मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 256, कुल 377 में से
संदर्भ में पढ़ेंइति श्लोकः ॥ ८ ॥ अपि च 'यद्वेदाध्ययनम्-' इति श्लोकः ॥ १० ॥ १ अतो यदस्माकमर्पितं प्रियसहृदात्रभवता भवभूतिनाम्ना प्रकरणं स्वकृतिर्मालतीमाधवं नाम त- मयत्र विवक्षा । अथेदानीमनुत्पन्नस्य कथमुत्पादोऽत्रानुपलब्धस्य वा कथमुप- लम्भ इत्युभययोग्यतामाह - यतः कालोऽयं निरवधिर्विगतावसानः । विपुला महती च पृथ्वी भूमिः । तथा च तस्येदानीमनुत्पन्नस्य कालान्तर उत्पाद इहा- नुपलब्धस्य देशान्तर उपलम्भश्च स्यादिति भावः । इह प्रथमार्धे बहुत्वेन प्रयोगो द्वितीयार्धे एकत्वेन प्रयोगश्च न दोषः । भिन्नवाक्यार्थत्वात् । एकवा- क्यार्थत्वे तादृक्प्रयोगस्यायोग्यतया दोषत्वात् । तथैव व्युत्पत्तेरित्यवधेयम् । यद्वा अवज्ञाप्रथमावसरेऽहंकारेणात्मनो गौरवाद्बहुत्वं निजसमतावसरे शान्त्या- त्मन्येकत्वम् । यद्वा जात्यभिप्रायमेकवचनम् ॥ ८ ॥ अधुना निजगुणगरिमोप- दर्शनेन निजग्रन्थे विदग्धमादरमाह- यद्वेदेत्यादि । यत्र खल्वियं वाचोयुक्ति- रित्यत्राप्यनुषज्यते । अद्वैतप्रतिपादको वेदभाग उपनिषत्तज्ज्ञानम् । योगः पात- ञ्जलशास्त्रम् । तयोरध्ययनज्ञानयोः कथनेन किम् । अपि तु न किमपीत्यर्थः । यतस्ततो वेदाध्ययनादेर्नाटके कश्चिद्गुणो नास्ति । तेषां नाटकेऽनुपयोगात् । तत इति ल्यब्लोपे पञ्चमी । तान्प्राप्य नाटके न कश्चिद्गुण इत्यर्थः । वयं सर्वमेव विद्मः, अनङ्गतया पुनस्तदत्र न निबद्धमिति भावः । तर्ह्यत्र कवेर्वेदादिज्ञानज्ञापनं किमर्थमत आह- यदिति । वचसां यत्प्रौढत्वं वाक्यार्थे पदं पदार्थे वाक्यं तत्कृतिः । यथा न दैवीयं किं तु मानुषीयर्थे निमेषवती । चन्द्रवदित्यर्थे 'नयन- समुत्थं ज्योतिरत्रेः' इति । यदाह दण्डी-'पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥' इति । यच्च वचसामु- दारता विकटत्वं यस्मिन्सति पदानि जनो नृत्यन्तीवेति मन्यते । यद्वा, उदार- तालंकारादिदोषशून्यत्वम् । यद्वा, उदारता गुणभेदः । यदाह दण्डी -'उत्कर्ष- वान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदारमाश्रयं तेन सनाथा काव्यपद्धतिः ॥' इति । यच्चार्थतो गौरवमनर्घ्यार्थता । यद्वा स्वल्पं वचनमर्थसार्थप्रसरसमर्थ- मित्यर्थः । तद्यदि नाटकेऽस्ति ततस्तदेव पाण्डित्यवैदग्ध्ययोर्गमकं बोधकम् । पण्डितो वेदाध्ययनादिकुशलस्तस्य भावः पाण्डित्यम् । वैदग्ध्यं रसादियोगि- प्रबन्धबन्धनकौशलम् । अनेन ग्रन्थे सर्वगुणवत्त्वमुक्तम् । तत्कर्तृत्वेनात्मनः सर्वपथीनमतिमहत्त्वमप्युक्तम् - नाटक इति । ननु नाटक इत्ययुक्तम् । अस्य प्रकरणत्वात् । प्रकरणनाटकयोर्भेदात् । मैवम् । नट नृत्तावित्यस्य घञि स्वार्थे कनि नाटकमिति । तथा च नाटके नाट्य इत्यर्थात् ॥ १० ॥' भूमिका व्याज- प्रवेशः । यदाह भरतः- 'अन्य रूपैर्यदन्यस्य प्रवेशः स तु भूमिका ।' इति । वर्गे भवा वर्याः । नटमेलकस्था इत्यर्थः । सौगतस्य बौद्धस्य । जगतपरित्रा-
१ अत्रापि नवमत्वे दशमत्वं त्रिपुरारिकृतटीकानुक्रमेण संख्यासंमेलनायैव ।