भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 249, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 249

दशमोऽङ्कः । २४५ शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगुणाः । दोषाः प्रयान्तु शान्तिं सर्वत्र सुखी भवतु लोकः ॥ २५ ॥ कामन्दकी—एवमस्तु । (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे दशमोऽङ्कः । वः संप्रीतौ संजातप्रीतिसंयुक्तौ ॥ २४ ॥ अतः किमपरं प्रियतरं किमस्ति तदप्युच्यताम् । साधयामि इत्यादिपदैः क्रमेण विप्रादिशूद्रपर्यन्ताश्च चत्वारो वर्णा आशंसाविषयाः (?) ॥ २५ ॥ शबरस्वामिप्रीत्या प्रकरणरत्नाकरे तु भवभूतेः । सारोद्धारं मन्दरमकृत कृती व्याकृतिं नान्यः ॥ अतिदुस्तरोऽल्पमतिना पावनकर्मप्रसादनो हि मुदा । हारं हारं व्याख्यामाश्रित्य प्रकरणोदधिस्तीर्णः ॥ इति श्रीशिलाभट्टीयान्वयश्रीहरिचन्द्रसूनोस्त्रिपुरारिपदाम्भो- जभृङ्गायमानमानसस्य श्रीनान्यदेवस्य कृतौ मालती- माधवीयटीकायां दशमाङ्कविवरणम् ॥

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 249, कुल 377 में से · BharatKosha