मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 200, कुल 377 में से
संदर्भ में पढ़ें१९६ मालतीमाधवे मअरन्द साहसिअ त्ति परिदेवणाओ । महाराओ किळ मन्तिधी- आणं विप्पळम्भउत्तन्दं सुणिअ संजाअमच्छरावेओ तक्खणविसज्जि- आणेअपोढपडाइणिवहो चन्दादवसोहिदसोहसिहरद्विदो पेक्खदित्ति मन्तिअदि । मदयन्तिका—हो, हदह्मि मन्दभाइणी । लवङ्गिका—सैहि, मालदी उण कहिं । मदयन्तिका—सैहि, सा क्खु पुढमं एब दे मग्गं ओलोइदुं पसरिदा । पच्छा अहं तं ण पेक्खामि । सा णाम उज्जाणगहणं पविट्ठा हवे । लवङ्गिका—सैहि, तुरिअं अण्णेसह्म । अदिकातरा मे पिअ- सही उववणट्ठिदा इमस्सिं अवसरे न धारेदि अत्ताणं । लवङ्गिकामदयन्तिके—(त्वरितं परिक्रामन्त्यौ ।) सैहि मालदि, णं भणामि सहि मालदि त्ति । (इतस्ततः परिक्रामतः ।) मन्त्रिदुहित्रोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावेगस्तत्क्षणविसर्जितानेकप्रौ- ढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते । १. हा, हतास्मि मन्दभागिनी । २. सखि, मालती पुनः क्व । ३. सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् । ४. सखि, त्वरितमन्विष्यावः । अतिकातरा मे प्रियसख्युपवनस्थिता- स्मिन्नवसरे न धारयत्यात्मानम् । ५. सखि मालति, ननु भणामि सखि मालतीति । गृहे गुणानुरागनिर्भरस्य पौरलोकस्य हा माधव महाभाग हा मकरन्द साहसिकेति परिदेवनानि । महाराजः किल मन्त्रिदुहित्रोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावे- गस्तत्क्षणविसर्जितानेकप्रौढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते ॥ मदयन्तिका । हा, हतास्मि मन्दभागिनी ॥ लवङ्गिका । सखि, मालती पुनः क्व वर्तते ॥ मदयन्तिका । सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् । नामेति संभावनायाम् ॥ लवङ्गिका । सखि, त्वरितमन्विष्यावः । अ- तिकातरा मे प्रियसख्युपवनस्थितास्मिन्नवसरे न धारयत्यात्मानम् । लवङ्गिका-