मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 238, कुल 377 में से
संदर्भ में पढ़ें२३४ मालतीमाधवे मदयन्तिका—(स्वगतम् ।) १णाह मअरन्द, णमो दे । लवङ्गिका—भअवदि, अअं एव्व महुमदीसोत्तसंदाणिदपवि- त्तमेहलो महीहरविटङ्को । कामन्दकी—कृतमिदानीं प्रस्तुतान्तरायेण । (सर्वाः पतितुमिच्छन्ति ।) (नेपथ्ये ।) आश्चर्यम्, व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः । कामन्दकी—(विलोक्य साद्भुतहर्षम् ।) कथमिह मम वत्सस्तत्किमेतत् मकरन्दः—(प्रविश्य ।) किमन्य- त्प्रभवति हि महिम्ना स्वेन योगीश्वरीयम् ॥ ८ ॥ १. नाथ मकरन्द, नमस्ते । २. भगवति, अयमेव मधुमतीस्रोतस्संदानितपवित्रमेखलो महीधरवि- टङ्कः । मदयन्तिका । नाथ मकरन्द, नमस्त इति ॥ लवङ्गिका । भगवति, अयमेव मधुमतीस्रोतसः संदानितत्वेन पवित्रमेखलो महीधरविटङ्कः । 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । मधुमती नदी ॥ कामन्दकी । प्रकृतमत्र मरणम् । तदन्तरायः कालक्षेपरूपः ॥ व्यतिकर इति श्लोको व्याख्यातपूर्वः ॥ कामन्दकी । साश्चर्यं सहर्षं च । वदतीति शेषः । अयमीदृशो व्यतिकरः सं- प्रदायोपदेशपरम्परापरिपक्वसमाधिप्रभवप्रकृष्टाभ्युदयसूचकः कथमन्यत्र संभाव्यते मदन्तेवासिव्यतिरेकेण । तद्व्यतिकरदर्शनमद्भुतहर्षयोर्निमित्तमिति भावः । तत्कथं मम वत्सो मकरन्दो दृश्यत इति शेषः । तद्दर्शितफलं तावद्व्यतिकररूपेण शुभ- निमित्तेन व्यतिकरनिदानमप्यस्मादेव ज्ञातव्यमित्याशयः । तत्किमेतदिति का- मन्दकीप्रश्नवाक्यैकदेशं प्रति कथाजिज्ञासापरमवगम्य मकरन्दः प्रविश्य व- दति—किमन्यदिति । इयं कापि योगीश्वरी प्रकृष्टयोगर्द्धिः । तत्प्रभावादयं व्यतिकर इत्यभिप्रायः । कामन्दकीप्रभृतिभिश्च प्रकृष्टहर्षपूर्यमाणमकरन्दनयनचे- ष्टाभिः कुशलिनी मालती समास्तेति निर्णीतमिति प्रतीयमानोऽर्थः । अत एव