मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 164, कुल 377 में से
संदर्भ में पढ़ें१५८ मालतीमाधवे कामन्दकी—वत्स माधव। माधवः—आज्ञापय। कामन्दकी—इयमशेषसामन्तमस्तकोत्तंसपरागराजितचरणाङ्गु- लेरमात्यभूरिवसोरेकापत्यरत्नं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन मया च तुभ्यं दीयते। (इति बाष्पं विसृजति।) मकरन्दः—फलितं हि तर्हि भगवतीपादप्रसादेन। माधवः—तत्किमित्यतिबाष्पायितमाननं भगवत्याः। कामन्दकी—(चीराञ्चलेन नेत्रे परिमृज्य।) वत्स, किमपि कल्याणं वक्तुकामास्मि। माधवः—तत्किम्। कामन्दकी—विज्ञापयामि। माधवः—आज्ञापय। कामन्दकी— परिणतिरमणीयाः प्रीतयस्त्वद्विधाना- महमपि तव मान्या हेतुभिस्तैश्च तैश्च। खं विलोकयेयमिति शेषः ॥ कामन्दकी—इयमिति । अशेषेत्यनेन निरति- शयैश्वर्यसंपन्नस्यापत्यं न दरिद्रस्येति, तस्याप्येकत्वेनातीव प्रेमभाजनं तदपि रत्नमिव रत्नं सौन्दर्याद्यनेकगुणशाल्यपत्यमियं मालतीत्यनेनास्यामनादरस्त्वया न कथंचिद- पि कर्तव्य इति सूचयति। सेयं प्रथमं सदृशयोरन्योन्यानुरूपयोर्युवयोः संयोगरसि- केन वेधसा स खलूत्पादयन्नेवेयमस्या अयं चास्या इति निर्णयं भालतले लिखितवान् तदनन्तरं मन्मथेना कस्मादेव द्वयोर्मनोधटकेन मया च तदुचितमानुषप्रयत्नविधा- यिन्या तुभ्यं दीयते ॥ रोदनं च कन्याप्रदानान्तरं मातृत्वाद्वात्सल्याच्च ॥ बाष्पायितं बाष्पोद्गमनं कृतम् । 'बाष्पोष्मभ्यामुद्गमने' इति णिजन्ताद्भावे क्तः ॥ विज्ञापयामी- त्युक्तिः कामन्दक्याः कन्याप्रदानमेव तत्कैङ्कर्यमिति नीत्या विनयद्योतनार्थम् ॥ माधवस्तु गुरुजनौचित्येनाह—आज्ञापयेति ॥ कामन्दकी—परिणतीति । त्वद्विधानां महाकुलीनत्वादिगुणशालिनां महानायकानां प्रीतयः स्नेहाः परिणतिरम- णीयाः परिपाकेन मनोहराः न तु क्षुद्रजनस्नेहवत्परिणतिविरसाः । अतो न मया किंचिदपि वक्तव्यम् । तथाहमपि तैस्तैर्हेतुभिर्निमित्तैः पितृस्नेहवात्सल्यादिभिर्मान्या- नुलङ्घ्यवचना । तत्तस्मादिहास्यां सुवदनायाम् । हे तात । वात्सल्यातिशयादपत्येऽपि तातशब्दः प्रयोज्यः । स तादृशः परिचयो गाढस्नेह एव करुणा कृपा तस्याः स- काशान्मा विरंसीद्विरतो मा भूः। अस्यां स्नेहानुबन्धेनैव मयि त्वया कृपा कृते-