मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 190, कुल 377 में से
संदर्भ में पढ़ें१८४ मालतीमाधवे तदनेन पक्षद्वारेण साधयामः । (निभृतं परिक्रामन्ति ।) मकरन्दः—अहो निशीथनिःसंचाररमणीयता राजमार्गस्य । संप्रति हि । प्रासादानामुपरि वलभीतुङ्गवातायनेषु प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः । माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥ ५ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः । बन्धुकृत्यमुद्यतोचितपदं प्रापिता ॥ ४ ॥ पक्षद्वारेण पार्श्वद्वारेण । साधयामो ग- च्छामः॥ समीहितं निशीथे निःसंचारेण राजमार्गस्य रमणीयतास्मत्प्रयाणानुगुण्यं वर्तते ॥ प्रासादानामिति । सौधानामुपरिभागेषु वलभीजालगवाक्षमार्गेषु प्रविश्य प्राप्तामोदः । 'भ्रान्त्यावृत्तः' इति पाठे गवाक्षमार्गेण हर्म्यतलेषु परिभ्रम्य पुनरावृत्तः । अत एव परिणतमद्यगन्धजनितवासनानुविद्धः । माल्यामोदी पुनः पुनरनुषक्तस्फुरद्धनसारगन्धी वातो यूनामभिलषितं युवतीसंनिधानं व्यनक्तीति मद्यपानमाल्यादिभिः सुरतादिभोगो व्यज्यते ॥ ५ ॥ मद्व्याख्यामन्थमथिताद्भवभूतिवचोम्बुधेः । रसामृतमभिव्यक्तं स्वादयन्तु सुधाधियः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां सप्तमाङ्कविवरणम् ॥