भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 148, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 148

१४२ मालतीमाधवे गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरश्रवणशक्तिमपाकरोति ॥ ४ ॥ तदेहि । जालमार्गेण पश्यामः । (तथा कुर्वन्ति ।) कलहंसः—णाह, पेक्ख । इमे दाव उप्पडिअराअहंसविब्भ- माभिरामचामरसमीरणुव्वेलिअकदलिआवलीतरङ्गिदुत्ताणगणअङ्गणस- रोणिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्दो मङ्गलधवलातपत्तणिवहा दीसन्ति । इमाओ सविलासकवलिअतम्बूलाहिपूरिअकवोलमण्डला- भोअवइअरक्खलिअमहुरमङ्गलगिअबद्धकोलाहलेहिं विविहरणा- लंकारकिरणावलीविडम्बिअमहेन्दचापविच्छेदविच्छुरिअणहत्थलेहिं वारसुन्दरीकदम्बएहिं अज्झासिआओ कणन्तकणअंकिंकिणीरणिअ- झणझणकारिणीओ करिणीओ । १. नाथ, पश्य । इमे तावदुत्पतितराजहंसविभ्रमाभिरामचामरसमीरणो- द्वेलकदलिकावलीतरङ्गितोत्तानगगनाङ्गणसरोनिरन्तरोद्दण्डपुण्डरीकविभ्रमं व- हन्तो मङ्गलधवलातपत्रनिवहा दृश्यन्ते । इमाः सविलासकवलितताम्बूलाभिपू- रितकपोलमण्डलाभोगव्यतिकरस्खलितमधुरमङ्गलोद्गीतबद्धकोलाहलैर्विविधरत्ना- लंकारकिरणावलिविडम्बितमहेन्द्रचापविच्छेदविच्छुरितनभःस्थलैर्वारसुन्दरीक- दम्बकैरध्यासिताः क्वणत्कनककिंकिणीरणितझणझणत्कारिण्यः करिण्यः । यज्जीमूतजालं तद्वत्सितानुकारी गम्भीरो यो मङ्गलार्थ मृदङ्गसहस्रजन्मा निनादः सोऽस्माकमेकपद् एव स्वव्यतिरिक्तशब्दश्रवणसामर्थ्यं निरस्यति । मत् समीपमाग- च्छेत्यर्थः ॥ ४ ॥ कलहंसः । नाथ, पश्य । इमे तावन्मङ्गलधवलातपत्रनिवहा दृश्यन्त इत्यन्वयः । कीदृशाः । उत्पतितानां राजहंसानां विभ्रमेणेव विभ्रमेणाभि- रामाणां चामराणां समीरणेनोद्वेलोर्ध्वं चरन्ती या कदलिकावली पताकापंक्तिस्तया तरङ्गितं संजाततरङ्गं यदुत्तानं गगनाङ्गणं नभोभाग एव सरस्तत्र निरन्तराणां सान्द्राणामुद्दण्डपुण्डरीकाणां यो विभ्रमस्तं वहन्तो बिभ्राणाः । अत्र गगनाङ्गण- स्योत्तानत्वं गाम्भीर्यद्योतनार्थम् । गम्भीरे सरसि पुण्डरीकाणामुद्दण्डकाण्डा भवन्ति नान्यत्र । सविलासेति । सविलासं कवलितेन ताम्बूलेनाभिपूरितस्य कपोल- मण्डलस्याभोगेन विस्तारेण यो व्यतिकरः संपर्को गीताक्षराणां तेन स्खलितं यन्मधुरं मङ्गलार्थमुद्गीतं गौरीकल्याणादि गानं तेन बद्धः कोलाहलो येन तैः । विविधानां रत्नालंकाराणां किरणावलीभिर्विडम्बिता अनुकृता ये महेन्द्रचापविच्छे- दास्तैर्विच्छुरितं व्याप्तं नभःस्थलं गगनस्थलं येषां तैर्वारसुन्दरीकदम्बकैरध्यासिताः