्रतीयमानैरुपचितो भयानक रसः । तथा दस्योः कृपाणपा- तविषयादिति सूचितमृतप्रायप्रियतमालम्बनस्तद्दुर्दशापरिभावनोद्दीपितः करुणयेति निर्दिष्टः शोकस्थायीभावो द्रुतमिति निर्दिष्टचित्तद्रवीभावतदुचितशरीरवागारम्भा- नुभवतन्नियताश्रुवैवर्ण्य वैस्वर्यजाड्यवेगमोहोन्मादविषादादिभिर्व्यभिचारिभिः प्र- तीयमानैः परिपोषं गतः करुणरसश्च । तथा दैवादासाद्येति सूचितयादृच्छिकसमा- गमालम्बनतद्धेतुविधिवैचित्र्यपरिशीलनोद्दीपितो विस्मयादिति निर्दिष्टोऽद्भुतस्थायी- भावो विक्षोभितमिति मनोविक्षोभतदुचितशरीरवागारम्भानुभावस्तन्नियतस्तम्भ- प्रलयस्वेदहर्षगर्वस्मृतिवितर्कविबोधचिन्तादिभिर्व्यभिचारिभिरुपचितोऽद्भुतरसश्च । तथाच्छिन्दत इति सूचितः प्रियावधोद्यतो हन्तव्य इत्यालम्बनस्तद्वीरात्मविम- र्शनोद्दीपितो ज्वलितमिति मनोज्वलनतदुचितवागारम्भानुभावतन्नियतस्तम्भरो- माञ्चस्वेदहर्षावेगभ्रमोन्मादमदहर्षचापल असूया श्रमामर्षादिभिर्व्यभिचारिभिः सर्वत्र कथं वर्तत इत्यनेन सूचितैरुपचितो रौद्ररसश्चैते रसा अङ्गभावापत्तयैव दूरतो

अघोरघण्टः—अरे ब्राह्मणडिम्भ, व्याघ्राघातमृगीकृपाकुलमृगन्यायेन हिंसारुचेः पाप प्राण्युपहारकेतनजुषः प्राप्तोऽसि मे गोचरम् । सोऽहं प्राग्भवतैव भूतजननीमृध्नोमि खड्गाहति- व्यस्तस्कन्धकबन्ध रन्ध्ररुधिरप्राग्भारनिष्यन्दिना ॥ २९ ॥ माधवः—आः दुरात्मन्पाखण्डचण्डाल, असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । निरस्तपरस्परविरोधाः प्रधानरसापेक्षयाऽविरोधाः । प्रधानरसपरिपोषापेक्षयान्यू- नरसपरिपोषत्वेन श्लाघनीयौचित्यनिबन्धना व्यतिकराह्वयया शोभनाह्वयया च मेलनगत्या शृङ्गारेण सह संकीर्त्यन्ते । यथाह—'समकालसमुत्पन्नैस्त्रिभिर्द्वाभ्या- मथापि वा । रसैश्चेद्यतिकीर्येत समव्यतिकरः स्म

