मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 219, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २१५ मकरन्दः—(सोद्वेगम् ।) कथमिदानीमुन्मादोपराग एव माधवे- न्दुमास्कन्दति । हा तात, हा अम्ब, हा भगवति, परित्रायस्व माम् । पश्य माधवस्यावस्थाम् । माधवः—धिक्प्रमादः । नवेषु लोध्रप्रसवेषु कान्ति- र्दृशः कुरङ्गेषु गतं गजेषु । लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रिया मे ॥ २७ ॥ हा प्रिये मालति । मकरन्दः— सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिव सहपांसुक्रीडनप्रौढसख्ये । प्रियजनविरहाधिव्याधिखेदं दधानं हतहृदय विदीर्य त्वं द्विधा न प्रयासि ॥ २८ ॥ माधवः—सुलभानुकारः खलु जगति वेधसो निर्माणसंनिवेशः । द्वियोगे लङ्घितो न जीविष्यतीत्येवंविधैर्वचनैरित्यर्थः । स एवैक आशातन्तु- स्तस्या आयताक्ष्याः प्राणरक्षां करोति यतः । तथोक्तमन्यत्रापि—'आशाबन्धः कुसुमसदृशः प्रायशो ह्यङ्गनानाम्' इति ॥ २६ ॥ अये, मद्वचसि कृतावधानी मद्बल्लभान्वेषणार्थं प्रचलित इति सहर्षत्वे हेतुः, तदन्यतः संभावयामीत्यन्यत्र संचरणमीदृक्तदन्वेषणार्थम् ॥ मकरन्दः । उन्माद एवोपरागो राहुग्रहो माधव एवेन्दुस्तमास्कन्दत्यभिभवति । हा तातेत्यादिपितृमातृनामोच्चारणं मकरन्दस्य बाल्यात्परं प्रथमयौवनं द्योतयति । भगवतीति कामन्दकीनामग्रहणं विपन्निरा- सार्थम् । माधवः । धिक्प्रमादोऽनवधानमस्मदादीनाम् । नवेष्विति । यतो मे प्रिया क्रूरैरिमैर्लोध्रप्रसवादिभिरस्मिन्वने प्रमथ्य भङ्क्त्वा व्यक्तं स्फुटं वि- भक्ता । तथा हि तत्कान्तिर्नूतनलोध्रप्रसवेषु, तथा हरिणेषु दृशः, तथा गजेषु गमनम्, तथा लतासु नम्रत्वम् । दृश्यत इति सर्वत्राध्याहार्यम् । इतीति प्रकारे ॥ २७ ॥ मकरन्दः—सुहृदीति । सुहृदि मित्रे गुणवति प्रीतिविषये प्राणनाथे येन विना प्राणान्धर्तुं न शक्यते । तथा पांसुक्रीडनादारभ्य प्रौढ- सख्ये । प्रियावियोगजन्यो य आधिर्मनोव्यथा सैव व्याधिस्तद्वेगं बिभ्राणे सति हतहृदय, विशीर्य विशीर्णीभूय कथं द्विधा न भवसीति ॥ २८ ॥ माधवः । किंचित्प्रशान्तोन्मादवेगो लोध्रप्रसवादिषु प्रिया विभक्तेति सादृश्यनिबन्धना भ्रान्तिरिति जानातीत्यर्थः । भवत्वित्येवं तावद्भवतु । जीवतु जीवन्तीतावत्क्वापि