मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 130, कुल 377 में से
संदर्भ में पढ़ें१२४ मालतीमाधवे अन्तःकीर्णकरङ्ककर्परतरत्संरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ १९ ॥ (नेपथ्ये ।) हां ताद णिकरुण, एसो दाणिं दे णरेन्दचित्ताराहणोवअरणं जणो विपज्जइ । माधवः—(साकूतमाकर्ण्य ।) नादस्तावद्विकलकुररीकूजितस्निग्धतार- श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति । अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं गात्रस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत् ॥२०॥ १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । रणशब्दस्तेन भृतो भरणशीलः प्राग्भारस्तेन भौमैर्भीषणैस्तटैरुपलक्षितः । तथा- न्तःकीर्णानां करङ्काणां निर्मांसास्थिपञ्जरशवशरीराणां यानि कर्पराणि कपालानि तेषु तरदत एव संरोधोऽस्त्यास्तीति संरोधि तत् एवैकदेशे सङ्घीभूय वेगातिशयेन प्रवहणात्कूलंकषं तटभेदकम् । 'सर्वकूलाभ्रकरीषेषु कषः' इति खच्मुमागमश्च । तादृशं यत्स्रोतस्तस्य निर्गमस्तेन घोरो भीषणस्तथाविधो घर्घरः श्रवणकटू रवो यस्याः सा तादृशीति । अत्रोल्कादिभी रसाभावेऽपि वाच्यायाः सरितो भीषण- त्वातदनुगुणा परुषवृत्तिरिति द्रष्टव्यम् ॥ १९ ॥ नेपथ्ये इति । इत्थं वाणी समुत्थितेति शेषः । हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । तात, जनक एवासि केवलम्, न तु जनकानुरूपव्यापारोऽसीति भावः । अतो निष्करुणो मयि कृपारहितो माधवाय मामदत्त्वा नन्दनाय प्रयच्छता त्वयैवाहं निष्करुणेन मारिता । भ्रमस्तु मरणस्य केवलं व्यपदेशभाक् । अन्यथा मरणस्य निश्चितत्वादिति भावः । एष इत्यात्मनिर्देशः । जनो यः कश्चिज्जन्तुरित्येव मयि बुद्धिः न त्वपत्यमिति स्नेहलेशोऽपीति भावः । नरेन्द्रस्य चित्तानुरञ्जनोपकरण- द्रव्यतयैवाहं त्वोपयुक्ता मणिसुवर्णादिवत् । न तु पुनरात्मजेत्याद्यत्र द्रष्टव्यम् ॥ माधवः । साकूतं साभिप्रायम् । नाद इति । विकला भयोद्विग्ना या कुररी क्रौञ्चवधूस्तस्याः कूजितवत्स्निग्धो मसृणस्तारश्च मालतीध्वनिरिव चित्ताकर्षी मनो- हार्ययं नादस्तावत्प्रथमं परिचित इव पूर्वमनुभूत इव श्रोत्रसंवादं पूर्वं व्याघ्राव- स्कन्दनसमये मकरन्दविपत्तिविह्वलाया मालत्या यो ध्वनिर्मयानुभूतः स एवाय- मिति प्रत्यभिज्ञागोचरत्वमेति गच्छति किंच नादश्रवणानन्तरं मदीयं हृदयमन्त- र्मध्ये भिन्नं विदीर्णं सद्भ्रमत्यनवस्थितं वर्तते । तथाङ्गमङ्गं सर्वमप्यवयवजातं पाणि- पादादिकं विह्वलति विषण्णं भवति । तथा गात्रस्य महावयविनः शरीरस्य स्तम्भो