मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 153, कुल 377 में से
संदर्भ में पढ़ेंकामन्दकी—लवङ्गिके, प्रविश त्वमभ्यन्तरं वत्सया मालत्या सह। लवङ्गिका—१भअवदी उण। कामन्दकी—अहमपि विविक्ते तावदलंकरणज्ञानां प्राशस्त्यं शास्त्रतः परीक्ष्ये। (इति निष्क्रान्ता।) मालती—(आत्मगतम्।) २लवङ्गिकामेत्तपरिवारा दाव संउत्ता। (प्रकाशम्।) इदं देवदामन्दिरदुवारं। ता पविसदु पिअसही। (प्रविशतः।) मकरन्दः—इतः स्तम्भान्तरितौ पश्यावः। (तथा कुरुतः।) लवङ्गिका—३सहि, अअं अङ्गराओ। इमाओ कुसुममालाओ। मालती—४तदो किं। लवङ्गिका—५सहि, इमस्सिं पाणिग्गहणमङ्गलारम्भे कल्लाणसं- वत्तिणिमित्तं देवदां पूजेहि त्ति अम्बाए अणुप्पेसिदासि। मालती—(स्वगतम्।) ६कुदो दाणिं दारुणसमारम्भदेव्वदुव्वि-
१. भगवती पुनः। २. लवङ्गिकामात्रपरिवारा तावत्संवृत्ता। इदं देवतामन्दिरद्वारम्। तत्प्र- विशतु प्रियसखी। ३. सखि, अयमङ्गरागः। इमाः कुसुममालाः। ४. ततः किम्। ५. सखि, अस्मिन्पाणिग्रहणमङ्गलारम्भे कल्याणसंपत्तिनिमित्तं देवतां पूजयेत्यम्बयानुप्रेषितासि। ६. कस्मादिदानीं दारुणसमारम्भदैवदुर्विलासपरिणामदुःखनिर्द्लितमा- नसां पुनरपि मर्मच्छेददुःसहां मन्दभागिनीमुपतापयसि।
नेन प्रसाधनेन प्रसाधितं मालतीरूपधारिणं रमणीयं मकरन्दं जनो विप्रलब्धो मालतीबुद्ध्या क्षणान्तरमवेक्ष्यतीत्यर्थः। लवङ्गिका। भगवती पुनः। क्व यास्य- तीति शेषः॥ मालती। लवङ्गिकामात्रपरिवारा तावत्संवृत्ता। तदिदानीं यथाकथं- चिदेनां लवङ्गिकामुपनीय शक्यं प्राणांस्त्यक्तुमिति भावः। इदं देवतामन्दिरद्वारम्। तत्प्रविशतु प्रियसखी॥ स्तम्भान्तरितौ स्तम्भापवारितौ॥ लवङ्गिका। सखि, अयमङ्गरागः इमाः कुसुममालाः॥ मालती। ततः किम्। मर्तुकामाया मम किमेभि- रित्याशयः॥ लवङ्गिका। सखि, अस्मिन्पाणिग्रहणमङ्गलस्यारम्भ उपक्रमसमये कल्याणस्य विवाहमङ्गलस्य संपत्तिरविघ्नेन निष्पत्तिस्तन्निमित्तं तदर्थं देवतां पूजये- त्यम्बयानुप्रेषितासि। तदेतैर्देवतामर्चयेति शेषः॥ मालती। कस्मादिदानीं दा- १४ माल०