मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 254, कुल 377 में से
संदर्भ में पढ़ें६ जगद्धरकृता स्मृतं तर्हि । नटः—भाव, किमिव । सूत्रधारः— अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम् । तत्र केचित्तैत्तिरीयिणः काश्यपाश्चरणगुरवः पङ्क्तिपावनाः प- ञ्चाग्नयो धृतव्रताः सोमपीथिनो डम्बरनामानो ब्रह्मवा- दिनः प्रतिवसन्ति स्म । 'ते श्रोत्रियाः' इति श्लोकः ॥७॥ मन्मथेच्छायाः सूत्रं सूचकम् । सूत्रं संभोगः पटारम्भकस्तन्तुर्वा । अनेनात्र कामोद्दीपकतयौद्धत्यं गुणाय । स्वाभाविकस्य तस्य भूषणत्वमिति दर्शितम् । यत्र चित्राश्चर्यजनिका कथा कल्पितकथत्वात् । रसमयत्वाच्चाश्चर्यम् । वाचि वचने वि- दग्धता परिपाको निर्दोषत्वं वक्रता च यत्र । एतेनान्यनाटकादस्याधिकगुणवत्त्व- मुक्तम् । तं प्रबन्धं नर्तितुमादिशन्ति । मिश्रा इति शेषः ॥ ६ ॥ नटः—किमिव । किं स्मृतमित्यर्थः । अधुना 'रुणद्धि रोदसी वास्य यावत्कीर्तिर्ननश्वरी । तावत्कला- यमध्यास्ते सुकृतं वैबुधं पदम् ॥' इति निजनामादिकथनफलमनुसंध्य तदाचरते— अस्तीत्यादि । दक्षिणदेशस्य शृङ्गाररसवशतया तद्देशत्वेन स्वस्य तदुभयरसब- र्णनशक्तिरुक्ता । विदर्भेष्वित्यनेन वैदर्भीरीतिपरिचयचातुरी दर्शिता । पद्मगरं पद्मावती । नाम प्रसिद्धौ । न तु नामपदमभिधानार्थम् । तदा प्रकृत्यादित्वात्तृतीया स्यादित्यवधेयम् । तैत्तिरीयिणः । तैत्तिरीयकनामशाखाविशेषपाठिन इत्यर्थः। काश्यपाः काश्यपगोत्राः। चरणगुरव इति चरणशब्दः शाखाविशेषाध्ययनपरैकतापन्नजनसङ्घ- वाची । तत्र समूहे । ते गुरवः क्रियां कृत्वा वेदाध्यापयितारः । 'स गुरुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति' इति स्मृतेः । यद्वा चरणैः कलापादिभिर्गुरवो महान्तः । पङ्क्तिपावनाः पङ्क्तौ भोजनादिगोष्ठ्यां पावना अग्रभोजिनः पवित्रा वेत्यर्थः । यद्वा 'यजुषां पारगो यस्तु साम्नां यश्चापि पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः पङ्क्तिपा- वनः ॥' इति लक्षिताः । पञ्चाग्नयो दक्षिणाग्निगार्हपत्याहवनीयसभ्यावसथ्यरूपाम्रि- पञ्चकोपासकाः । धृतव्रताश्चान्द्रायणादिव्रतयोगिनः । सोमपीथिनः । सोमो लतावि- शेषो हुतशेषो वा तत्पायिनः । अनेन सोमयागयाजित्वमुक्तम् । डम्बरनामानो डम्बरमुत्कर्षसूचकं कुलनाम