मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 192, कुल 377 में से
संदर्भ में पढ़ें१८६ मालतीमाधवे (स्वगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् । (प्रकाशम् ।) प्रिये मालति,प्रत्यग्रस्नपनावशेषशीतलां भवतीं निदा- घसंतापशान्तये किंचिद्विज्ञापयामि। तत्किमित्यन्यथैव मां संभावयसि । निष्योतन्ते सुतनु कबरीबिन्दवो यावदेते यावन्मध्यः स्तनमुकुलयोराद्रंभावं जहाति । यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि- स्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ २ ॥ अयि मालति निरनुक्रोशे, रित्रत्वेन च तदभिप्रायस्यानुकूलं गम्यमित्याचरन्तीं वामशीलामिव वामशीलामुपाव- र्तये स्वाभिमतसिद्धिप्रगुणचित्तां करोमि । भवत्वित्युपायस्मरणे । एवं तावत्कामसू- त्रोक्तेन कन्याविस्रम्भणोपायैनोपावर्तनार्थं यतिष्य इत्यभिप्रायेण मतिं व्यवस्थाप्य प्रकाशमाह—प्रिय इति । अत्र निदाघसंतापशान्तय इत्युक्त्या संतापप्रतीकारधिया न रागितयैव त्वदङ्गसङ्गप्रार्थनार्थं विज्ञापयामीति प्रेमगर्भं विनयप्रदर्शनम् । निष्यो- तन्त इति । सुतन्विति संबोधनेनालिङ्गनात्यन्तोपयुक्तस्य नायिकाशरीरस्याभिराम- णीयकप्रदर्शनं किमितीदृश्यां दशायां दर्शनार्हं मां न संभावयसि । मया त्वं य- स्मिन्नवसरे श्मशानभुवि संभावितासि तत्सदृश एवायं समय इत्याशयः । निष्यो- तन्त इत्यात्मनेपदं चिन्त्यम् । अथ स्नानविमुक्तबन्धकबरीसङ्गिनो जलबिन्दवो यावदेव पतन्ति, यावद्वा स्तनद्वन्द्वान्तर्भागः स्नानजलाद्रों वर्तते, यावच्च स्नानशैत्या- त्सान्द्रपुलकत्वं गता तावदेवाश्लेषं देहि, प्रसन्ना भव । एतेन मालत्येवं जानातु य- त्किल मदङ्गवर्ती मज्जनजनितशैत्यमेवास्य स्पर्शसंतापशान्तये सत्यमभीष्टम्, न पुनः कामन्दकीलवङ्गिकाद्यभिप्रयानपेक्षमेव परिणयविधानमनादृत्य किंचिच्चिकीर्षुरिति विमृश्य मालती मह्यं कापालिकवधोपकारबुद्ध्या वितरत्विति माधवस्याशयः । वस्तु- तस्तु जलमज्जनजन्यां तात्कालिकीं कान्तिं शोभामिति स तत्र कान्तिगतालंका- रत्वेन भरतमुनिसंमतामवलोक्यातिरागादेवाश्लेषप्रार्थनायां प्रवृत्तः । 'रूपयौवनला- वण्यादुपभोगोपबृंहितैः । अलंकरणमङ्गानां शोभेति परिकीर्तिता । कान्तिरित्यु- च्यते सापि शोभैवापूर्णमन्मथा ॥' तथा । 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणि- नैकेन कृत्वा धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्काल- कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरतिविचलद्बाहु लक्ष्म्याः पुनातु ॥' इति ॥२॥ अथ कामसूत्रविन्माधवस्तदूह्यस्यापि 'अनुत्तरां चोप- लक्ष्यात्'(?) इत्यादिकां द्वितीयभूमिकामधिरोपयन्नाह—अयीति । निरनुक्रोशे इति रोषोद्भावनेन मालत्या विभीषिका दर्शिता । यथाह वात्स्यायनः—'एवं चित्तानुगो बालामुपायेन प्रसादयेत् । तथा चेत्सानुरागा च विस्रब्धा चापि जायते ॥ नात्यन्त- मानुलोम्येन न चातिप्रातिकूल्यतः । सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साध-