मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 194, कुल 377 में से
संदर्भ में पढ़ें१८८ मालतीमाधवे विसुमरिअनिमेसविग्घं ओलोअन्ती एवं भणिस्सं । दुउणिआवे- ट्ठणपरिरब्भणेण संभाविस्सं ति । स एष अअं परिणामो । (मालती सासूयमिव तां पश्यति ।) माधवः—(अपवार्य ।) अहो भगवत्याः प्रथमान्तेवासिन्याः सर्व- तोमुखं वैदग्ध्यमक्षय्यसुभाषितरत्नसंचारसंस्करणम् । (प्रकाशम् ।) प्रिये, सत्यमवलोकिता वदति । (मालती मूर्धानं चालयति ।) माधवः—शापितासि मम लवङ्गिकावलोकितयोश्च जीवितेन यदि मे न कथयसि । ष्ये, येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नमवलोकयन्त्येवं भणि- ष्यामि । द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । स एवायं परिणामः । मुहूर्त्तमात्रान्तरितश्चासौ माधवश्चेति विग्रहः। दुर्मनायमाना मम पुरतो भणसि॥चि- रायत आर्यपुत्रः। अपि नाम कियता चिरेण प्रेक्षिष्ये।येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नं यथा स्यादेवं नयननिमीलनमेव विघ्नमवलोकयन्त्येवं भणिष्यामि द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । मदग्रतः प्रागेवमङ्गीकृतस्स स एवाय- माश्लेषावसरस्य परिणामोऽयमधुना संलापितेऽपि वैदग्ध्यमित्याशयः ॥ मालती सासूयमिव पश्यतीत्याशयः। न तु सासूयमेव। असूया च कोपो विज्ञेयः। कोपाविष्क- रणं मद्रहस्यमीदृशमनया व्यक्तीकृतमिति हेतोः । वस्तुतस्तु पूर्वानुरागदर्शितमनो- रथोऽनयावसरे प्रकटीकृत इति सानन्दमेव पश्यतीत्याशयः॥माधवः। प्रथमान्ते- वासिन्या इत्युक्त्या कामन्दक्या तादृग्दूत्याचार्यकमपि किमस्यै सम्यगुपदिष्टं यतः प्रस्तावे मद्धियेयानुगुणमस्या रहस्योद्भेदनमिति कृतवतीत्याशयः । अक्षय्योऽशोष्यो नवनवस्फूर्तिशोभनभाषितान्येव रत्नानि तेषां संचारोऽन्यत्र मुख्यवृत्तेरन्यत्रापि कार्याानुकूलत्वेन निवेशनम् । संस्करणमग्राम्यतापादनम् । प्रकाशम् । पृच्छतीति शेषः । यदवलोकितयोक्तं तत्सत्यमुतोत्पाद्यं कथयतीति प्रश्नस्यायमभिप्रायः । यदि तावत्पृष्टा नोत्तरं दास्यति तदानुमतिरस्या इत्याकूतोपलब्धिर्भविष्यति । उत्तरप्रदाने चास्या वचनश्रवणलाभो भवितेति वात्स्यायनोक्तेरालापयोजनेऽन्तर्भावः प्रश्नस्ये- त्याशयः । तदाह—'सखीं चानुकूलामुभयोरपि विश्रब्धामन्तरा कृत्वा कथायोज- नम् । तस्मिन्नधोमुखी विहसेत् । तां चातिवादिनीमविक्षिपेद्विदग्धा।परिहासार्थमि- दमनयोक्तमिति चानुक्तमपि ब्रूयात् । तत्र तामपनुद्य प्रतिवचनार्थमसंपूर्णावाक्यार्थं तूष्णीमासीत । निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थवचनं ब्रू- यात् । नायकं च विहसन्ती कटाक्षैः प्रेक्षेत'इत्यादयोऽपीत्यत्रानवसितार्थमसंपूर्णावा- क्यार्थम् । मालती न मयैवमुक्तमिति प्रतिपादनार्थं प्रातिकूल्येन शिरश्चालयति।'नि- र्बध्यमाना तु शिरःकम्पेन प्रतिवचनं ददाति'इति वात्स्यायनः॥ माधवः। लवङ्गि-