१४४ मालतीमाधवे अदपं कंदर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३० ॥ व्यवसायक्रियायाः सर्वत्रान्वयात्क्रियादीपकं च वाच्यालंकारौ । चन्दनचामीक- रादीनां न वस्तुतः सारत्वम्, किंतु पामरजनप्रसिद्धयैव । इयमेव सारभूतेत्यपह्नवः, सर्वसारवस्तूपमानानि यानि तेभ्योऽपि सारभूतेयमेवेति व्यतिरेकश्च व्यङ्ग्याविति सर्वत्र द्रष्टव्यम् । तथा त्रिभुवनं त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'पात्रा- दिभ्यः प्रतिषेधो वक्तव्यः' इति वचनात् 'द्विगोः' इति ङीप् भवति । परिमुषितं लुण्ठितं रत्नं यस्य तत्कर्तुम् । सत्स्वपि कौस्तुभकनकादिषु न ते रत्नवत्त्रिभुवनम् । न च तानि वस्तुनो रत्नानि । अविवेकिनां तु तत्र रत्नत्वव्यपदेशः समीचीनव- स्तूपमानत्वप्रसिद्धिश्च । इयमेव त्रिभुवनस्य सकलरत्नातिशायिगुणशालिन्येकं रत्नमिति निगीर्याध्यवसानम् । तां हन्तुं प्रवृत्तः रत्नशून्यमेव जगत्कर्तुं प्रवृत्तोऽसी- त्यर्थः । अलंकारयोगः पूर्ववत् । तथा लोकं प्रमाणषट्कपथपथिकं प्रपंचं निरालोकं प्रकाशशून्यं केवलमन्धकाराक्रान्तं कर्तुम् । न खलु सौरादिभिरालोकैः सालोकोयं लोकः । तेषां जडरूपाणां प्रकाशान्तरप्रकाश्यत्वेनाभासत्वात् । अनयैव पुनरानन्दै- करससंविन्मयप्रकाशात्मिकया त्रिभुवनभवनलोकोत्तररत्नप्रदीपकलिकया समुद्भा- सितोऽयं ससूर्यचन्द्रादितेजस्को लोकः । तदिमां निर्वापयितुकामः जगदन्धं कर्तु- कामोऽसीत्यर्थः । तथा बान्धवजनं सकलमपि बन्धुवर्गमेतदेकजीवितं मरणमेव शरणमेतद्विपत्तिजनितशोकनिराकरणसमर्थं यस्य तत्तादृशं कर्तुम् । इदं चावान्तर- वाक्यं सहचरभिन्नम् । इह हि महावाक्यरूपे श्लोकोऽसारं संसारमित्यादिभिर- वान्तरवाक्यैर्मालत्याः सकललोकातिशायिलावण्यादिगुणशालित्वेन सर्वपदार्थो- त्कर्षत्वं तदन्वयव्यतिरेकाभ्यामेव लोकस्योपादेयत्वान्वयव्यतिरेकौ चेत्येतावद्भङ्गि- वैचित्र्येण प्रौढोक्तियुक्त्या च निरूप्यते । तत्र चानेन वाक्येन मालत्या उत्कर्षो न प्रतिपाद्यते । बान्धवा हि काणकुब्जदुःशीलापत्यनाशेऽपि मरणशरणा भवन्ति न च तदन्वयाल्लोकस्योपादेयता कदाचित् । नापि तद्व्यतिरेकादनुपादेयत्वम् । बहुतरश्रेष्ठवस्तुप्रचुरत्वादेव तदुपादानसिद्धेः । तत्तद्यावदुत्कर्षप्रतिपादकवाक्य- मध्ये तद्विजातीयतया सहचरैर्भिन्नं तन्निकृष्टत्वाद्विरुद्धमिदं वाक्यं षाण्मासि- कमुक्ताफलप्रथितहारलतामध्ये बराटिकेव नायकत्वेन निवेशनं नार्हति प्रक- मभङ्गश्च स्यात् । प्रक्रान्तातिशयोक्त्याद्यलंकाराणामुपर्युपरि निबद्धानामकाण्डे विच्छेदात् । केचित्तु जनमित्युदासीनवाचिना जनशब्देन माधवः प्रेयसीवि- नाशदुःखोत्तारोपायान्तरमपश्यन्तं मरणमेव तदुपायत्वेनाधिगच्छन्तमात्मानं निर्दिशति । तेन तन्नाशे स्वस्य मरणमेवेति तल्लावण्यातिशयप्रकाशनान्नोक्तदोष इति व्याचक्षते । तदसत् । बान्धवजनमित्युक्ते स्वनिर्देशस्य कथंचिदप्यप्रतीतेः प्रतीतो वा नैतावता तस्या उत्कर्षः । सर्वो रागान्धः सहृदयाभिमतमेव वस्त्व- धमभूतमपि सर्वलोकोत्तरमित्यभिमन्यते । तथा हि—'या यस्याभिमता लोके सा तस्याधिकरूपिणी' इति । अत एव चक्रवाकोऽपि स्वप्रियाविरहे जगदेव शू-

अपि च रे रे पाप, प्रणयसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहणनैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ३१ ॥ न्यामाकलयंस्तानेव लोकोत्तरसौन्दर्यशालिनीं मन्यत इति तिर्यक्ष्वपि प्रसिद्धम् । न चात्रापि माधवाभिमानमात्रसिद्धमेव तस्या लोकोत्तरत्वमिति वाच्यम् । मा भूत् प्रबन्धरसास्वादयितॄणां सहृदयानामन्यथाभावप्रतीत्यानीविस्रंसफुरणाह्लादास्वाद- भङ्गः । न च स्वाभिमानेन तस्याः श्लाघ्यत्वेऽपि न तावता तत्सत्त्वासत्त्वाभ्यां जगतोऽस्ति कश्चिद्विशेष इत्युपेक्षणीयमेवैतत् । अतो 'विधिविलसितं सर्वम- फलम्' इति पठनीयमिति कुन्तकप्रभृतयः काव्यतत्त्वज्ञाः सहृदयाः । एवं हि नावद्यलेशोऽ