भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 257, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 257

मालतीमाधवटीका । ९ देव तत्र भवतः कालप्रियनाथस्य पुरतः प्रयोगेण प्र- स्थापयितुमुद्यताः । तत्सर्वे कुशीलवाः संगीतप्रयो- गेण मत्स्मीहितसंपादनाय प्रवर्तन्ताम् । नटः— (स्मृत्वा ।) एवं क्रियते युष्मदादेशः । किंतु या यस्य युज्यते भूमिका तां खलु तथैव भावेन सर्वे वर्ग्याः पाठिताः । सौगतजरत्परिव्राजिकायास्तु कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते, तदन्तेवासिन्यास्त्व- हमवलोकितायाः । सूत्रधारः—ततः किम् । नटः—ततः प्रकरणनायकस्य मालतीवल्लभस्य माध- वस्य वर्णिकापरिग्रहः कथम् । सूत्रधारः—मकर- न्दकलहंसप्रवेशावसरे तत्सुविहितम् । नटः—तेन जिका वृद्धा भिक्षुकी । एतादृशी दौत्ये प्रशस्ता । यदाह भरतः—'विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका । प्रविश्य चाशु विश्वासं दूतीकार्यं च विन्दति ॥' इति । वृद्धत्वं चास्या रूपशून्यसर्वदृश्यलप्रगल्भत्वसूचकम् । यदाह—'लज्जितं नार्थवन्तं वा रूपिणं वा तथातुरम् । दूतं वाप्यथ वा दूतीं न तु कुर्यात्कथंचन ॥' अन्तेवासिनी निकटशिष्या । अहं भूमिकामधीय इत्यन्वयः ॥ ततः किमिति । एतावदुक्त्वा किमिति विरतोऽसीत्यर्थः । प्रकरणलक्षणं भरते—'आत्मशक्त्या क- विर्यत्र कथां नायकमेव च । औत्पत्तिकं प्रकुरुते तद्धि प्रकरणं विदुः ॥' इदं च शुद्धम् । यदाह भरतः—'द्विधा प्रकरणं तन्तु शुद्धं संकीर्णमेव च । कुलस्त्रीर- चितं शुद्धं संकीर्णं वेश्यया कृतम्' ॥ अत्र नाटके यादशो नियमस्तथादृशः । नाय- कलक्षणं भरते—'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचि- र्वाग्मी रूढवंशः स्थिरो युवा ॥ धृत्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ विनयः शीलसंपत्तिर्मधुरः प्रियदर्शनः । त्यागः सर्वस्वदानं स्याद्दक्षः क्षिप्रकरो मतः ॥ प्रियंवदोऽनुत्कटवाक्सनेहो लो- करञ्जकः । मितप्रस्तुतवाग्वाग्मी नित्यकर्मरतः शुचिः ॥ ख्यातवंशो रूढवंशः षोडशात्रिंशको युवा । बाह्यजनःकर्मभिर्येश्च न चलः स स्थिरो मतः ॥ धृतिः सर्वेषु या प्रीतिरुत्साहोऽग्लानिरेव च । स्मृतिः कालान्तरज्ञानं प्रज्ञा तीक्ष्णमतिर्मता ॥ कलाश्चात्र चतुःषष्टिर्मानश्चित्तसमुन्नतिः । शूरः संग्रामनिपुणो रूपवान्दृश्य उच्यते ॥ अतिप्रतापस्तेजस्वी शास्त्रचक्षुस्त्रयीपरः । आत्मवत्सर्वभूतानि यः पश्यति स धा- र्मिकः ॥' इति । ननु मालतीवल्लभत्वं माधवस्य न योग्यं माधवेन वसन्तेन समं वर्षाकालीनाया मालत्या जातेः सम्बन्धाभावात् । मैवम् । अपूर्वमेव हि पदार्थ- सार्थं योगिनीप्रभावात्संपन्नमासाद्य सहृदयहृदयचमत्कारकारिणीं वैदग्धीमेव क- २३ माल०