मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 217, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २१५ अकरुण वितर स्मितोज्ज्वलां दृशमतिदारुण देहि मे गिरम् । सहचरमनुरक्तचेतसं प्रियमकरन्द कथं न मन्यसे ॥ २३ ॥ (माधवः संज्ञां लभते ।) मकरन्दः—(सोच्छ्वासम् ।) अयमचिरधौतराजपट्टरुचिरमांसल- च्छविर्नवजलधरस्तोयशीकरासारेण संजीवयति मे प्रियवयस्यम् । दिष्ट्या समुच्छ्वसितस्तावत् । माधवः—तत्किमिवात्र विपिने प्रियावार्ताहरं करोमि । फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनतनुतरङ्गामुत्तरेण स्रवन्तीम् । उपचितघनमालप्रौढतापिच्छनीलः श्रयति शिखरमद्रेनूतनस्तोयवाहः ॥ २४ ॥ (सरभसमुत्थायोन्मुखः कृताञ्जलिः ।) वरम्यं लामुद्धरता लोकान्तरं नयता । जीवितमिवोद्धरता । एतच्च सर्वं विलापप्रका- रत्वान्न तावद्रसविशेषपोषमावहति ॥२२॥ स्पृशन्माधवशरीरम् । अकरुणेति । स्मितसाहचर्येणोज्ज्वलामकलुषां दृशं वितर । तथातिदारुणगिरं स्मितोज्ज्वलां देहि । प्रियो मकरन्दो यस्य तादृक् तत्संबोधनम् । मां सहचरमनुरक्तचित्तम्, न तु बाह्यानुरागम् । कथं न मन्यसे कथं न जानासि । किमहं कदाप्युपरक्तचेता इति भावः । अत्र विशिष्टदृग्वचनदानमात्रेणैवेदानीं मम जीवनं स्यात्तन्मात्रेऽपि किं ते वैमुख्यमकरुणेति दारुणोक्तौ निमित्तम् ॥ २३ ॥ मकरन्दः । अचिरधौतः सद्योनिर्मलीकृतो राजपट्टः श्यामः पाषाणविशेषस्तद्वदेव रुचिरा रम्या तथा मांसला पुष्टा छविर्यस्य तादृगभिनवमेघसमूहः । आसारो धारासंपातः । अत्र वियोगिनो मा- धवस्योच्छ्वासे विरहिस्वर्गातिदुःसहन्वजलधरासारानुकूलत्वे प्रार्थनं मकरन्दस्य प्रि- याविरहितात्मसमानतयान्येष्वपि जलधरादीनां सुखजनकत्या भ्रान्तेर्ज्ञेयम्। दिष्ट्या भाग्येन ममास्मिनथ । उच्छ्वसितो विमुक्तनिरुद्धोच्छ्वासतावदयं धृत इत्याशयः ॥ माधवः—तदिति।'एति जीवन्तमानन्दः' इत्यस्यापि वाल्मीकिवचसः प्रत्याशा- वलम्बनीयेति भावः । चिरेणामुपगम्येति पूरणीयम् । किमिति सामान्यजातौ नपुं- सकलम् । प्रियायै म्रत्कुशलवार्तासमर्पकम् । फलभरेति । अद्रेः शृङ्गं नवो मेघः श्रयति । तदेनमेव वार्त्ताहरं करोमीत्याशयः । कल्पेक्षायामुत्तरेण स्रवन्तीमिति योज्यम् । स्रवन्त्या उत्तरायां दिश्यदूरे फलभरस्य यः परिणामः पाकस्तेन श्यामा या जम्बूलतास्ताभिर्वेष्टितो यो निकुञ्जस्तत्र यत्स्खलनं प्रतिघातस्तेन तनवस्तरङ्गा यस्यास्तथोक्ताम् । तथोपचितघनमाला निरन्तरपङ्क्तयो ये तापिञ्छास्तद्वन्नील इति