मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 237, कुल 377 में से
संदर्भ में पढ़ेंकामन्दकी—ननु लवङ्गिके, कामन्दक्यपि नातः परं वत्सा- वियोगेन जीविष्यति । समश्चायमुत्कण्ठावेग आवयोः । किंच, संगमः कर्मणां भेदाद्यदि न स्यान्न नाम सः । प्राणानां तु परित्यागे संतापोपशमः फलम् ॥ ७ ॥ लवङ्गिका—जहाँ तुम्हे आणवेत्थ । (इत्युत्तिष्ठति ।) कामन्दकी—(सदयं वीक्ष्य ।) वत्से, मदयन्तिके । मदयन्तिका--किं२ आणवेध । अग्गेसरीहोहि त्ति । अवहिदह्मि । लवङ्गिका—सँहि, पसीद । विरम एत्तो अत्तणो वावादणादो । मा अ एणं जणं विसुमरेसि । मदयन्तिका—(सकोपमिव ।) ॲपेहि । णह्मि दे वसंवदा । कामन्दकी—हन्त, निश्चितं वराकया । १. यथा यूयमाज्ञापयथ । २. किमाज्ञापयथ, अग्रेसरीभवेति । अवहितास्मि । ३. सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । मा चैनं जनं विस्मारिष्यसि । ४. अपेहि । नास्मि ते वशंवदा । करोतु, येन जन्मान्तरेऽपि तावत्प्रियसखीं प्रेक्षिष्ये । संगम इति। मरणचि- न्तायाः संगमो भविष्यतीत्याशङ्क्य यद्यपि शुभाशुभकर्मणां भिन्नलोकप्राप्तिहेतूनां भेदात्कदाचित्संगमः स्यान्न वा स्यान्नाम । तत्फलं मरणफलं भवतु । मालती- मरणरूपदुःखोपशमरूपं भविष्यतीत्यर्थः ॥ ७ ॥ लवङ्गिका । यथा यूयमाज्ञाप- यथ । उत्तिष्ठति पतनायेति शेषः ॥ कामन्दकी । सदयं लवङ्गिकां वीक्ष्य । लवङ्गिकां धारयेति वक्तुमक्षमा मदयन्तिकामाकारयति । मदयन्तिका तु मालती- वियोगदुःखमसहमाना लवङ्गिकाविनाशमपि द्रष्टुमसमर्थाह—मदयन्तिका । कि- माज्ञापयेथेति । लवङ्गिकायास्त्वम्रेसरीभवेति । अवहितास्मि सावधानास्मि तथा व्यापारे ॥ लवङ्गिका । सखि, प्रसीद । विरमैतस्मादात्मनो व्यापादनात् । आत्मा- नमुद्दिश्य—मा चैनं जनं विस्मारिष्यसि ॥ मदयन्तिका । शिखरात्पतितुं कृत- निश्चया लवङ्गिकां सकोपमिवाह—अपेहि । नास्मि ते वशंवदा । अवश्यं मरिष्या- मीत्याशयः । वशंवदा या भवत्याः सैव स्मरिष्यतीत्याशयः ॥ कामन्दकी । निश्चितं शरीरपातनकर्मांनया । वराकीत्यनुकम्पायाम् । मदयन्तिका मकरन्दपरा- क्रमक्रीतमात्मनो जीवितं तदायत्तं त्यक्तुं मनसा मकरन्दं जीवितेश्वरं प्रणमति ॥