मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 17, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः। ९ यत्प्रौढित्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ॥ १० ॥ नटः—तावद्भूमिकाम्तथैव भावेन सर्वे वर्गाः पाठिताः। सौग- तजरत्प्रव्राजिकायाः कामन्दक्यास्तु प्रथमां भूमिकां भाव एक एवा- धीते। तदन्तेवासिन्यास्त्वहमवलोकितायाः। सूत्रधारः—ततः किम्। नटः—प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरि- ग्रहः कथम्। सूत्रधारः—कलहंसमकरन्दयोः प्रवेशावसरे तत्सुविहितम्। नटः—तेन हि तत्प्रबन्धप्रयोगादेवात्रभवतः सामजिकानु- पासहे। क्षितार्थसमर्पणप्रावीण्यम्। ‘विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता’ इति वच- नात्। ‘पदे वाक्यार्थरचना वाक्यार्थे च पदामिधा। प्रौढिर्व्याससमासौ च साभिप्राय- त्वमस्य च ॥’ इत्येवंरूपं वैचित्र्यं वा। उदारता प्रबन्धसौन्दर्यं श्लाघ्यार्थत्वं वा। अर्थतो गौरवमनेकार्थप्रतिपादनसामर्थ्यं गाम्भीर्यरूपं तदेतच्चेदस्ति, तदेव पाण्डित्यस्य व्युत्पत्तेर्वैदग्ध्यस्य कविताशक्तेश्च गमकं ज्ञापकम्। प्रबन्धगुणान्दृष्ट्वा स्वयमेव वि- द्वांसो मम वैदग्ध्यं ज्ञास्यन्ति। नत्वेतन्मया स्वकण्ठेन वक्तव्यमित्यर्थः॥१०॥एतावता कविकाव्यप्रशंसा कृतेति प्ररोचनां निर्वर्त्यामुखं प्रस्तौति—तावदित्यादि। वीथ्यङ्गानामामुखे विकल्पितत्वान्नात्र तेषामुपादानमिति मन्तव्यम्। तावत्साकल्येन भूमिकास्तत्तदभिनयकार्यं प्रति जनोचितवर्णवेषभाषामिनयादिपरिग्रहान्स्ववर्गान्त- र्गताः पाठिताः शिक्षिताः। सौगतजरत्प्रव्राजिकाया बौद्धवृद्धसंन्यासिन्याः प्रथमामा- दितः प्रवेशनीयाम् ॥ ततः किम्। ब्रूहीति शेषः। तत इति। आवाभ्यां तावत्काम- न्दक्या अवलोकितायाश्च भूमिकाद्वयं प्रथममेव गृहीतम्। प्रधाननायकभूमिकापरि- ग्रहस्तु कथं केन वा कर्तव्य इत्यर्थः। उत्तरमाह—कलहंसेति। कलहंसो माधवस्य चेटः, मकरन्दो मित्रम्, तत्प्रवेशावसर एवैतन्माधवभूमिकापरिग्रहणं भविष्यतीति नेदानीं तच्चिन्तनीयम्। तेन सर्वं सुष्ठु विहितम्, न किंचिदपि कर्तव्यमवशिष्टमि- त्यर्थः। तदनेन प्रथमं कामन्दक्यवलोकिताप्रवेशः सूचितः। केचित्तु यावन्त्यत्र प्रकरणे पात्राणि तेषां सर्वेषामपि प्रथमतः प्रवेशः सूचित इति व्याचक्षते। तदसं- गतम्। तत्प्रवेशावसर एव प्रवेशस्य सूचनीयत्वात्। न तु कृत्स्नप्रकरणपात्रप्रवेशः प्रथमतः सूचनीय इति प्रकरणलक्षणत्वे न क्वचिदपि ग्रन्थे दृश्यते। तत्तत्पात्रप्रवे- शसमये तत्तत्सूचनं स्फुटमेवाग्रे दृश्यत इत्यलम् ॥ तेनेति। सामाजिकनिर्दिष्ट- गुणयोगित्वेन वगैैरधीतत्वेन चेत्यर्थः। समाजे समवेतान्सामाजिकान्। 'पशूनां स-