भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 143, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 143

(नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।) भो भो मालत्यन्वेषिणः, इयममात्यभूरिवसुमाश्वासयन्त्यप्रति- हतप्रज्ञाचक्षुर्भगवती कामन्दकी समादिशति, पर्यवष्टभ्यतामेतत्क- रालायतनम् । नाघोरघण्टादन्यस्सात्कर्मैतद्दारुणाद्भूत । न करालोपहाराच्च फलमन्यद्विभाव्यते ॥ ३३ ॥ कपालकुण्डला—भगवन्, पर्यवष्टब्धाः स्मः । अघोरघण्टः—संप्रति विशेषतः पौरुषस्यावसरः । मालती—१हा ताद, हा भअवदि । माधवः—भवतु बान्धवसंस्थामेनां विधाय तत्समक्षमेनं व्या- पादयामि । (मालतीमन्यतः प्रेषयन्परिक्रामति ।) (माधवाघोरघण्टावन्योन्यमुद्दिश्य ।) आः, रे रे पाप, कठोरास्थिग्रन्थिव्यतिकरघणात्कारमुखरः [L1