मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 156, कुल 377 में से
संदर्भ में पढ़ें१५० मालतीमाधवे मकरन्दः—हन्त, अतिकरुणं प्रस्तुतम् । माधवः— नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च । वात्सल्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च महोत्सवं च ॥ ९ ॥ लवङ्गिका—अइ, पडिहदं दे अमङ्गलं । इदो वि अवरं ण सुणिस्सं । १. अयि, प्रतिहतं तेऽमङ्गलम् । इतोऽप्यपरं न श्रोष्यामि । रागोत्कर्षाच्छ्मशानप्रदेशवृत्तान्तावगमाच्च मध्यवसितायामसो स्वजीवितनिरपेक्ष- स्त्यजेदपि शरीरम् । यथा तु जीवति तथा कुर्विति । त्वत्प्रयत्नवशात्कथंचिदपरित्य- क्तजीवितोऽसौ कालक्रमेण यथा मां न विस्मरति तदपि त्वयैव कर्तव्यमिति भावः । एवं ते प्रियसखी मालती सकामा भवति ॥ मकरन्दः । हन्तेति प्रेमातिशय मरणो- योगप्रतीतेर्हर्षविषादद्योतकः ॥ माधवः—नैराश्येति । नैराश्येन मत्पाणिग्रहण- प्रत्याशाभावे तद्धेतुकस्वजीवितप्रत्याशाभावेन कातरा चकिता धीर्यस्यास्तस्या हरि- णेक्षणाया निकामं भृशं करुणं मरणयोगसूचनाच्छोकातिशयजनकम् । अथ स्ववि- षयानुरागप्रकर्षप्रतीतेर्मनोहरं च वात्सल्येन रतिभावेन । यद्यपि वात्सल्यशब्दो- ऽपत्यविषयां रतिमाचष्टे, तथाप्यत्र लक्षणया रतिसामान्यमात्रमाह, न तु वात्सल्यं नाम दशमं रसान्तरम् । प्रसिद्धांलकारप्रस्थानेष्वव्युत्पादनात् । प्रत्युत निषेधादेव गुरुनृपपुत्रादिविषयाया रतेर्भावत्वमेव हि व्यवस्थापितम् । 'रतिर्देवादि विषया व्य- भिचारी तथा जिता'। तस्मात् 'तमङ्कमारोप्य शरीरयोगजैः' इत्यादौ पुत्रगोचराया रतेः परिपोषादसंलक्ष्यक्रमव्यङ्ग्यभेदो भावध्वनिरेव रसान्तरम् । न च भरतेनात्र पृथक्स्थायी प्रदर्शितः । नापि रतिरेवास्य स्थायी । तस्याः शृङ्गारस्थायित्वात् , अस्य रसान्तरत्वाभावप्रसङ्गाच्च । नापि शृङ्गारभेद एवायम् । तद्भेदेषु संभोगादिष्व- परिगणनात् । मात्रादीनां पुत्रादौ शृङ्गारस्यात्यन्तानौचित्याच्च । अस्तु वात्सल्यं रसान्तरम् । तथापि प्रकृते तन्न संभवति । तस्यापत्यमात्रालम्बनत्वात् । नहि मा- लत्या माधवे वात्सल्यं युक्तमित्यर्थः । अलं कुत्सितेन विचारणेन । तस्मादत्र रति- सामान्यं लक्ष्यते । तेन मोहेन 'मोहश्चित्तस्य शून्यता' इत्युक्तेन व्यभिचारिणा च यत्परिदेवितं विलापवचनं तन्न तद्भूतचिन्तया मदलाभादियं प्राणानपि त्यक्तुमुद्यता । अनया किमिदानीं कर्तव्यमित्येवंरूपया यो विषादो विषण्णत्वमेव विपत् । तां च महोत्सवं च । अहो मे सौभाग्यं यदेतादृशस्य श्रीरत्नस्य मय्येवंविधानुरागबन्धस्त- देतल्लाभाभावेऽप्येतावत्तैव लब्धजन्मसाफल्योऽहमित्येवमात्मनो हर्षोत्कर्षः । तं च वहामि । उक्तं च—'परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानरागयोः' इति । शोकहर्षाभ्यां करुणशृङ्गारसंकीर्णं मनो वर्तत इति भावः ॥९॥ लवङ्गिका । अयि,