मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 253, कुल 377 में से
संदर्भ में पढ़ेंमालतीमाधवटीका । कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्तवास्तव्यो महाजनसमाजः । आदिष्टाश्चास्मि विद्वज्जनपरिषदा यथा केनचिदपूर्वप्रकरणेन वयं विनोदयितव्या इति । तत्कि- मित्युदासते भरताः । पारिपार्श्वकः—(प्रविश्य ।) भाव, परिषन्निर्दिष्टगुणं प्रबन्धं नाधिगच्छामः । सूत्र- धारः—मारिष, कतमे ते गुणास्तत्र यानुदाहर- न्त्यार्यविदग्धमिश्रा भगवन्तो भूमिदेवाश्च । नटः— 'भूम्ना रसानाम्—' इति श्लोकः ॥ ६ ॥ सूत्रधारः— तानि । रङ्गो नृत्यं तदर्थ मङ्गलानि लोकपालपूजादीनि । 'रङ्गो नृत्ये रणक्षितौ' इति विश्वः । संनिपतितः सर्वत्र आगत्यैकत्र मिलितः । कालप्रियनाथस्य तद्देशदेवभे- दस्य । यात्राप्रसङ्गेनेति नृत्यकालसूचनम् । 'इदं ध्वजमहः श्रीमन्महेन्द्रस्य प्रवर्तते' इत्यभिधानात् । वास्तव्यो वासी । महाजनसमाजो विद्वद्गोष्ठी । उदासत उदासीना भवन्ति । भरता नटाः ॥ पारिपार्श्विकलक्षणं भरते—'सूत्रधारस्य पार्श्वे यः प्रब- न्धंकुरुतेऽर्थनाम् । काव्यार्थसूचनालापं स भवेत्पारिपार्श्विकः ॥' इति । भाव मान्यनट, परिषदा प्रेक्षकेण निर्दिष्टो गुणो यत्र तं प्रबन्धं प्रकरणम् । प्रेक्षकस्तु— 'यस्तुष्टे तुष्टिमायाति शोके शोकमुपैति च । क्रुद्धः क्रुद्धे भये भीतः स नाट्ये प्रेक्षकः स्मृतः ॥' इति भरतोक्तः । पूजावाक्यगर्भं प्रश्नमाह—कतमे इति । 'गोत्रं नाम च बध्नीयात्पूजावाक्यं च सर्वतः' इति भरतः । कतमे । कियन्त इ- त्यर्थः । आर्याः सुकुलादिसंपन्नाः । यदाह भरतः—'कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता । अद्रोह इति येष्वेतान्तार्यान्सं प्रचक्षते ॥' विदग्धाश्चतुःषष्टिकला- वेदिनः । मिश्रा वेदान्तवेदिनः । भगवन्तः स्मृतिधराः । यदाह—'देवाश्च लिङ्गि- नश्चैव नानास्मृतिधराश्च ये । भगवानिति ते वाच्याः पुरुषाः स्त्रिय एव च ॥' इति । यद्वा । आराद्याता दूरं गता ग्राम्यत्वादिकदोषेभ्य इत्यार्याः । विदग्धाः का- व्यरसचक्षमनासः । मिश्राः पूज्याः । पूज्ये मिश्रपदं नित्यं बहुवचनान्तम् । 'मरी- चिमिश्रैर्दृष्टेण' इति विष्णुपुराणात् । भगवन्तो ज्ञानादिसंपन्नाः । भूमिदेवा ब्रा- ह्मणाः । इह तत्रोद्घातकरूपा प्रस्तावना । यदाह भरतः—'सुप्रतीतं विस्मृतं वा यत्र कार्य प्रकाश्यते । तदुद्घातकमित्याहुः प्रश्नोत्तरमनोहरम् ॥' इति ॥ प्रबन्धे गुणानाह—भूम्नेति । यत्र प्रबन्धे रसानां शृङ्गारादीनां भूम्ना प्राचुर्येण गहना गम्भीराः सहृदयमात्रग्राह्याः प्रयोगाः सन्ति । एतेनास्य रसममत्वमुक्तम् । यत्र प्रबन्धे विचेष्टितानि मालतीमाधवादेः परस्परव्यापाराः सौहार्देन प्रेम्णा हृद्यानि मनोज्ञानि । यत्रौद्धत्यं नायकनायिकासखीभृत्यादिगुणमाहात्म्यमस्ति । कीदृशम् । आयोजितं विहितं कामसूत्रमनङ्गप्रयोगो यत्र तत् । यद्वा । औद्धत्यं निजोत्कर्षपुरः- सरमन्यावज्ञाविष्करणम् । तच्चायोजितस्य समन्तात्कार्याभिमुखीभूतस्य कामस्य