मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 146, कुल 377 में से
संदर्भ में पढ़ें१४० मालतीमाधवे चित्रं नानावचननिवहैश्चेष्टतां मङ्गलेभ्यः प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः ॥ २ ॥ यावच्च संबन्धिनो न परापतन्ति तावद्द्रुतसया मालत्या नगरदेव- तागृहविभ्रममङ्गलाय गम्यतामित्यादिशति भगवती कामन्दकी । अन्यच्च गृहीतविशेषमण्डनः प्रतीक्ष्यतामानुयात्रिको जन इति । कपालकुण्डला—भवतु । इतो मालतीविवाहपरिकर्मसत्वरप्र- तिहारजनसहस्रसंकुलात्प्रदेशादपक्रम्य माधवापकारं प्रत्यभिनिविष्टा भवामि । (इति निष्क्रान्ता ।) इति शुद्धविष्कम्भः । कलहंसः—(प्रविश्य ।) आणत्तोम्हि णअरदेवदागब्भगहरवट्टिणा मअरन्दसणाहेण माहवेण जाणीहि दाव इदोमुहं प्पउत्ता मालदी ण वेत्ति । ता जाव णं आणन्दिस्सं । १. आज्ञप्तोऽस्मि नगरदेवतागर्भगृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तथावदेनमानन्दयिष्यामि । ध्वम् । विप्राश्च श्रुतेः श्रवणस्य सुभगं यथा स्यात्तथा पठन्तु । आशीर्वादमन्त्रा- निति शेषः । नानावचननिवहैः संस्कृतप्राकृतादिनानाभाषाविशेषैः सहितं चित्र- माश्चर्यकारि गीतवाद्यनृत्तादिकं मङ्गलेभ्यो मङ्गलार्थम् । तादर्थ्ये चतुर्थी । चेष्टतां व्याप्रीयताम् । ततो जन्यानां वरसंबन्धिनां जनानाम् । 'जन्याः स्निग्धा वरस्य ये' इत्यमरः । यात्राया वरगृहद्वधूगृहगमनक्रियायाः प्रवेशः प्राप्तिस्त्वरयति । त्वरां जनयतीत्यर्थः ॥ २ ॥ न परापतन्ति न समागच्छन्ति । गृहीतं सविशे- षमण्डनं येन । सम्यगलंकृत इत्यर्थः । आनुयात्रिको मालत्या अनुचरो जनः प्रतीक्ष्यतां परिपाल्यताम् । शीघ्रमाहूयतामित्यर्थः । यद्वानुयात्रिको वरानुगामी तत्सुहृज्जनः । गृहीतं सविशेषमण्डनमाभरणवस्त्रादिकं यस्मात्स तादृशः प्रतीक्ष्य- तामभ्युद्गमनादिना संभाव्यतामिति ॥ कपालकुण्डला—भवत्वित्यादि । तेन नेदानीं मालत्यपहरणं शक्यमिति भावः । आकुलाज्जनसंमर्दान्माधवस्याप- कारो मालत्यपहरणरूपस्तं प्रत्यभिनिविष्टा दृढतरप्रयत्ना भवामि । इति निष्क्रा- न्ता । इति शुद्धविष्कम्भः ॥ कलहंसः । आज्ञप्तोऽस्मि नगरदेवताया गर्भ- गृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तथावदेनमानन्दयिष्यामि । इतोमुखं प्रवृत्ता मालतीति प्रियनिवेदने- नेति शेषः । अनेन वाक्येन माधवमकरन्दयोः कृत्रिमपरिणयार्थं छद्मना नगर- देवतागर्भगृहे पूर्वमेव प्रविश्य निलीयावस्थानसूचनादभूताहरणं नाम गर्भ-