मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 144, कुल 377 में से
संदर्भ में पढ़ें१३८ मालतीमाधवे निरातङ्कः पङ्केष्विव पिशितखण्डेषु निपत- न्नसिर्गात्रंगात्रं सपदि लवशस्ते विकिरतु ॥ ३४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे पञ्चमोऽङ्कः । जाते— रे रे इति । कठोरेति । कठोराः कठिना येऽस्थिग्रन्थयः कीकसकूटानि तैः सह व्यतिरेकेण तदभिघातेन जनितो यो घणात्कारोऽनुकरणशब्दस्तेन मुखरः तथा खराणां स्नायूनां छेदेन क्षणमात्रं जनितो वेगस्य व्युपरमो विश्रा- न्तिर्यस्य सः । तथा पिशितखण्डेष्वस्थिस्नायुरहितेषु मांसखण्डेषु पङ्केष्विव निरा- तङ्को निष्प्रतिरोधो निपतन्नेवंविधोऽसिः सपदि ते गात्रं गात्रं प्रत्यङ्गं लवशः खण्डशः कृत्वा विकिरतु दिक्षु विक्षिपतु । बीभत्सोपस्कृतो रौद्ररसो व्यज्यते ॥ ३४ ॥ प्रत्यक्षयुद्धवर्णनस्य निषिद्धत्वान्नोक्तम् । तत्फलमग्रे सूचयिष्यते । यदुक्तम्— 'दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥' इति ॥ ३४ ॥ युद्धार्थं निष्क्रान्ताः ॥ यथामति मयाख्यातो भवभूतेरिहाशयः । तत्सर्वार्थपरिज्ञाने समर्थास्तु सचेतसः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावदीपिकायां पञ्चमाङ्कविवरणम् ॥