भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 236, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 236

Here is the complete and accurate line-by-line transcription of the provided page in Devanagari Markdown:

२३२ मालतीमाधवे कथं त्वं कल्याणि, कामन्दकीं त्यजसि । नन्वकरुणे, मदीयचीवरा- ञ्चलोष्मणैव ते प्रगुणितान्यङ्गानि । स्तन्यत्यागात्प्रभृति सुमुखि दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च । लोकश्रेष्ठे गुणवति वरे स्थापिता त्वं मयैव स्नेहो मातुर्मयि समधिकस्तेन युक्तस्तवापि ॥ ५ ॥ (सवैक्लव्यम् ।) हा चन्द्रमुखि, संप्रति निराशास्मि संवृत्ता । अकारणस्मेरमनोहराननः शिखाललाटार्पितगौरसर्षपः । तवाङ्कशायी परिवृत्तभाग्या मया न दृष्टस्तनयः स्तनंधयः ॥ ६ ॥ लवङ्गिका—भअवदि, पसीद । णिस्सहाम्हि जीविदुव्वहणे । साहं इमादो गिरिप्पपादादो अत्ताणं अव