मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 202, कुल 377 में से
संदर्भ में पढ़ें१९८ मालतीमाधवे णसिहरावदिण्णपडिहारविणओवण्णासपसमिअविरोहो सोम्मेक्करसो- वणीदमाहवमअरन्दमुहचन्दे ओलोइअ बारंवारं पसारिदसिणिद्धलो- अणो कलहंसआदो अहिजणं सुणिअ णिवत्तिअमहग्घगुरुबहुमाणो फुरन्तमच्छरेस्सावेल्लक्खमसीमलिणिअमुहे भूरिवसुणन्दणे महुरो- वण्णासेहिं किं दाणिं तुह्माणं भुवणाभोअभूसणेहिं महाणुहावेहिं णवजोबणगुणाभिरामेहिं जामाउएहिं परितोसेत्ति पडिबोधिअ गओ अब्भन्दरं राजा । इमे वि माहवमअरन्दा आअच्छन्दि इति अहं वि एदं भअवदीए उत्तन्दं णिवेदेमि । (इति निष्क्रान्तः ।) (ततः प्रविशतो माधवमकरन्दौ ।) माधवः—अहो, प्रेयसः सर्वपुरुषातिशायि निर्व्याजमूर्जितं तेजः । तथा हि । दोर्निष्पेषविशीर्णसंचयगलत्कङ्कालमुन्मथ्नतः प्राग्वीराननुपात्य तत्प्रहरणान्याच्छिद्य विक्रामतः । सौम्यैकरसोपनीतमाधवमकरन्दमुखचन्द्राववलोक्य वारंवारं प्रसारितस्नि- ग्धलोचनः कलहंसकादभिजनं श्रुत्वा निर्वर्तितमहार्घगुरुबहुमानः स्फुरन्मत्सरेर्ष्यावैलक्ष्यमषीमलिनितमुखौ भूरिवसुनन्दनौ मधुरोपन्यासैः किमि- दानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभावाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य गतोऽभ्यन्तरं राजा । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि । तयोर्मुखचन्द्राववलोक्य वारंवारं प्रसारितस्निग्धलोचनः कलहंसकादमिजनं श्रुत्वा निर्वर्तितमहार्घगुरुबहुमानः स्फुरन्मत्सरेर्ष्यावैलक्ष्यमषीमलिनितमुखौ भूरि- वसुनन्दनौ मधुरोपन्यासैः किमिदानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभा- वाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य ततो गतोऽभ्यन्तरं राजा । अत्र मत्सरः क्रोधः, उद्वेग ईर्ष्या एतौ द्वौ मषी- स्थानीयौ । आभ्यां मलिनितं मुखं नन्दनस्य । वैलक्ष्यं मषीस्थानीयं भूरिवसो- रिति विवेकः । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि ॥ माधवः । प्रेयसो मकरन्दस्य । निर्व्याजं स्वाभाविकमूर्जितं बलवत्तेजः ॥ दोर्निष्पेषेति । तथा ह्यस्य प्रेयसो मित्रस्य प्राक्प्रथमं वीरानुन्म- थ्नतः । कथमून्मथ्नत इत्यपेक्षायां दोर्भ्यामेव यो निष्पेषः संचूर्णंनं तेन शीर्णे संच्छिन्नत्वेन दलत्कङ्कालं यथा स्यादिति क्रियाविशेषणम् । अनुपात्य च तेषां प्रह- रणान्याच्छिद्य विक्रामतो विक्रमं कुर्वतः । एवंभूतस्य प्रेयसो यः संयोधिभिः संप्रा- मसमुद्रस्तस्य पन्थाः पुरोदेशो द्वेधा पार्ष्णिद्वये स्तम्भिता निश्चेष्टा या पदातिपङ्कि-