भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 225, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 225

नवमोऽङ्कः । २९१ तदेतदसितोत्पलद्युति शरीरमस्मिन्नभू- न्ममापि दृढपीडनैरपि न तृप्तिरालिङ्गनैः । यदुल्लसितविभ्रमा बत निपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ ३८ ॥ हन्त भोः, एकस्यां तनावेतावतो गुणसमाहारस्य संनिवेशः कथ- मिवाभूत् । सखे माधव, आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् । निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥ ३९ ॥ तत्परिष्वजे तावदेवं गतमपि प्रियवयस्यम् । अर्थितश्चानेन संप्र- त्ययमेवार्थः । (परिष्वज्य ।) हा वयस्य, विमलकलानिधे गुणगुरो, हा मालतीस्वयंग्राह

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 225, कुल 377 में से · BharatKosha