मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 212, कुल 377 में से
संदर्भ में पढ़ें(सावेगम् ।) अहो नु खलु भोः, दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा- प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ १२ ॥ मकरन्दः—निरवग्रहो दहति दैवमिव दारुणो विवस्वान् । इयं च ते शरीरावस्था । तदस्य पद्मसरसः परिसरे मुहूर्तमास्यताम् । अत्र हि उन्नालबालकमलाकरमाकरन्द- निष्यन्दसंवलितमांसलगन्धबन्धुः । त्वां प्राणयिष्यति पुनः परिवर्तमान- कल्लोलशीकरतुषारजडः समीरः ॥ १३ ॥ प्रस्तावात्पूर्वं मत्प्राप्तौ विगलितप्रत्याशत्वाद्विकलाङ्गैस्तथा मर्मच्छेदे या व्यथा तया विधुरैरिवोद्वेगदायिभी रुदितैस्तथापि तस्यामपि दशायां मयि स्नेहाकूतं स्नेहप्रधा- नमाशयमतनोद्विस्तारितवती । असावहमपि यथाभूतं यादृशासं पीडातरङ्गितचे- तास्तथा त्वमेव स्मरसीत्यन्वयः ॥११॥ सावेगं ससंभ्रमम् । अहोशब्द आश्चर्ये । नु वितर्के । भोः संबोधौ । दलतीति । कर्मकर्तरि । स्वयमेव विधाय मदीयं हृदयं दारणप्रयत्नमतिक्रम्यापि गाढोत्कण्ठं यतो विदीर्णं किमिति नोपलभ्यत इत्यत्र द्विधेत्युत्तरम् । अन्तरैव हि दलने यादृशी व्यथा स्यात्तादृशी व्यथा हृदि वर्तत इति मकरन्दे प्रकाशयति । यथा कायः शरीरं हृदयेतरद्विकलो विह्वलो मोहं वैचित्यं वहति । यदि मोहः कथमेवं जानासीत्यत्रोत्तरम् । चेतनां मालती- वियोगवेदनाज्ञानं तु न मुञ्चत्येवेत्याशयः । तथान्तर्दाहः स्मरपवनसंधुक्षितशोका- नलरूपस्तनुं दहति । तर्हि 'दह भस्मीकरणे' इति धात्वर्थात्किमिति भस्मरूपता न दृश्यत इत्यत्र भस्मसान्न करोतीत्युत्तरम् । देहदाहे यादृशी रुजा तादृशी वर्तत इति व्यनक्ति । तथा विधिरननुकूलमाचरन्मर्मच्छेदनशीलः प्रहरतीव । तर्हि कथं जीवसीति चेदत्र न कृन्ततीत्युत्तरम् । चिरमयमनुभवतु यातनामिति जीविताकृ- न्तने हेतुः ॥१२॥ मकरन्दः । निरवग्रहो निरङ्कुशो निर्मोहो वा । निरवग्रहमिति क्रियाविशेषणं वा । दैवं प्राक्तनमसत्कर्मेव रविरपि प्रचण्डकरो मध्याह्ने त्वां दहति । इयमीदृशी दुरतिक्रमदशान्तरावतरणलिङ्गभूता । पद्मसरः पद्मप्रधानं सरः । उन्ना- लेति । अत्र सरसि त्वामीदृग्दशापन्नं पवनः प्राणयिष्यति । मरुद्विशेषणान्याह— उन्नालेति उद्गतनालानि यानि बालकमलानि प्रत्यग्रविकचानि तेषामाकर उत्पत्तिस्थानं तत्र यो माकरन्दो निष्यन्दः स्रुतिः । क्षरणमिति यावत् । तेन संव-