भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 16, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 16

८ मालतीमाधवे उत्पत्स्यते मम तु कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ ८ ॥ तदुच्यन्तां तत्प्रस्थापनाय सर्वे कुशीलवा यथा—स्वसंगीतकप्रयोगे वर्णिकापरिग्रहे च त्वर्यतामिति । कविवर्णनां प्रति तेनैवमुक्तम् । गुणैः सतां न मम को गुणः प्रख्यापितो भवेत् । यथार्थनामा भगवान्यस्य ज्ञाननिधिर्गुरुः ॥ ९ ॥ अपि च । यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च ज्ञानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके । अत्र प्रमुखे विनयप्रदर्शनं कवित्वगर्वोद्धत्यप्रकटनं च । नामेति प्रसिद्धौ । मदपे- क्षयापि प्रसिद्धा ये केचिन्महात्मानो नोऽस्माकमवज्ञां प्रथयन्ति कियदेतदित्यव- जानन्ति, ते हि विवेकसलिलसंक्षालितसंसारवासनापङ्ककलङ्के मनसि प्रत्यगात्म- वस्त्वेव परिभावयन्तस्तृणमिव जगदशेषमवलोकयन्तः किमपि रहस्यमुपनिषदेक- गम्यं वस्तु जानन्त इति युक्तैव तेषामस्मद्विद्यापरतन्त्रेष्ववज्ञा । अत एव तानुद्दिश्य नायं यत्नः । किं तर्ह्यतीतानामनेन प्रयोजनाभावाद्वर्तमानानामप्युत्त- माधमानांमत्राप्रवृत्तेः सदृशस्य चैवंविधग्रन्थनिर्माणदक्षस्यैतदनुपादानात् । यो मत्सदृश उत्पत्स्यते तं प्रतीति यत्तदोरनुपादानेऽपि सामर्थ्यात्तदुभयलाभः । तादृशस्योत्पत्तिः संभाव्यत इत्यत आह-काल इति । निरवधिरनन्तः । विपुला विस्तीर्णा । अतः कस्मिंश्चिद्देशे कस्मिंश्चित्काले मत्सदृशोऽपि कचिदेतदुपादायी जनिष्यत इति संभाव्यत इत्यर्थः । अथवा नामेति किलार्थे । ये केचिद्यादृशास्तादृशा नोऽवज्ञां किल प्रथयन्ति स्वमहिम्ना जगत्सर्वमभिभवतामस्माकमपि । उडुभिरिव भानोः क्षुद्रैः काचिदवज्ञावार्तेति चित्रमिति भावः । ते किं जानन्ति । न किमपीत्यर्थः। अज्ञत्वान्न तदवज्ञयास्माकं काचित्क्षतिरिति भावः । अपिशब्दो भिन्नक्रमः । एष यत्नोऽपि तान्प्रति न । तेषामलक्ष्यत्वात् । कं प्रति तर्हि । अतीतः प्रयोजनभा- वाद्वर्तमानस्य च मत्सदृशस्याभावाद्यः कश्चिन्मादृश उत्पत्स्यते तं प्रति । कथ- मिदानीमेतावति प्रपञ्चेऽप्यविद्यमानस्त्वादृश इतः परमुत्पत्स्यत इति संभावनेत्यत आह— अनवधौ कालेऽप्यपरिच्छिन्ने देशे यथाहमेक एतावतः कालस्योत्पन्नस्तद्देव को जानीते कदा वा कुत्र वा तादृशः कश्चिदुत्पद्येतापीत्यर्थः । हेत्वलंकारः ॥८॥ गुणैरित्यादि । सतामस्मद्गुरूणां गुणैः प्रख्याप्यमानैः । तच्छिष्यस्य मम को गुणो न प्रकटीकृतः तादृशैर्गुरुभिः शिक्षितत्वादेव स्वस्मिन्सर्वे संभाव्यन्त इत्यर्थः । तमेव गुरुं निदर्शयति—यथार्थेति ॥९॥ यद्वेदेति । उपनिषदां वेदशिरसां सांख्यस्य कापि- लस्य योगस्य पातञ्जलस्य च मोक्षशास्त्रस्य । नहीति । तत्परिज्ञानं न काव्यनिर्माणेनै- पुण्योपयोगमित्यर्थः । किं तर्हि नाटकरचनोपयुक्तमत आह-वचसां यत्प्रौढित्वं विव-