मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 255, कुल 377 में से
संदर्भ में पढ़ेंतदामुष्यायणस्य तत्रभवतः सुगृहीतनाम्नो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नीलकण्ठस्यात्मसंभवो भट्टश्रीकण्ठपद- लाञ्छनो भवभूतिर्नामा जातूकर्णीपुत्रः कविर्निसर्गसौ- हृदेन भरतेषु स्वकृत्तिमेवंप्रायगुणभूयसीमस्माकमर्पित- वान् । यत्र खल्वियं वाचोयुक्तिः । 'ये नाम-' र्थीर्थम् । यागादीनां धनसाध्यतया तेषां तदादरो न तु भोगायेति भावः । दा- रान्पत्नीराद्रियन्ते । अपत्याय संतत्यर्थं न तु कामायेत्यर्थः । त आयुर्जीवनमा- द्रियन्ते । तपोर्थं तपश्चरणार्थं न तु व्यसनार्थम् । क्लेशबहुलं धर्म्यं कर्म तपः । तदनेन तेषां सर्वगुणवत्त्वं दर्शितम् । 'भूयिष्ठं भूयश्च भूरि च' इत्यमरः । 'अथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि । दाराः पुं भूम्नि च' । विनिश्चयायेत्यादौ तादर्थ्ये चतुर्थी ॥ ७ ॥ अत्र कुले जात आमुष्यायणः । तत्रभवतः पूज्यस्य । सुगृहीतं शोभनोच्चारणं बलिकर्णादिवन्मङ्गल्यं नाम यस्य । भट्टश्रुतःशाखाभिज्ञः । पवित्रा पुण्या कीर्तिर्यस्य । तस्यात्मसंभवः पुत्रः । श्रीः सरस्वती कण्ठे यस्य स श्री- कण्ठः । तद्वाचकं पदं लाञ्छनं चिह्नं यस्य सः । नाम्ना श्रीकण्ठः । प्रसिद्ध्या भवभूतिरित्यर्थः । 'श्रीर्वेश रचनाशोभाभारतीसरलद्रुषु' इति मेदिनीकारः । जतू- कर्णगोत्रप्रसूता जातूकर्णी तस्याः पुत्रः । निसर्गसौहृदेन साहजिकसौहार्देन । ननु 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयवृद्ध्या सौहार्दमिति स्यात् । उच्यते । हृदित्यादौ प्रतिपदोक्तस्य ग्रहणात् 'हृदयस्य हृल्लेख-' इति हृदादेशस्यासिद्धेः । यद्वा 'संज्ञापूर्वोको विधिरनित्यः' इति वचनादुभयपदवृद्धेरनित्यत्वम् । यद्वा 'सुहृद्दुहृदौ मित्रामित्रयोः' इति निपातस्य सुहृच्छब्दस्यावयवो हृच्छब्दस्तदन्तो- त्तरपदवृद्धिर्भवति । एवंप्रायगुणभूयसीं 'भूम्नां रसानाम्' इत्यादिप्रायैर्गुणैश्चर्चि- तामर्पितवान्प्रयोगतोऽर्थतश्च संक्रमितवान् । खलु प्रसिद्धौ वाक्यभूषायां वा । वाचोयुक्तिर्वचनरचनम् । 'वाग्दिक्पश्यञ्चो युक्तिर्दण्डहरेषु' इति षष्ठ्यलुक् । संप्रति स्वकौशलबलेन सगर्वमाह—ये नामेत्यादि । इह तावत्त्रिविधाः पु- रुषाः । केचिदज्ञा एव । केचिदद्वैतमतमग्नमनसः । काव्यरसविरसाः । इतरे सहृ- यहृदयामोदिकाव्यभव्यरसभररसिकाः । तत्राद्यान्प्रत्याह—ये केचिदज्ञा नोऽस्मा- कमिह प्रबन्धेऽवज्ञामवधीरणं प्रथयन्ति ख्यापयन्ति । नाम संभावनायाम् । संभाव्यत इव न तु वास्तवमित्यर्थः । ते किमपि किंचिदल्पं जानन्ति । तान्प्रति ताँल्लक्षीकृत्य मम नैष यत्नः । न हि बधिरे गीयते । यद्वा किंशब्द आक्षेपे । ते किं जानन्ति । किंतु न जानन्तीत्यर्थः । द्वितीयान्प्रत्याह—ये नाम निश्चये । वैषयिकसुखविमुखा मुमुक्षव इहावधीरणामाचरन्ति ते किमपि वाङ्मनसागोचरं परं ब्रह्म जानन्ति । ते नमस्यास्तान्प्रति मम नैष यत्नः । न हि सम्राजमधिकृत्य कौपीनं सूत्र्यत इति भावः । अन्त्यान्प्रत्याह—मम समानधर्मा तुल्यगुणः कोऽपि जन उत्पत्स्यते जन्माप्स्यत्यस्ति विद्यते वा तं प्रत्येव यत्न इति भावः । इहाल्पज्ञत्वेन साधर्म्यमनौद्धत्याय । बहुज्ञत्वेन साधर्म्यं कदर्थदुर्जनविवर्जनायेत्यु-