भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 130, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 130

१२४ मालतीमाधवे अन्तःकीर्णकरङ्ककर्परतरत्संरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ १९ ॥ (नेपथ्ये ।) हां ताद णिकरुण, एसो दाणिं दे णरेन्दचित्ताराहणोवअरणं जणो विपज्जइ । माधवः—(साकूतमाकर्ण्य ।) नादस्तावद्विकलकुररीकूजितस्निग्धतार- श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति । अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं गात्रस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत् ॥२०॥ १. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । रणशब्दस्तेन भृतो भरणशीलः प्राग्भारस्तेन भौमैर्भीषणैस्तटैरुपलक्षितः । तथा- न्तःकीर्णानां करङ्काणां निर्मांसास्थिपञ्जरशवशरीराणां यानि कर्पराणि कपालानि तेषु तरदत एव संरोधोऽस्त्यास्तीति संरोधि तत् एवैकदेशे सङ्घीभूय वेगातिशयेन प्रवहणात्कूलंकषं तटभेदकम् । 'सर्वकूलाभ्रकरीषेषु कषः' इति खच्मुमागमश्च । तादृशं यत्स्रोतस्तस्य निर्गमस्तेन घोरो भीषणस्तथाविधो घर्घरः श्रवणकटू रवो यस्याः सा तादृशीति । अत्रोल्कादिभी रसाभावेऽपि वाच्यायाः सरितो भीषण- त्वातदनुगुणा परुषवृत्तिरिति द्रष्टव्यम् ॥ १९ ॥ नेपथ्ये इति । इत्थं वाणी समुत्थितेति शेषः । हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । तात, जनक एवासि केवलम्, न तु जनकानुरूपव्यापारोऽसीति भावः । अतो निष्करुणो मयि कृपारहितो माधवाय मामदत्त्वा नन्दनाय प्रयच्छता त्वयैवाहं निष्करुणेन मारिता । भ्रमस्तु मरणस्य केवलं व्यपदेशभाक् । अन्यथा मरणस्य निश्चितत्वादिति भावः । एष इत्यात्मनिर्देशः । जनो यः कश्चिज्जन्तुरित्येव मयि बुद्धिः न त्वपत्यमिति स्नेहलेशोऽपीति भावः । नरेन्द्रस्य चित्तानुरञ्जनोपकरण- द्रव्यतयैवाहं त्वोपयुक्ता मणिसुवर्णादिवत् । न तु पुनरात्मजेत्याद्यत्र द्रष्टव्यम् ॥ माधवः । साकूतं साभिप्रायम् । नाद इति । विकला भयोद्विग्ना या कुररी क्रौञ्चवधूस्तस्याः कूजितवत्स्निग्धो मसृणस्तारश्च मालतीध्वनिरिव चित्ताकर्षी मनो- हार्ययं नादस्तावत्प्रथमं परिचित इव पूर्वमनुभूत इव श्रोत्रसंवादं पूर्वं व्याघ्राव- स्कन्दनसमये मकरन्दविपत्तिविह्वलाया मालत्या यो ध्वनिर्मयानुभूतः स एवाय- मिति प्रत्यभिज्ञागोचरत्वमेति गच्छति किंच नादश्रवणानन्तरं मदीयं हृदयमन्त- र्मध्ये भिन्नं विदीर्णं सद्भ्रमत्यनवस्थितं वर्तते । तथाङ्गमङ्गं सर्वमप्यवयवजातं पाणि- पादादिकं विह्वलति विषण्णं भवति । तथा गात्रस्य महावयविनः शरीरस्य स्तम्भो