मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 201, कुल 377 में से
संदर्भ में पढ़ेंकलहंसः—(इतः प्रविश्य ।) १दिट्ठिआ कुसलेण म्हि णिग्गदो सं- घट्टमग्गादो। हिमाणहे। पेक्खामि विअ णिम्मलणिरन्तरव्वुत्तरखा- रिधारापडिफलिदचन्दकिरणुज्जुलन्तपिञ्जरिअमीसणदंसणं मदलीला- कलिदकामवालविअडभुअदण्डावविद्धहलहेलावित्थारिदुद्धक्खुभिद- कलिन्दतणआसोत्तसंणिहं विसङ्खलुप्वदिदणिद्दआणन्दमअरन्दक्खो- भविअलपडिरोधपडिणिउत्तणुद्धअसमत्थगणङ्गणावआसविअसन्द- कोलाहलं पारक्कसमूहं दाणिं वि पेक्खामि विअ । सुमरामि अ भीसण- भुअवज्जखचितपञ्जरपज्जत्थसमरविमुहसुभटहत्यावलुत्तविविहाउहोव- रुद्धअसेसरिपुसेण्णविअडापसारवहरिक्कमग्गसंचारनिव्वत्तिदविसमसाहसं णाहं माहवम् । अहो गुणाणुराओ णरेन्दस्स, जं दाणिं सो- १. दिष्ट्या कुशलेनास्मि निर्गतः संघट्टमार्गात् । हिमापहॆ । पश्या- मीव निर्मलनिरन्तरोद्भूततरवारिधाराप्रतिफलितचन्द्रकिरणोज्ज्वलपिञ्जरित- भीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्धहलहेलाविस्तारितो- र्ध्वक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयानन्दमकरन्दक्षोभ- विकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्कोलाहलं पार- क्यसमूहमिदानीमपि पश्यामीव । स्मरामि च भीषणभुजवज्रखचितपञ्जरपर्य- स्तसमरविमुखसुभटहस्तावलुप्तविविधायुधोपरुद्धाशेषरिपुसैन्यविकटापसारव्यति- रिक्तमार्गसंचारनिर्वर्तितविषमसाहसं नाथं माधवम् । अहो गुणानुरागो नरेन्द्रस्य, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्यासप्रशमितविरोधः मदयन्तिके। सखि मालति, ननु भणामि सखि मालतीति ॥ कलहंसः । दिष्ट्या कुशलेनास्मि निर्गतः संघट्टमार्गात् । सहर्षं हिमाणहे । 'हिमाहने भय- हर्षे' इति देशी । पश्यामीव निर्मलनिरन्तरोद्भूततरवारिधाराप्रतिफलितचन्द्रकि- रणोज्ज्वलपिञ्जरितभीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्ध- हलहेलाविस्तारितोर्ध्वक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयान- न्दमकरन्दक्षोभविकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्को- लाहलं पारक्यसमूहमिदानीमपि पश्यामीव । प्रतिनिवर्तनं पलायनम् । स्मरामि च भीषणभुजवज्रखचितपञ्जरतया पर्यस्ताः प्रसृताः समरविमुखा ये सुभटा- स्तेषां हस्तेभ्योऽवलुप्तान्यवच्छेदितानि विविधान्यायुधानि तैरपरुद्धं पतितमशेषं यद्रिपुसैन्यं तेन दत्तो यो विकटापसारः । पलायनं तेन व्यतिरिक्तः शून्यो यो मार्गस्तत्र संचारेण निर्वर्तितविषमसाहसं स्मरामि च माधवमिति संबन्धः । अहो गुणानुरागो नरेन्द्रस्य, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्या- सप्रशमितविरोधः सौम्येकरसोपनीतो यौ संकटाभिश्रान्तौ माधवमकरन्दौ