मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 128, कुल 377 में से
संदर्भ में पढ़ें१२२ मालतीमाधवे उत्पक्वशंसि मांसं प्रचलदुभयतः संधिनिर्मुक्तमारा- देते निष्कृष्य जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति ॥१७॥ (विहस्य ।) अहो, प्रादोषिकः प्रमोदः पिशाचानाम् । आन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब- न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १८ ॥ तो गलत्संसमानं मेदो येषां तानेवंविधान्संसक्तधुमांश्चितासु दह्यमानान्प्रेतका- यान्भूयसीभ्यश्चिताभ्यो मृतशरीरदहनेन्धनराशिभ्यः कृष्ट्वाकृष्य । उत्पक्वमुक्त- र्वेण पक्वमत एव संसि विगलन्मांसं यस्य तत् । प्रचलत्कायात्पृथक्त्वेन खतश्च- कियम् । उभयतो मूलाग्रभागयोर्यौ संधी ताभ्यां तयोर्वा निर्मुक्तं जङ्घानलकं जङ्घाकाण्डमारात्समीपे निष्कृष्य शरीरात्पृथकृत्य । 'निक्षूष्य' इति पाठे प्रथमं द्रवीभूतगलन्मांसत्वान्मेदादिवच्चूषणं कृत्वा पश्चात्तत उदयिनीर्निर्प्रतिबन्धं निः- सरन्तीर्मज्जधारा अस्थिसुषिरपूरकधातुविशेषधाराः पिबन्ति । निःशब्दपानासे- चनमित्यत्रासेचनमीषत्सेचनं तद्व्यतिरिक्तेनासेचनेनेषत्त्वविधानान्निष्ठायन इति पलम् । 'निष्ठप्तं रक्षः' इत्यादौ निःशेषतापस्यैव विवक्षितत्वात् । पूर्वश्लोके मांसभक्षणस्योक्तत्वादत्र पानक्रियावर्णनेनः बीभत्सरसपरिपोषः ॥ १७ ॥ प्रादो- षिक इति । रजनीमुखसमुद्भूतः प्रमोदः प्रकृष्टो हर्षः । तेषां रात्रिचरत्वात्प्र- दोषसमये प्राप्ते युक्तः प्रमोद इति भावः । आन्त्रैरिति । पूर्वं पिशाचवृत्तान्त इदानीं समृद्धवधूकानां तेषां विजृम्भणमुच्यते । आन्त्रैः कल्पिता मङ्गलार्थं प्रतिसरा रक्तसूत्रादिनिर्मितवलया यासां ताः । स्त्रीणां मृतानां हस्ता एव रक्तो- त्पलानि तान्येव व्यक्तान्युत्तंसानिबिभ्रतीति तथोक्ताः । शोणितपङ्क एव रुधिर- कर्दम एव कुङ्कुमं तज्जुषन्ति सेवन्त इति तथाभूताः पिशाचाङ्गनाः सहसा हृद्भिरेव पुण्डरीकैः कृतस्रजः । 'पिनह्य शिरसा' इति पाठे स्वकीलेन शिरसा धृत्वा । एवमलंकृताः कान्तैः समं कपालैः शवशिरःकरोटिभिरेव चषकैः पान- पात्रैरस्थिस्नेहमज्जन्येव सुरां प्रीताः सत्यः पिबन्तीत्येकदेशवर्तिसावयवं रूपकम- लंकारः । पिशाचानां संभोगनायकत्वस्य तदङ्गनानां तन्नायिकात्वस्य च श्रुत्या- रोपणाभावादार्थप्रतीतेः । यदाह- 'तद्रूपकममेदो य उपमानोपमेययोः' इति । 'श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत्' इति च 'आन्त्रैः कल्पितमङ्गलप्रतिसरः' इत्यत्र तु परिणामः । आन्त्रप्रतिसरत्वस्य प्रकृतोपयोगित्वेनारोपणात् । यथाह- 'आरोप्यमाणस्य प्रकृतस्योपयोगित्वे परिणामः' इति । 'आरोप्यमाणमारोपविषयात्म- तया स्थितम् । प्रकृतस्योपयोगित्वात्परिणाम उदाहृतः ॥' इति । प्रकृतोपयोगित्वा- दित्यनेन रूपकाद्भेद उक्तः । तत्र प्रकृतेनोपरञ्जकमारोप्यमाणस्य । अत्र तु तदुप- योगित्वमात्रमिति । अत्र प्रियतमैः सह मधुपानप्रवृत्तस्रक्वन्दनाद्यलंकृतना-