मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 257, कुल 377 में से
संदर्भ में पढ़ेंमालतीमाधवटीका । ९ देव तत्र भवतः कालप्रियनाथस्य पुरतः प्रयोगेण प्र- स्थापयितुमुद्यताः । तत्सर्वे कुशीलवाः संगीतप्रयो- गेण मत्स्मीहितसंपादनाय प्रवर्तन्ताम् । नटः— (स्मृत्वा ।) एवं क्रियते युष्मदादेशः । किंतु या यस्य युज्यते भूमिका तां खलु तथैव भावेन सर्वे वर्ग्याः पाठिताः । सौगतजरत्परिव्राजिकायास्तु कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते, तदन्तेवासिन्यास्त्व- हमवलोकितायाः । सूत्रधारः—ततः किम् । नटः—ततः प्रकरणनायकस्य मालतीवल्लभस्य माध- वस्य वर्णिकापरिग्रहः कथम् । सूत्रधारः—मकर- न्दकलहंसप्रवेशावसरे तत्सुविहितम् । नटः—तेन जिका वृद्धा भिक्षुकी । एतादृशी दौत्ये प्रशस्ता । यदाह भरतः—'विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका । प्रविश्य चाशु विश्वासं दूतीकार्यं च विन्दति ॥' इति । वृद्धत्वं चास्या रूपशून्यसर्वदृश्यलप्रगल्भत्वसूचकम् । यदाह—'लज्जितं नार्थवन्तं वा रूपिणं वा तथातुरम् । दूतं वाप्यथ वा दूतीं न तु कुर्यात्कथंचन ॥' अन्तेवासिनी निकटशिष्या । अहं भूमिकामधीय इत्यन्वयः ॥ ततः किमिति । एतावदुक्त्वा किमिति विरतोऽसीत्यर्थः । प्रकरणलक्षणं भरते—'आत्मशक्त्या क- विर्यत्र कथां नायकमेव च । औत्पत्तिकं प्रकुरुते तद्धि प्रकरणं विदुः ॥' इदं च शुद्धम् । यदाह भरतः—'द्विधा प्रकरणं तन्तु शुद्धं संकीर्णमेव च । कुलस्त्रीर- चितं शुद्धं संकीर्णं वेश्यया कृतम्' ॥ अत्र नाटके यादशो नियमस्तथादृशः । नाय- कलक्षणं भरते—'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचि- र्वाग्मी रूढवंशः स्थिरो युवा ॥ धृत्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ विनयः शीलसंपत्तिर्मधुरः प्रियदर्शनः । त्यागः सर्वस्वदानं स्याद्दक्षः क्षिप्रकरो मतः ॥ प्रियंवदोऽनुत्कटवाक्सनेहो लो- करञ्जकः । मितप्रस्तुतवाग्वाग्मी नित्यकर्मरतः शुचिः ॥ ख्यातवंशो रूढवंशः षोडशात्रिंशको युवा । बाह्यजनःकर्मभिर्येश्च न चलः स स्थिरो मतः ॥ धृतिः सर्वेषु या प्रीतिरुत्साहोऽग्लानिरेव च । स्मृतिः कालान्तरज्ञानं प्रज्ञा तीक्ष्णमतिर्मता ॥ कलाश्चात्र चतुःषष्टिर्मानश्चित्तसमुन्नतिः । शूरः संग्रामनिपुणो रूपवान्दृश्य उच्यते ॥ अतिप्रतापस्तेजस्वी शास्त्रचक्षुस्त्रयीपरः । आत्मवत्सर्वभूतानि यः पश्यति स धा- र्मिकः ॥' इति । ननु मालतीवल्लभत्वं माधवस्य न योग्यं माधवेन वसन्तेन समं वर्षाकालीनाया मालत्या जातेः सम्बन्धाभावात् । मैवम् । अपूर्वमेव हि पदार्थ- सार्थं योगिनीप्रभावात्संपन्नमासाद्य सहृदयहृदयचमत्कारकारिणीं वैदग्धीमेव क- २३ माल०