मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 205, कुल 377 में से
संदर्भ में पढ़ेंअष्टमोऽङ्कः । १०१ मदयन्तिका—तह खु इदो विणिग्गदे महाणुभावे बुद्धर- क्खिदं अवलोइदं अ भयवदीसआसं विसज्जिअ अप्पमादणिमित्तं विष्णवेहि अज्जउत्तं ति लवङ्गिआ अणुप्पेसिदा । तदो उत्तम्माणा अ एदाए मग्गं ओलोइदुं अग्गदो पसरिदा मालदी । पच्छादो अहं । तदो ण पेक्खामि । तदो अह्मेहिं मग्गिदा एत्थ विडवन्तराई जाव तुम्हे दिट्ठत्ति । माधवः—हा प्रिये मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य- द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ १३ ॥ उभे—हा पिअसहि, कहिं ग आसि । मकरन्दः—वयस्य, किमित्यविज्ञाय वैक्लव्यमवलम्ब्यते । माधवः—सखे, त्वमपि किं न जानासि मत्स्नेहदुःखिताया- स्तस्याः कातर्यचेष्टितानि । १. तथा खल्वितो विनिर्गते महानुभावे बुद्धरक्षितामवलोकितां च भग- वतीसकाशं विसृज्याप्रमादनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसृता मालती । पश्चाद- हम् । ततो न पश्यामि । ततोऽस्माभिर्मार्गितात्र विटपान्तराणि यावद्युवां दृष्टाविति । २. हा प्रियसखि, कुत्र गतासि । तद्गतकदैवेन हतोऽस्मि ॥ १२ ॥ मदयन्तिका । तथा खल्वितो विनिर्गते महानुभावे त्वयि सति बुद्धरक्षितामवलोकितां च भगवतीसकाशं विसृज्याप्रमा- दनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसृता मालती । पश्चादहं प्रसृतेत्यर्थः । न ततः पश्यामि । ततोऽस्माभिरत्र विचिता यावद्युवां दृष्टाविति ॥ माधवः । किमपीति । हे चण्डि अतिकोपने, अयं परिहासः स्वात्मप्रच्छादनरूपो विरमतु । परिहासं परित्यज । ततः किमपि किमपीति यद्वक्तुमपि न शक्यते मङ्गलेभ्यो यदन्यदमङ्गलं तदहं