मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 248, कुल 377 में से
संदर्भ में पढ़ें२४४ मालतीमाधवे न्यथा वस्तु प्रवृत्तम्, अन्यथा वचनमस्याः । यतः श्रावकावस्थाया- मसत्सौदामिनीसमक्षं तयोः प्रवृत्तेयं प्रतिज्ञावाभ्यामपत्यसंबन्धः कर्तव्य इति । प्रधानप्रकृतिकोपस्त्वेवं परिहृतः । मालती—^१अहो संवरणम् । मकरन्दमाधवौ—(आश्चर्यम् ।) जयन्ति खलु महतां विसंवा- दिन्यः प्रत्यायिन्यः कल्याणा नीतयः । कामन्दकी—वत्स, यत्प्रागेव मनोरथैर्वृतमभूत्कल्याणमायुष्मतो- स्तत्पुण्यैर्मदुपक्रमैश्च फलितं क्लेशैश्च मच्छिष्ययोः । निष्णातश्च समागमोऽपि विहितस्त्वत्प्रेयसः कान्तया संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ २४ ॥ माधवः—(सहर्षम् ।) अतः परं मम प्रियमस्ति तथापीदमस्तु भरतवाक्यम्— १. अहो संवरणम् । यामुपदेशसमये प्रीत्या परिग्रहाय नानादिगन्तवास्तव्यजनसाहचर्यमासीदिति । सौदामिनीसमक्षमिति । तेन सौदामिन्येवात्र साक्षिणी । यद्यथा वस्तुव्या- पाराभ्यां तयोः संनिधानमेव तत्प्रियंकरत्वेन । इयं तु विपत्प्रतीकारं कृतवतीत्या- शयः । अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इत्यात्मनः प्रवृत्तिसमयनिश्चितं कुट्टनीभावं समस्तलोकसमक्षपरिसृतं पृच्छति । अनेनैव साक्षात्प्रतिषेधः । को- पायः । शिवस्तदुपाय इति निर्वहणार्थं स्मारयति ॥ मालती । अहो संवरण- मिति । अहो अत्युक्तौ । संवरणं हि तद्विशेषतस्तु बालक्रीडादित्यादि प्रतिसंहि- तम् ॥ मकरन्दमाधवौ । विसंवादिन्यो विप्रलम्भकाः । प्रत्यायिन्यः प्रत्यय- युक्ताः । प्रत्ययशब्दस्य प्रभावपर्यायत्वात्प्रभावश्च दुर्घटोऽपि कार्यस्य झटिति संघटनेनोन्नेयः । कल्याणाः शुभाः । जयन्तीति च स्तुतौ च कथं भवत्याः सुमे- धसो नीतिर्विपर्यस्यते । मुखसंधिसूचितमनुसंधेयम् । कामन्दकी । यत्प्रा- गेवेति । कल्याणं करग्रहणरूपं पुण्यैः प्रागाचरितैरा राधकैरुपकारकैर्मदुपक्रमैः संनिपत्यकारकैर्मम बुद्धिव्यापारैः करणभूतैस्तत्कल्याणं फलितम् । तथा शिष्य- योर्भूरिवसुदेवरातयोरभिमतं पाणिग्रहणं स्यादित्येवंरूपचिन्ताजन्यखेदाः फलिताः । तद्वत्प्रेयसो मकरन्दस्य कान्तया मदयन्तिकया सह निष्णातो निपुणः समागमो विहितः कृतः । तथा संप्रीतौ राजनन्दनाविति यौ प्राग्विचिन्तितौ तौ