भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 226, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 226

१२२ मालतीमाधवे आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय । त्वं पुण्डरीकमुखबन्धुतया निरस्त- मेको निवापसलिलं पिवसीत्ययुक्तम् ॥ ४० ॥ (सकरुणं विमुच्य । परिक्रम्य ।) इयमघस्तात्पाटलावती । भगवत्यापगे, प्रियस्य सुहृदो यत्र मम तत्रैव संभवः । भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥ ४१ ॥ (इति पतितुमिच्छति ।) सौदामिनी—(प्रविश्य सहसा वारयित्वा ।) वत्स, कृतं साहसेन । मकरन्दः—(विलोक्य ।) अम्ब, कासि । किमर्थं त्वयाहं प्रतिषिद्धः । सौदामिनी—आयुष्मन्, किं त्वं मकरन्दः । मकरन्दः—मुञ्च । स एवास्मि मन्दभाग्यः । सौदामिनी—वत्स, योगिन्यस्मि । मालतीप्रत्यभिज्ञानं च धारयामि । (बकुलमालां दर्शयति ।) मकरन्दः—(सोच्छ्वासं सकरुणम् ।) अपि जीवति मालती । सौदामिनी—अथ किम् । वत्स, किमत्याहितं माधवस्य । यदनिष्ठं व्यवसितोऽसीत्याकम्पितास्मि । मकरन्दः—आर्ये, तमहं प्रमुग्धमेव वैराग्यात्परित्यज्यागतः । विप्रप्रतीकारः कृतः क्रियते वेति प्राप्याकिंचित्कारित्वाद्विधेय इत्याशयः । अपश्चिम आद्यः । पुनर्मालिङ्गनाभावाद्यमेवापश्चिमो दुर्लभः । पश्चिमावस्थान्त्यावस्था । आ जन्मन इति । जन्मप्रभृति सहचरतयाभिन्नजननीस्तन्यमपि पीत्वा संप्रति बन्धुतया बन्धुसमूहेन निरस्तं दत्तं निवापमेक एव पिबसि मकरन्दं विहायेल्य- युक्तम् । निवापः पितृतर्पणम् ॥ ४० ॥ प्रियस्येति । यत्र स्थाने प्रियस्य म- त्प्रीतिस्थानस्य सुहृदो यत्र देशे संभवो जन्म स्यात्, तत्रैव ममापि संभवो भू- यात् । तथामुत्र परलोके तस्यैवानुचरो भूयासमिति प्रार्थनाद्वयम् ॥ ४१ ॥ मक- रन्दः । कामन्दकीसदृशवेशसौहार्दवयोदर्शनादम्बेत्युक्तिः । प्रतिषिद्धो निवारितः । तस्यैवानुसंचरो भूयासमिति प्रार्थनावचो दूरादाकर्ण्य सौदामिनी पृच्छति । किं मक- रन्द इति ॥ सौदामिनी। अथ किम्। जीवतीत्यर्थः । अत्याहितं महाभीतिः। किं विनाशो जातो माधवस्येत्याशयः । अनिष्ठं खशरीरत्यागरूपं व्यवसितोऽसि ॥मक-