मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 228, कुल 377 में से
संदर्भ में पढ़ें२२४ मालतीमाधवे माधवः—देव वायो, तथापि भवन्तमेव प्रार्थये । विकसत्कदम्बनिकुरुम्बपांसुना सह जीवितं घटय मे प्रिया यतः । अथवा तदङ्गपरिवासशीतलं मयि किंचिदर्पय भवांस्तु मे गतिः ॥ ४४ ॥ (कृताञ्जलिः प्रणमति ।) सौदामिनी—सुसमाहितः खल्वभिज्ञानार्पणस्यावसरः । (अञ्- लौ बकुलमालामर्पयति ।) माधवः—(साकूतं सहर्षं सविस्मयं च ।) कथमियमस्मद्विरचिता प्रियास्तनोन्नाहदुर्ललितमूर्तिरनङ्गमन्दिराङ्गणबकुलपादपकुसुममाला । (सम्यङ्निरूप्य ।) कः संदेहः । तथा हि स एवायमस्याः मुग्धेन्दुसुन्दरतदीयमुखावलोक- हेलाविशृङ्खलकुतूहलनिह्नवाय । दुर्न्यस्तपुष्परचितोऽपि लवङ्गिकाया- स्तोषं ततान विषमग्रथितो विभागः ॥ ४५ ॥ (सहर्षोन्मादमुत्थाय ।) चण्डि मालति, इयं विलोक्यसे । (सकोपमिव ।) अयि मदवस्थानभिज्ञे
व्याजेन परिभुक्तप्रगल्भपुरन्ध्रीमुखाः तथा विकचकदम्बकोशरजोऽभ्रभृङ्गसमूहसङ्गशा- रमनोहराः ॥ ४३ ॥ माधवः । यद्यपि त्वया संज्ञारूपव्याधिर्जनितः, तथापि त्वामेव प्रार्थये देवत्वादेव । विकसदिति । यत्र मे प्रिया वर्तते तत्र परागैः सह मत्प्राणाञ्छ्रय । सप्तम्यर्थे सार्वविभक्तिकस्तसिः । तदङ्गसङ्गशीतलं वा किंचिद्वस्तु प्रेरय यत्राहं तिष्ठामि । त्वां विना वने क इदानीं गतिरित्याशयः ॥ ४४ ॥ सुसमाहितः सुष्ठु भद्रः । य एवाञ्जलिः प्रथमप्रणामाञ्जलिर्माधवेन बद्धस्तत्रैवाभिज्ञानस्रजमर्प- यति ॥ माधवः । उन्नाहेनोपरिवर्तनेन दुर्ललितमूर्तिः । उन्नाह उत्सेध इत्यन्ये । मदनमन्दिराजिरकेसरस्रक् । अनङ्गमन्दिरपदमत्र घृणावदर्थे । कः संदेहः । सैवेय- मित्यर्थः । तथा हि स एवास्याः स्रजो विभागः । मुग्धेति । दुर्न्यस्तान्यभद्रीकृत्य निवेशितानि पुष्पाणि तै रचितोऽपि लवङ्गिकायास्तोषं ततान विस्तारयामास । दु- र्न्यस्तपुष्परचितत्वेनैव विषमग्रथितः। दुर्न्यस्तत्वे हेतुमाह—मुग्धेन्दुवत्सुन्दरं यत्त- दीयं मुखं तदवलोकने हेला शृङ्गारजो भावविशेषस्तेन विशृङ्खलमुद्भूतं माधवे यत्कुतूहलं तस्य निह्नवाय । मालतीपरिजनेभ्यो गोपनायेत्यर्थः ॥४५॥ अथासाधा- रणाभिज्ञानलाभेन संनिहितप्रच्छन्नां मालतीं मन्यमानोऽकालव्यसनोन्मादः सको- पमिवाह—स्वस्थदशायां हि परिहासः क्रियते । त्वं पुनरेतर्हि मम दशानभिज्ञा ।