मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 210, कुल 377 में से
संदर्भ में पढ़ें२०६ मालतीमाधवे काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बचुम्बितमुखा धावन्त्यपः पूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुकुभाः ॥ ७ ॥ तद्भवतु । माधवमकरन्दावन्विष्य यथाप्रस्तुतं साधयामि । (इति निष्क्रान्तः ।) शुद्धविष्कम्भः । (ततः प्रविशति माधवो मकरन्दश्च ।) मकरन्दः—(सकरुणं निःश्वस्य ।) न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्तं चेतः प्रविशति च मोहान्धतमसम् । अकिंचित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद्विपदि परिवर्तामह इमे ॥ ८ ॥ माधवः—हा प्रिये, मालति, कासि । कथमविज्ञाततत्त्वमद्भुत- तमं झटिति पर्यवसितासि । नन्वकरुणे, प्रसीद । संभावय माम् । काश्मर्या इति । काश्मर्याः मधुपर्णीतरोस्तस्मिन्काले निष्पत्रात् । उद्गतदलं तरुणनवपत्रम् । कृतमालच्छायम् । कोयष्टिकः पक्षिविशेषः । तस्य वने संभवात् । टीकते धावति । सरित्तीरे येऽश्मन्तकाख्या अतसीपर्यायास्तच्छिम्बिचुम्बितमु- खास्तदग्रस्पृष्टमात्रमुखाः । न तु पिपासया ते खादितवन्त इति चुम्बितपदस्या- शयः । पूर्णिका अशोकापरनामानः पक्षिविशेषाः । जलं गच्छन्ति । दात्यूहैस्तिनि- शस्य स्यन्दनापरनाम्नो मूले स्कन्धे जातिस्वभावात्रिलीय स्थितम् । तथा लतास्थि- तकुलायवर्तिपारावतकूजितमनुकूल्याधोदेशे कुकुभाः कूजन्ति । कुकुभो ग्रामचट- काकृतिः पक्षिविशेषः । यदाह—'शरच्चन्द्रिकाकारसितपुच्छो नीलगलः स्याद्ग्राम- चटकाकृतिः । कुकुभः कुकुटारावः स्थलजो रक्तवर्णकः ॥' इति ॥ ७ ॥ इति शुद्धविष्कम्भः । मकरन्दः । सकरुणं निःश्वस्यात्मगतमेव । न यत्रेति । इमे वयं सर्वे बुद्धिपौरुषोत्साहयुक्ता अपि तस्यां विपदि वर्तामहे तिष्ठामः । यत्र विपदि मनः कर्तृ । तामपि तत्प्राप्तिहेतुं कामन्दक्याश्वासनरूपां प्रत्याशां नानु- पतति नावलम्बते । तदाश्वासनस्याविषयत्वेनैवाभावात् । न वा प्रतिक्षिप्तं नि- राशं तत्प्राप्तिप्रत्याशां रहयति त्याजयति । बहुशोऽघोरघण्टादिव्यतिकरेऽपि पुनः- पुनस्तल्लाभदर्शनात् । मोहान्धकारमेव केवलं प्रविशति । मोहश्चात्राकर्तव्यतापरि- च्छेदः । अकिंचित्कुर्वाणा विपत्प्रतीकारानुरूपं किमपि कर्माकुर्वन्त आहारमात्र- व्यापाराः पशव इव । अत्र च प्रतिकूलदैवविलसितमेव हेतुर्नास्माकं पुरुषकार- दैगुण्यमित्याशयः ॥ ८ ॥ माधवः । अविज्ञाततत्त्वमविलक्षितविनाशकारणं