मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 147, कुल 377 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । २४१ (ततः प्रविशतो माधवमकरन्दौ ।) माधवः— मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् । अद्यान्तः खलु सर्वथास्य मदनायासप्रबन्धस्य मे कल्याणं विदधातु वा भगवतीनीतिर्विपर्य्येतु वा ॥ ३ ॥ मकरन्दः—कथं भगवत्याः सा मेधाशक्तिर्विपर्य्येष्यति । कलहंसः—(उपसृत्य ।) १णाह, दिट्ठिआ वड्ढसि । पउत्ता खु इदोमुहं मालदी । माधवः—अपि सत्यम् । मकरन्दः—किमश्रद्दधानः पृच्छसि । न केवलं प्रवृत्ता प्रत्या- सन्ना च वर्तते । तथा हि । अस्माकमेकपद् एव मरुद्विकीर्ण- जीमूतजालरसितानुकृतिर्निनादः । १. नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती । संध्यङ्गमुक्तम् । यथा—'अभूताहरणं तस्याद्वाक्यं यत्कपटाश्रयम्' इति । इद- मेव तयोः प्रवेशकं च ॥ माधवः—मालत्या इति । मदनायासप्रबन्धस्य सरव्यथानुबन्धस्य सर्वथाद्य खल्वितो मालतीलाभान्यतरकोटिपरिच्छेदेन पर्यव- सानं भविष्यतीत्येष तत्त्वार्थकीर्तनान्मार्गो नाम गर्भसंधेरङ्गमुक्तम् । यथा— 'तत्त्वार्थकीर्तनं मार्गः' इति । कथमत्रान्यतरकोटिपरिच्छेद इत्यपेक्षायां भग- वतीप्रयुक्तोपायसिद्ध्यासद्धिभ्यामित्याह—भगवत्याः कामन्दक्या नीतिः कृत्रिम- विवाहरूप उपाये कल्याणं मालतीपाणिग्रहणरूपं वा विदधातु । तथा सति तत्प्राप्त्यैव मदनायासस्यान्तो भविष्यति । अथवा मद्भाग्यवैकल्याद्विपर्यंतु विप- रीता भवतु । तथापि प्रयुक्तोपायभङ्गादुपायन्तराभावाच्च तदलाभनिश्चये ध्रुवं मम विपत्तिरित्याश्रयान्तराभावादेव मदनायासस्यान्तो भविष्यतीत्यर्थः । कीदृ- शस्य मदनायासस्येत्यपेक्षायां तावदाह—मालत्याः प्रथमदर्शनक्षणादारभ्य विस्तारिणः प्रवर्धमानस्य । तथा मृगदृशस्तस्याः स्नेहसूचकैर्विचेष्टितैः साभिप्राया- वलोकनादिभिः परां निरतिशयां कोटिं प्रकृष्टतां नीतस्येति योज्यम् । एषा प्राप्त्याशा नाम तृतीया कार्यावस्था । यथा—'उपायापायचिन्ताभ्यां प्राप्त्याशा प्राप्तिसंभवः' इति ॥ ३ ॥ मकरन्दः । विपर्येष्यति विपरीता भविष्यति ॥ कलहंसः । नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती । माधवः । अपि सत्यं किं सत्यमितोमुखं प्रवृत्तेत्यसंभावयतः प्रश्नः ॥ मकरन्दः। अश्रद्दधानो विश्वासरहितः । अस्माकमिति । महता प्रबलपवनेन विकीर्णं विशकलीतं