मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 206, कुल 377 में से
संदर्भ में पढ़ें२०२ मालतीमाधवे मकरन्दः—अस्त्येतत् । किंतु भगवतीपादमूलगमनमप्या- शङ्क्यते । तदेहि । तत्र तावद्गच्छावः । उभे—एंदं वि संभाविअदि । माधवः—एवमस्तु नाम । (इति परिक्रामति ।) मकरन्दः—(स्वगतम् ।) याता भवेद्भगवतीभवनं सखी सा जीवन्त्यथैष्यति न वेत्यभिशङ्कितोऽस्मि । प्रायेण बान्धवसुहृत्प्रियसंगमादि सौदामिनीस्फुरणचञ्चलमेव सौख्यम् ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवेऽष्टमोऽङ्कः । १. एतदपि संभाव्यते । लमपि किं मालतीति न जानासि । मम प्राप्तौ मत्स्नेहेन दुःखितया कातरया तया यच्चेष्टितमिति चौरिकाविवाहप्रस्तावे मालत्याः स्वशरीरपरित्यागाध्यवसायं स्मारयति ॥ उभे । एतदपि संभाव्यते । यद्भगवतीपादसेवां कर्तुं गता भवि- ष्यतीत्येतत् ॥ माधवः । एवं नामास्तु । नामशब्दः संभावनायाम् ॥ मक- रन्दः । यातेति । सा नोऽस्माकं सर्वेषां माधवप्रेमविषयतया तस्या एव गुण- विशेषैश्च निःसीमस्नेहविषयत्वात्सखीव सखी मालती याता गता । तद्भगवती- भवनम् नगराध्यक्षपुरुषावरोधव्यतिकरसंभ्रमादिभिः सत्यमेव जीवन्ती प्राणान्धा- रयन्ती पुनरेष्यति न वेत्याशङ्कितोऽस्मि । अघोरघण्टव्याघ्रवधराजविरुद्धव्या- पाराश्च मालतीजीवितसंदेहाशङ्कामिज्ञानानि । अथ मालतीविपदमनया निधित्य । वैषयिकसुखस्यास्थिरत्वं श्लोकस्योत्तरार्धेन व्यवस्थापयति—प्रायेणेति । बान्धवा- दिसंगमसौख्यं सौदामिनीस्फुरणवच्चञ्चलम् । भवतीति शेषः । बान्धवादिसङ्ग आदियस्य सौख्यस्य तत्तादृक् । अथ च प्रथमाङ्कमुखसंधिसूचितायाः सौदामिन्याः स्फुरणं स्फूर्तिर्व्यापारविशेषो वा तन्मात्रनिदानं मालतीविपत्प्रतिकरणं माधव- दुःखप्रहाणं च मनसि कृत्वा प्रकरणकृदग्रिमाङ्के सौदामिनीप्रवेशसूचनाय च सौदामिनीपदमङ्गान्तश्लोके निवेशितवान् ॥ १४ ॥ शबरस्वामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृतिं नान्यः ॥ इति श्रीनान्यदेवस्य कृतौ विबुधरञ्जाख्यां मालतीमाधव- टीकायामष्टमाङ्कविवरणम् ॥