भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 256, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 256

इति श्लोकः ॥ ८ ॥ अपि च 'यद्वेदाध्ययनम्-' इति श्लोकः ॥ १० ॥ १ अतो यदस्माकमर्पितं प्रियसहृदात्रभवता भवभूतिनाम्ना प्रकरणं स्वकृतिर्मालतीमाधवं नाम त- मयत्र विवक्षा । अथेदानीमनुत्पन्नस्य कथमुत्पादोऽत्रानुपलब्धस्य वा कथमुप- लम्भ इत्युभययोग्यतामाह - यतः कालोऽयं निरवधिर्विगतावसानः । विपुला महती च पृथ्वी भूमिः । तथा च तस्येदानीमनुत्पन्नस्य कालान्तर उत्पाद इहा- नुपलब्धस्य देशान्तर उपलम्भश्च स्यादिति भावः । इह प्रथमार्धे बहुत्वेन प्रयोगो द्वितीयार्धे एकत्वेन प्रयोगश्च न दोषः । भिन्नवाक्यार्थत्वात् । एकवा- क्यार्थत्वे तादृक्प्रयोगस्यायोग्यतया दोषत्वात् । तथैव व्युत्पत्तेरित्यवधेयम् । यद्वा अवज्ञाप्रथमावसरेऽहंकारेणात्मनो गौरवाद्बहुत्वं निजसमतावसरे शान्त्या- त्मन्येकत्वम् । यद्वा जात्यभिप्रायमेकवचनम् ॥ ८ ॥ अधुना निजगुणगरिमोप- दर्शनेन निजग्रन्थे विदग्धमादरमाह- यद्वेदेत्यादि । यत्र खल्वियं वाचोयुक्ति- रित्यत्राप्यनुषज्यते । अद्वैतप्रतिपादको वेदभाग उपनिषत्तज्ज्ञानम् । योगः पात- ञ्जलशास्त्रम् । तयोरध्ययनज्ञानयोः कथनेन किम् । अपि तु न किमपीत्यर्थः । यतस्ततो वेदाध्ययनादेर्नाटके कश्चिद्गुणो नास्ति । तेषां नाटकेऽनुपयोगात् । तत इति ल्यब्लोपे पञ्चमी । तान्प्राप्य नाटके न कश्चिद्गुण इत्यर्थः । वयं सर्वमेव विद्मः, अनङ्गतया पुनस्तदत्र न निबद्धमिति भावः । तर्ह्यत्र कवेर्वेदादिज्ञानज्ञापनं किमर्थमत आह- यदिति । वचसां यत्प्रौढत्वं वाक्यार्थे पदं पदार्थे वाक्यं तत्कृतिः । यथा न दैवीयं किं तु मानुषीयर्थे निमेषवती । चन्द्रवदित्यर्थे 'नयन- समुत्थं ज्योतिरत्रेः' इति । यदाह दण्डी-'पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥' इति । यच्च वचसामु- दारता विकटत्वं यस्मिन्सति पदानि जनो नृत्यन्तीवेति मन्यते । यद्वा, उदार- तालंकारादिदोषशून्यत्वम् । यद्वा, उदारता गुणभेदः । यदाह दण्डी -'उत्कर्ष- वान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदारमाश्रयं तेन सनाथा काव्यपद्धतिः ॥' इति । यच्चार्थतो गौरवमनर्घ्यार्थता । यद्वा स्वल्पं वचनमर्थसार्थप्रसरसमर्थ- मित्यर्थः । तद्यदि नाटकेऽस्ति ततस्तदेव पाण्डित्यवैदग्ध्ययोर्गमकं बोधकम् । पण्डितो वेदाध्ययनादिकुशलस्तस्य भावः पाण्डित्यम् । वैदग्ध्यं रसादियोगि- प्रबन्धबन्धनकौशलम् । अनेन ग्रन्थे सर्वगुणवत्त्वमुक्तम् । तत्कर्तृत्वेनात्मनः सर्वपथीनमतिमहत्त्वमप्युक्तम् - नाटक इति । ननु नाटक इत्ययुक्तम् । अस्य प्रकरणत्वात् । प्रकरणनाटकयोर्भेदात् । मैवम् । नट नृत्तावित्यस्य घञि स्वार्थे कनि नाटकमिति । तथा च नाटके नाट्य इत्यर्थात् ॥ १० ॥' भूमिका व्याज- प्रवेशः । यदाह भरतः- 'अन्य रूपैर्यदन्यस्य प्रवेशः स तु भूमिका ।' इति । वर्गे भवा वर्याः । नटमेलकस्था इत्यर्थः । सौगतस्य बौद्धस्य । जगतपरित्रा-


१ अत्रापि नवमत्वे दशमत्वं त्रिपुरारिकृतटीकानुक्रमेण संख्यासंमेलनायैव ।