मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
DevanagariHindipublished377 पृष्ठ
पृष्ठ 252, कुल 377 में से
संदर्भ में पढ़ेंपृष्ठ 252
४ जगद्धरकृता (पुरतोऽवलोक्य ।) अये, उदितभूयिष्ठ एव भगवानशेष- भुवनद्वीपदीपकस्तपनः । तमुपतिष्ठे ( प्रणम्य ) 'कल्या- णानाम्—' इति श्लोकैः ॥५॥ (नेपथ्याभिमुखमवलोक्य ।) मारिष, सुविहितानि रङ्गमङ्गलानि, संनिपतितश्च भगवतः अलमिति । अयमाशयः—पूर्वोक्तान्यङ्गानि न भवन्ति किंतु परिषदोऽभिमुखी- करणानि । सा चेत्स्वयमेव कृतावधाना नवनाटकविलोकोत्का च तदन्यत्प्रयुज्य- मानमपि रसभङ्गाय परं भवतीति कृतं तत्प्रणयनेन । अन्यथा सभाया रसविच्छेदो भवेदिति निष्फलतेति । अये इति निपातो व्यासङ्गादिनानाकलितस्याकलनेन संभ्रमवाचकः । अकस्मात्सूर्योदयाकलनात् । 'ततः श्लोकं पठेदेकं गम्भीरस्वरसं- युतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥' इति भरतमतमनुसृत्य माङ्गलि-